॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|2|14
SK 708
2|2|14
कर्म्मणि च   🔊
SK 708
सूत्रच्छेद:
कर्म्मणि - सप्तम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11] , तत्पुरुष:  [2|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
क्तेन इति निवृत्तम्। कर्मग्रहणं षष्ठीविशेषणम्। कर्मणि च या षष्ठी सा न समस्यते। उभयप्राप्तौ कर्मणि 2|3|66 इति षष्ठ्या इदं ग्रहनम्। आश्चर्यो गवां दोहो ऽगोपालकेन। रोचते ओदनस्य भोजनं देवदत्तेन। साधु खलु पयसः पानं देवदत्तेन। विचित्रा सूत्रस्य कृतिः पाणिनिना।
``उभयप्राप्तौ कर्मणि` 2|3|66 इत्यस्याः षष्ठआ इदं ग्रहणम्` इति। एतच्च् पुनः `कत्र्तरि चट 2|2|16 इति प्रतिषेधाद्विज्ञायते। यदि हि कर्मणि या काचित् षष्ठी तस्याः सर्वस्या इदं ग्रहणं स्यात् तदा `कत्र्तरि च` 2|2|16 इति पुनः प्रतिषेधं न कुर्यात्; अनेनैव सिद्धत्वात्। यत्र हि कत्र्तरि तृजकौ विहितौ तत्र नियोगतः कर्मणि षष्ठआ भवितव्यम्। तस्मात् `कत्र्तरि च` 2|2|16 इति पुनः प्रतिषेधवचनादुभयप्राप्तौ कर्मणि या षष्ठी विहिता तस्या अत्र ग्रहणमवसीयते। `उभयप्राप्तौ कर्मणि` 2|3|66 इति षष्ठआ इह ग्रहणादिध्मव्रशच्नः; पलाशशातनः, इक्षुभक्षिकां मे धारयसीति समासनिषेधो न भवति॥
कर्मणि च ॥ उभयप्राप्तौ कर्मणीति। अनेकार्थत्वान्निपातानामितीत्यर्थे चशब्दोऽयम्, तेन कर्मणीत्युच्चार्य या षष्ठी विधीयते सा न समस्यत इत्यर्थः। यदि च या काचन कर्मणि षष्ठी गृह्यएत ठ्कर्तरि चऽ इति निषेधं न कुर्याद्; अनेनेव सिद्धत्वात्। साधु पयसः पानमिति। कर्मणि च येन संस्पर्शादिति नित्यसमासार्थवचनमिति वक्ष्यति, तत्र पयः सुखमित्युदाहरिष्यते। इदं तु शरीरसुखस्याविवक्षायां रोगाद्यभिभूतोऽशक्नुवन्नेव यदा साधु पिबति, तदा द्रष्टव्यम॥
सिद्धान्तकौमुदी
उभयप्राप्तौ कर्मणि (कौमुदी-624) इति या षष्ठी सा न समस्यते । आश्चर्यो गवां दोहोऽगोपेन ॥
कर्मणि च - कर्मणि च । क्तेनेति निवृत्तम् । कर्मणि या षष्ठी सा न समस्यते इत्यर्थे अपां रुआष्टेत्यादावपि निषेधसिद्धेःतृजकाभ्यां कत्र्तरी॑ति व्यर्थं स्यात् । किं तु चकार इतिपर्यायः । कर्मणीति सप्तम्येकवचनमुच्चार्य यां षष्ठी विहिता सा न समस्यत इत्यर्थः । फलितमाह — उभयेत्यादिना । आश्चर्य इति । यद्यप्यत्रकर्तृकर्मणोः कृती॑त्येव कर्मणि षष्ठी, न तुउभयप्राप्तौ कर्मणी॑ति सूत्रेण, तस्य सूत्रस्य कर्मण्येव षष्ठी, न तु कर्तरीति नियमपरत्वात्, तथापि नियमसूत्राणां विधिरूपेण निषेधरूपेण च द्वेधा प्रवृत्तेः स्वीकारान्न दोषः ।शब्दानुशासन॑मित्यत्र तु वस्तुत आचार्यस्य कर्तृत्वेऽपि तस्यानुपादानादुभयप्राप्तावित्यस्याऽप्रवृत्तेर्नायं निषेधः, "कृत्वोऽर्थप्रयोगे" इत्यनुवृत्त्या कर्तृकर्मणोरुभयोः प्रयोग एव तस्य प्रवृत्तेः । यद्वा शेषे विभाषा अविशेषेण विभाषेत्याश्रित्य उभयप्राप्तावित्यभावपक्षेकर्तृकर्मणोः कृती॑त्येव षष्ठ्याः प्राप्तेर्नायं निषेध इत्यलम् ।
