॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|2|16
SK 710
2|2|16
कर्त्तरि च   🔊
SK 710
सूत्रच्छेद:
कर्तरि - सप्तम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11] , तत्पुरुष:  [2|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
कर्तरि च यौ तृजकौ ताभ्यां सह षष्ठी न समस्यते। सामर्थ्यादकस्य विशेषणार्थं कर्तृग्रहणम्, इतरत्र व्यभिचाराभावात्। अपां स्रष्टा। पुरां भेत्ता। वज्रस्य भर्ता। ननु च भर्तृशब्दो ह्ययं याजकादिषु पठ्यते? सम्बन्धिशब्दस्य पतिपर्यायस्य तत्र ग्रहनम्। अकः खल्वपि ओदनस्य भोजकः। सक्तूनां पायकः।
`इतरत्र व्यभिचाराभावात्` इति। तृचि। सामथ्र्यादकस्येदं विशेषणम्। कर्त्तृग्रहणमित्यत्र हेतुः। सम्भवव्यभिचारे हि विशेषणविशेष्यभावो भवति। न हि तृच् कत्र्तारं व्यभिचरति; तस्य कत्र्तर्यैव विधानात्। अकस्तु व्यभिचरति; तस्य भावेऽपि विधानात। अतः सामथ्र्यादकस्यैव विशेषणं कर्त्तृग्रहणम्; न तृचः। `अपां रुआष्टा` इति। अपामैति कर्मणि षष्ठी। `अपां रुआष्टा` इति तृच्; व्रश्चादिना 8|2|36 षत्वम्। `सृजिदृशोर्झल्यमकिति` 6|1|57 इत्यमागमः।`ननु च` इत्यादि। याजकादिपाठाद्भवितव्यमेवात्र समासनेनेत्यभिप्रायः।`सम्बन्धिशब्दस्य` इत्यादिना परीहारः। होतृशब्देन सम्बन्धिशब्देन सम्बन्धिशब्देन साहचर्याद्भवर्तृशब्दोऽपि सम्बन्धिशब्दस्तत्र गृह्रते; अयन्तु क्रियाशब्दः-- बिभत्र्तीति भत्र्ता। `सक्तूनां पायकः` इति। `आतो युक् चिण्कृतोः` 7|3|33 इति युक्। अथ किमर्थं तृचः सानुबन्धकस्योच्चारमम्? तृनो निवृत्त्यर्थमिति चेत्, नैतदस्ति; तद्योगे `न लोकाव्ययनिष्ठा` 2|3|69 इत्यादिना षष्ठीप्रतिषेधात्। एवं तह्र्रेतदेव ज्ञापकम्--तृन्योगेऽपि क्वचित् भवतीति। तेन `भीष्मः कुरुणां भशोकहत्र्ता` इत्यादि सिद्धं भवति॥
कर्तरि॥ सम्भवे व्यभिचारे च सति विशेषणविशेष्यभावो भवतीत्याह सामर्थ्यादिति। सम्बन्धिशब्दस्येति। अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसीति भावः। अन्यस्त्वाह---होतृशब्दसाहचर्यादिति; तन्न, न हि तत्र बह्वचो होता गृह्यते। स एव सम्बन्धिशब्दः क्षीरहोतेत्यादौ क्षीप्तेत्येव गम्यते॥
सिद्धान्तकौमुदी
कर्तरि षष्ठ्या अकेन न समासः । भवतः शायिका । नेह तृजनुवर्तते । तद्योगे कर्तुरभिहितत्वेन कर्तृषष्ठ्या अभावात् ॥
कर्तरि च - कर्तरि च । कर्तरीत्येतत्षष्ठीत्यनुवृत्तेऽन्येति । तदाह — कर्तरि षष्ठआ इति । अकेनेति ।तृजकाभ्यां कर्तरी॑त्यतस्तदनुवृत्तेरिति भावः । भवतः शायिकेति ।स्त्रियां क्ति॑न्नित्यधिकारे धात्वर्थनिर्देशे ण्वुल्, अकादेशः, टाप् ।कर्तृकर्मणो॑रिति कर्तरि षष्ठी । अत्र अकस्य कत्र्रर्थकत्वाऽभावात्तृजकाभ्या॑मित्यस्य न प्राप्तिः । ननु पूर्वसूत्रेतृजकाभ्या॑मिति समस्तपदोपादानात्कथमिहाऽकस्यैवानुवृत्तिः, न तु तृच इत्यत आह-नेहेति । तद्योगे इति । तृचः कर्तरि विहितत्वेन "रुआष्टां कृष्ण" इत्यादौ कर्तुः कृताभिहिततया तत्र कर्तरि षष्ठआ एवाऽप्रसक्त्या तत्समासनिषेधस्यशशश्रृङ्गेण कण्डूयनं न कर्तव्य॑मितिवदसंभवपराहतत्वादित्यर्थः ।
कर्तरि च - नेह तृजिति । न चोत्तरार्थत्वं शङ्क्यम् । तृच्क्रीडाजीविकयोर्नास्तीति जयादित्येनोक्तत्वादिति भावः । व्वामनस्तु — ॒अके जीविकार्थे॑ इत्यत्रअतके॑ इति किम् ।रमणीयकते॑ति प्रत्युदाहरञ्जीविकायां तृचमिच्छति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!