॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|2|15
SK 709
2|2|15
तृजकाभ्यां कर्तरि   🔊
SK 709
सूत्रच्छेद:
तृजकाभ्याम् - तृतीयाद्विवचनम् , कर्तरि - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11] , तत्पुरुष:  [2|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
कर्तृग्रहणं षष्ठीविशेषणम्। कर्तरि या षष्ठी सा तृचा अकेन च सह न समस्यते। भवतः शायिका। भवत आसिका। भवतो ऽग्रगामिका। तृच् चर्तर्येव विधीयते, तत्प्रयोगे कर्तरि षष्ठी न अस्ति। तस्मात् तृज्ग्रहनम् उत्तरार्थम्। कर्तरि इति किम्? इक्षुभक्षिकां मे धारयसि।
भवतः शायिकेत्यादौ भावे `पर्यायार्हणोत्पत्तिषु ण्वुच्` 3|3|111 भवतीति ` कर्तृकर्मणो कृति` 2|3|65 इति कत्र्तरि षष्ठी। तृचा योगे कत्र्तरि षष्ठी नास्ति, तेनैव कर्त्तृरभिहितत्वात्। तर्हि किमर्थं तृचो ग्रहणमित्याह-- `तस्मत्` इत्यादि। `इक्षुभक्षिकां मे धारयति` इति। पूर्ववण्ण्युच्। अत्रेक्षुशब्दात् कृद्योगे कर्मणि षष्ठी। `मे`इति कत्र्तरि षष्ठी कृद्योगैव। `उभयप्राप्तौ कर्मणि` 2|3|66 इत्यत्र न प्रवर्तते; `अकाकारयोः प्रतिषेधः` (वा।143) इति वचनात्॥
तृजकाभ्यां कर्तरि॥ कर्तृ ग्रहणं षष्ठीविशेषणमिति। अथ कस्माद्विपर्यययो नाश्रीयते---इह तृजकविशेषणं कर्तृ ग्रहणमुतरत्र षष्ठीविशेषणमिति, एवं तृज्ग्रहणमुतरार्थमिति न वक्तव्यं भवति? उच्यते; ठ्नित्यं क्रीडाजीविकयोःऽ इत्यत्र तृज्ग्रहणस्याननुवृत्तिः शङ्क्येत ठ्कर्तरि चऽ इत्यत्र सम्बन्धासम्भवात्, न हि तृज्प्रयोगे कर्तरि षष्ठी सम्भवतीति। ननु च ठ्तृज्क्रीडाजीविकयोर्नास्तीत्यकएवोदाह्रियतेऽ इति वक्ष्यति, एवं तर्हि तथानाश्रितमित्येव। भवतः शायिकेति। ठ्पर्यायार्हणोत्पतिषु ण्वुच्ऽ। तृच्प्रयोगे कर्तरि षष्ठी नास्तीति। तेनैव कर्तुरभिहितत्वात्। इक्षुभक्षिकामिति। कर्मणि षष्ठ।ल समासः। म इति। ठ्धारेरुतमर्णऽ इति संप्रदाने चतुर्थी॥
सिद्धान्तकौमुदी
कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः । अपां स्रष्टा । वज्रस्य भर्ता । ओदनस्य पाचकः । कर्तरि किम् । इक्षूणां भक्षणमिक्षुभक्षिका । पत्यर्थभर्तृशब्दस्य तु याजकत्वादिसमासः । भूभर्ता । कथं तर्हि घटानां निर्मातुस्त्रिभुवनविधातुश्च कलह इति । शेषषष्ठ्या समास इति कैयटः ॥
