॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|2|11
SK 705
2|2|11
पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन   🔊
SK 705
सूत्रच्छेद:
पूरण-गुण-सुहितार्थ-सदव्यय-तव्य-समानाधिकरणेन - तृतीयैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11] , तत्पुरुष:  [2|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
पूरण गुन सुहितार्थ सतव्यय तव्य समानाधिकरण इत्येतैः सह षष्ठी न समस्यते। अर्थशब्दः प्रत्येकम् अभिसम्बध्यते, तेन स्वरूपविधिर् न भवति। पूरणार्थे धात्राणां पञ्चमः। छात्राणां दशमः। गुण बलाकायाः शौक्ल्यम्। काकस्य कार्ष्न्यम्। सुहितार्थास् तृप्त्यर्थाः फलानां सुहितः। फलानां तृप्तः। सत् ब्राह्मणस्य कुर्वन्। ब्राह्मणस्य कुर्वाणः। अव्यय ब्राह्मणस्य कृत्वा। ब्राह्मणस्य हृत्वा। तव्य ब्राहमणस्य कर्तव्यम्। तव्यता सानुबन्धकेन समासो भवत्येव, ब्राह्मणकर्तव्यम्। समानाधिकरण शुकस्य माराविदस्य। राज्ञः पाटलिपुत्रकस्य। पाणिनेः सूत्रकारस्य। किं च स्यात्? पूर्वनिपातस्य अनियमः स्यात्। अनन्तरायां तु प्राप्तौ प्रतिषिद्धायां विशेषणं विशेष्येण बहुलम् 2|1|57 इति भवत्येव समासः। पुर्वनिपातश्च तदा दियोगतो विशेषणस्य एव।
`छात्राणां पञ्चमः` इति। `तस्य पूरणे डट्` 5|3|48 `नान्तादसंख्यादेर्मट्` 5|3|49 समुदायसमुदायिसम्बन्धे शेषलक्षणा षष्ठी। एवं `वलाकायाः शौक्ल्यम्`, `काकस्य काष्ण्र्यम्` इत्यत्र गुणगुणिसम्बन्धे शेषलक्षणैव षष्ठी वेदितव्या। ब्राआहृणस्य कत्र्तव्यमित्यत्र `कृत्यानां कत्र्तरि वा` 2|3|71 इति षष्ठी। अथ कथं गोर्विशतिरिति षष्ठीसमासः, यावता संख्याया गुणत्वात् प्रतिषेधेन भवितव्यम्? नैष दोषः; यदयं `शतसहस्तरान्ताच्च निष्कात्` 5|2|118 इत्याह, तज्ज्ञापयति-- संख्यायाः समासो भवतीति। न हि तेना विना शतसहरुआआन्तता निष्कस्य प्रातिपदिकस्य सम्भवति। `तव्यता सानुबन्धकेन समासो भवत्येव` इति। निरनुबन्धकपरिभाषया तस्याग्रहणात्। `ब्राआहृणकत्र्तव्यम्` इति। `गतिकारकोपपदात् कृत्` 6|2|138 इति प्रकृतिस्वरेणान्तस्वरितमुत्तरपदं भवति। यदि तर्हि निरनुबन्धकेनापि समासः स्यात् प्रकृतिस्वरे कृते प्रत्ययस्वरेण मध्योदात्तः स्यात्, स चानिष्टः; अतो निरनुबन्धकेन समासः प्रतिषिध्यते, न तु सानुबन्धकेन। किञ्च स्यादिति? एवं मन्यते-- क्रियमाणेऽप्येतस्मिन् प्रतिषेधे विशेषणसमासेनात्र भवितव्यमेव। तदवस्यम्भाविनि समासे यदि षष्ठीसमासः स्यात् तदा को दोषः स्यात्, यत्परिह्मतयेऽयं षष्ठीसमासः प्रतिषिध्यत इति? -- `{पूर्वनिपातस्यानियमः--काशिका}पूर्वनिपातानियः` इत्यादिना दोषमाह। यदि षष्ठीसमासः स्यात् तदा द्वयोरपि पदयोः प्रथमानिर्दिष्टत्वादुपसर्जने सति पक्षे विशेषणस्यापि पूर्वनिपातः स्यात्, स च नेष्यते। विशेषणसमासे सति विशेषणस्यैव समासशास्त्रे प्रथमानिर्दिष्टत्वात् पूर्वनिपातो भवतीति न भवत्येष दोषप्रसङ्ग॥
पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन॥ प्रत्येकमिति। पूरणादिभिरित्यर्थः। स्वरूपविधिरिति। पूरणादीनामर्थपर्यन्तानां चतुर्णामित्यर्थः। अत एव गुणशब्देन नादेङं ग्रहणम्, किं तर्हि ? ठ्सत्वे निविशतेऽपैतिऽ इत्यादिलक्षणलक्षितस्य गुणस्य ग्रहणम्; नापि नञो गुणप्रतिषेधे यस्य गुणस्य हि भावादिवत्प्रवृत्तिनिमितमात्रस्य ग्रहणम्, सामान्यादेरपि प्रसङ्गात्; नापि लोकप्रसिद्धस्य शुक्लादेरेव ग्रहणम्, कण्टकस्य तैक्ष्ण्यमित्यादेरपीष्टत्वात्; गुणशब्देन च केवलगुणवाचिनो गुणोपसर्जनद्रव्यवाचिनश्च व्याप्तिन्यायाश्रयेण