कर्मणि च - कर्मणि च । क्तेनेति नानुवर्तते,क्तेन च पूजाया॑मति निषेधवैयथ्र्यप्रसङ्गात् । षष्ठी त्वनुवर्तते, किंतु सापि या काचित्कर्मणि षष्ठी न गृह्रते ।अपां रुआष्टे॑त्यादावनेनैव सिद्धौतृजकाभ्यां कर्तरी॑ति निषेधवैयथ्र्यापत्तेः । किं चइध्मव्रश्चनः॑इत्यादौ समाससिद्धये वचनं कर्तव्यं स्यात् । न चकृद्योगलक्षमा षष्ठी समस्यते॑इति वार्तिकमस्त्येवेति वाच्यं, तस्य सिद्धान्ते प्रत्याख्यानात् । ततश्च निपातानामनेकार्थत्वादितीत्यर्थे चशब्दोऽयं, तदाह कर्मणीति या षष्ठीति । सप्तम्येकवचनान्तं पदमुच्चार्य या षष्ठी विहिता परिषेषिता वेत्यर्थः । मियमसूत्राणां विधिरूपेण निषेधरूपेण वेति द्वेधा प्रवृत्तेः स्वीकृतत्वात् । गवां दोह इति ।अगोपेने॑त्युपन्यासस्त्विह उभयप्राप्तिप्रदर्शनार्थः । अथ कथंशब्दानुशासन॑मिति । अत्र व्याचख्युः — शब्दानामितीयं षष्ठीकर्तृकर्मणो॑रिति विहिता, न तुउभयप्राप्तौ॑इत्यनेन, आचार्यस्य कर्तुः वस्तुतः सत्त्वेऽपीहानुपादानात् ।कृत्वोर्थप्रयोगे — -॑इत्यतःप्रयोगे॑ इत्यनुवर्तनात्कर्तृकर्मणोरूपादान एवायं नियम इति स्वीकारात् ।आश्चार्यो गवां दोहोऽगोपेने॑त्यत्र हि आश्चर्यं प्रतिपाद्यं तच्च यद्यशिक्षितो दोग्धा दुर्दोहा गावश्च दोग्धव्यास्तदैव निर्वहति न त्वन्यथा । अतः कर्तृकर्मणोर्विशिष्योपादानादस्तूभयप्राप्तिः, इह तुशब्दानामिदमनुशासनं, न त्वर्थाना॑मित्यर्थनिवृत्तिपरं वाक्यं, न तु कर्तृविशेषनिवृत्तिपरमतो नास्त्युभयप्राप्तिः । अस्तु यथाकथंचिदुभयप्राप्तिः, तथापि न क्षतिः,उभयप्राप्तौ॑इति सूत्रेअविशेषेणविभाषे॑ति पक्षस्यापि विद्यमानतया नियमाऽप्रवृत्तिपक्षे॒आचार्यस्य शब्दानुसासनमि॑ति प्रयोगसम्भवात् । यदि वा शेष लक्षणा षष्ठीति व्याख्यायते, तदा तु समासनिषेधशङ्कैवात्र नास्तीति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
कर्मणि च(434) (276 तत्पुरुषनिषेधसूत्रम् ।। 2। 2। 1 आ.10सू) (चकारस्येत्यर्थकतानिरूपणाधिकरणम्) (आक्षेपभाष्यम्) कथमिदं विज्ञायते ‐ कर्मणि या षष्ठी सा न समस्यत इति। आहोस्वित् ‐ कर्मणि यः क्तः ‐ इति।। कुतः संदेहः? उभयं प्रकृतम्। तत्रान्यतरच्छक्यं विशेषयितुम्।। (विशेषजिज्ञासाभाष्यम्) कश्चात्र विशेषः?।। (1350 प्रथमपक्षे दूषणवार्तिकम् ।। 1 ।।) ।। कर्मणीति षष्ठीनिर्देशश्चेदकर्तरि कृता समासवचनम् ।। (व्याख्याभाष्यम्) कर्मणीतिषष्ठीनिर्देशश्चेदकर्तरि कृता समासो वक्तव्य: प्र् इध्मप्रव्रश्चन: पलाशशातन: प्र्प्र् (1351 सूत्रवेर्यथ्यापत्तिवार्तिकम् ।। 2 ।।) ।। तृजकाभ्यां चानर्थकः प्रतिषेधः ।। (भाष्यम्) तृजकाभ्यां चानर्थकः कर्तरि प्रतिषेधो भवति। अपां स्रष्टा। पुरां भेत्ता। यवानां लावकः। कर्मणीत्येव सिद्धम्।। (द्वितीयपक्षाभ्युपगमभाष्यम्) अस्तु तर्हि ‐ कर्मणि यः क्त इति।। किमुदाहरणम्?। ब्राह्मणस्य भुक्तं वृषलस्य पीतमिति।। (1352 दूषणवार्तिकम् ।। 3 ।।) ।। क्तनिर्देशेऽसमर्थत्वादप्रतिषेधः ।। (व्याख्याभाष्यम्) क्तनिर्देशेऽसमर्थत्वाद् अप्रतिषेधः अनर्थकः प्रतिषेधः अप्रतिषेधः।। समासः कस्मान्न भवति?। असार्मथ्यात्।। कथमसामर्थम्?। सापेक्षमसमर्थं भवतीति। द्रव्यमत्रापेक्ष्यते ओदनः।। (1353 वार्तिकम् ।। 4 ।।) ।। प्रतिषेध्यमिति चेत्कर्तर्यपि प्रतिषेधः ।। (व्याख्याभाष्यम्) अथैवं सति प्रतिषेधः कर्तव्य इति मन्यसे, कर्तर्यपि प्रतिषेधो वक्तव्यः स्यात्-ब्राह्मणस्य गतः ब्राह्मणस्य ज्ञात इति ।। (1354 वार्तिकम् ।। 5 ।।) ।। पूजायां च प्रतिषेधानर्थक्यम् ।। (भाष्यम्) पूजायां च प्रतिषेधोऽनर्थकः ‐ राज्ञां पूजितः राज्ञामर्चित इति। कर्मणीत्येव सिद्धम्।। (1355 सिद्धान्तवार्तिकम् ।। 6 ।।) ।। तस्मादु भयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधः ।। (भाष्यम्) तस्माद् उभयप्राप्तौ कर्मणि इत्येवं या षष्ठी तस्याः प्रतिषेधो वक्तव्यः।। (आक्षेपभाष्यम्) स तर्हि वक्तव्यः?।। (समाधानभाष्यम्) न वक्तव्यः। इत्यर्थेऽयं चः पठितः ‐ कर्मणि च कर्मणीत्येवं या षष्ठी।। कर्मणि च ।। 14 ।।