तृजकाभ्यां कर्तरि - तृजकाभ्यां कर्तरि । कर्तरीति तृजकयोरेव विशेषणं, श्रुतत्वात्, नतु षष्ठ्याः । तदाह — कत्र्रर्थतृजकाभ्यामिति । अपां रुआष्टा वज्रस्य भर्तेति । "ण्वुल्तृचौ" इति कर्तरि तृच् । "कर्तृकर्मणोः" इति कर्मणि षष्ठी । एवमोदनस्य पाचक इति पचेः कर्तरि ण्वुल् । अकादेश इति विशेषः । इक्षुभक्षिकेति ।स्त्रियां क्ति॑न्नित्यदिकारे धात्वर्थनिर्देसे ण्वुल् । कर्मणि षष्ठआ समासः ।कर्मणि चे॑ति निषेधस्तु न, कर्तुः प्रयोग एव तत्प्रवृत्तेः । ननु भुवो भर्ता भूभर्तेत्यत्रापि निषेधः स्यात् । न च भर्तृशब्दस्य याजकादौ पाठाद्भवत्येव षष्ठीसमासः,याजकादिभिश्चे॑त्यस्य प्रतिप्रसवार्थत्वादिति वाच्यम्, एवं ततिवज्रस्य भर्ते॑त्यत्रापि समासप्रसङ्गादित्यत आह — पत्यर्थेति । याजकादौ पत्यर्थकस्यैव भर्तृशब्दस्य ग्रहणं, व्याख्यानात् । ततश्चवज्रस्य भर्ते॑त्यत्रयाजकादिभिश्चे॑ति समासो नेति भावः । कथं तर्हीति । त्रायाणां भुवनानां समाहारस्त्रिभुवनं ।तद्धितार्थे॑ति द्विगुः ।अकारान्तोत्तरपदो द्विगुः स्त्रिया॑मिति तु न भवति,पात्राद्यन्तस्य ने॑त्युक्तेः ।त्रिभुवनस्य विधाते॑ति तृचो योगे कथं कर्मणि षष्ठआ समास इत्याक्षेपः । परिहरति — शेषषष्ठएति । प्रत्यासत्या कारकषष्ठआ एवायं निषेध इति बहुष्विति सूत्रे कैयट आहेत्यर्थः ।
तृजकाभ्यां कर्तरि - तृजकाभ्यामिहकर्तृषष्ठआ तृजकाभ्या॑मिति वृत्तिकारव्याख्यानमयुक्तमिति ध्वयन्नाह — कत्र्रपर्थतृजकाभ्यामिति ।कर्तृ॑ग्रहणं तृजकयोरेव विशेषणमिति युक्तं, तयोः श्रुतत्वात्, न तु षष्ठआ इति भावः । यद्यपिकर्तरी॑ति तृचो न विशेषणमव्यभिचारात्, तथाप्यकस्य विशेषणत्वेन तदावश्यकमित्याह — इक्षुभक्षिकेति ।पर्यायार्हणे॑ति भावे ण्वुच् । कर्मणि षष्ठआ समासः । ननुवज्रस्य भर्ते॑ त्युदाहरणयुक्तम्, भर्तृशब्दस्य याजकादित्वेन समासाऽवश्यम्भावादित्याशङ्क्याह — पत्यर्थभर्तृशब्दस्येति । यद्यपि याजकादिष्वर्थविशेषविशिष्टतया भर्तृशब्दो न पठितः, तथापि रूढेर्बलीयस्त्वात्पतिपर्यायस्यैव तत्र ग्रहणम्, न तु यौगिकस्येति भावः । शेषषष्ठएति । न्यासकारस्तु तृन्नन्तमेतत्न लोके॑ति निषेधस्त्वनित्यः,त्रकाभ्या॑मिति वक्तव्ये तृचः सानुबन्धग्रहणाज्ज्ञापकादित्याह । केचुत्तु — ॒जनिकर्तुः॑,तत्प्रयोजको हेतुश्चे॑ति निर्देशादनित्योऽयं समासनिषेधैत्याहुः । तन्मन्दम् । शेषषष्ठीसमासेनोक्तनिर्देशोपपत्तेः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!