गृह्यन्ते। तत्र गुणस्य गुण्यपेक्षत्वात्केवलगुणवचनैर्गुणेन समासनिषेधः----कण्टकस्य तैक्ष्ण्यमिति। गुणवचनैस्तु तत्सम्बन्धिनो निषेधः----ब्राह्मणस्य शुक्ला दन्ता इति, न चात्र दन्तापेक्षया ब्राह्मणस्येति षष्ठी, ततश्च शुक्लेनासम्बन्धादप्रसङ्ग एव समासस्य। यदा तर्ह्यर्थात्प्रकरणाद्वा दन्ता द्यर्थं एव शुक्लादिशब्दस्य वृत्तिर्विज्ञाता भवति, तदा तत्सम्बन्ध एव षष्ठीत्यस्ति समासप्रसङ्गः, ठ्शतसहस्रान्ताच्च निष्कात्ऽ, ठ्क्रोशशतयोजनशतयोरुपसंख्यानम्ऽ ठ्खारीशतमपि न ददातिऽ इत्यादि मुनित्रयप्रयोगाद् गोविंशतिरित्यादौ संख्यया समासो न निषिध्यते। संज्ञाप्रमाणत्वादुतरपदार्थप्राधान्यमित्यादिप्रयोगदर्शनादनित्यो गुणेन निषेध इति करणपाटवं बुद्धिमान्द्यं यत्नगौरवमित्यादिसिद्धिः। फलानां सुहित इति। करणस्यैव शेषत्वविवक्षया षष्ठी, शेषत्वविवक्षैव च नियता सुहितार्थयोगे करणस्येत्याहुः, कृद्योगलक्षणाया एव षष्ठ।ल निष्ठायोगे निषेधः। ब्राह्मणस्य कुर्वन्निति। नेयं घटाद्यपेक्षया षष्ठी---ब्राह्मणस्य घट्ंअ कुर्वन्निति, एवं ह्यसामर्थ्यादेव समासस्याप्रसङ्गः; किं तर्हि? कुर्वन्निति किङ्कर उच्यते, स हि कुर्वन् भवति, ततो यथा ब्राह्मणस्य पाचक इति साक्षादेव पाचकेन सम्बन्धो न पुनरोदनद्वारेण, तद्वदिहापतीति द्रष्टव्यम्। चोरस्य द्विषन्निति च सत उदाहरणम्, अत्र ठ्द्विषः शतुर्वा वचनम्ऽ इति पक्षे षष्ठी भवति। ब्राह्मणस्य कृत्वेति। ब्राह्मणार्थं कृत्वेत्यर्थः, सम्बन्धसामान्यरूपेण विवक्षितत्वात् षष्ठी। पुरा सूर्यस्योदेतोरिति चोदाहरणम्, अत्र ह्यव्ययप्रपिषेधे ठ्तोसुनोरप्रतिषेधःऽ इति कर्तर्येव षष्ठ।ल्स्ति। एवं वृक्षस्योपरीत्यादिकमप्युदाहरणम्। तव्यता सानुबन्धकेनेति। ठ्निरनुबन्धकग्रहणे न सानुबन्धकस्य ग्रहणम्ऽ इति भावः। ब्राह्मणकर्तव्यमिति। कर्तरि षष्ठयाः समासः कृदुतरपदप्रकृतिस्वरेणान्तस्वरितमेतत्, निरनुबन्धकेन तु समासे उतरपदं मध्योदातं स्यात्, सोऽयं स्वरार्थस्तव्येननिषेधः। शुकस्य माराविकस्येति। मा रावीत्याहेति माराविकः, ठ्तदाहेति मा शब्दादिभ्य उपसंख्यानम्ऽ इति ठक्, शब्देन क्रियायाः प्रतिषेधको माराविकः, संज्ञैषा शुकविशेषस्य, क्वचितु माराविदस्येति पाठः, तत्र माराविशब्दं ददातीति माराविदः, स एवार्थः। किं च स्यादिति। भवितव्यमेवात्र विशेषणसमासेन, तत् षष्ठीसमास एवास्तु, को दोष इति प्रश्नः। पूर्वनिपातानियमः स्यादिति। द्वयोरपि प्रथमानिर्दिष्टत्वेनोपसर्जनत्वादिति भावः। ननु विशेषणसमासेऽपि द्वयोरपि यत्र विशेषणविशेष्यभावस्तत्रेष्युक्तम्, अतस्तेनापि समासे विशेषणमिति प्रथमानिर्देशो द्वयोरपि तुल्यः। अथ तत्राप्रधानमुपसर्जनमार्थं चाप्राधान्यमिति द्रव्यगुणादिषु तेन प्रकारेण व्यवस्था, षष्ठीसमासेऽपि तथैव व्यवस्था भविष्यति। तस्माद्यतत्र प्रत्युदाहरणम्---तक्षकः सर्प इति, तयोः षष्ठ।ल्न्तयोः समासप्रसङ्ग एव दोषः, तन्निवृतये च प्रतिषेध इति वाच्यम्। तदिह ठ्किं च स्यात्ऽ इत्यादिकमेवानुपपन्नम्, उदाहरणं तूपपन्नम् यदि माराविकशब्दः संज्ञा। अथ सोऽपि योगवृत्तिः तर्हि तदप्यनुपपन्नम्। एवं पाटलिपुत्रकेऽपि द्रष्टव्यम्॥
सिद्धान्तकौमुदी
पूरणाद्यर्थैः सदादिभिश्च षष्ठी न समस्यते । पूरणे । सतां षष्ठः । गुणे । काकस्य कार्ष्ण्यम् । ब्राह्मणस्य शुक्लाः । यदा प्रकरणादिना दन्ता इति विशेष्यं ज्ञातं तदेवमुदाहरणम् । अनित्योऽयं गुणेन निषेधः । तदाशिष्यं संज्ञाप्रमाणत्वात् (कौमुदी-1295) इत्यादिनिर्देशात् । तेनार्थगौरवम् बुद्धिमान्द्यमित्यादि सिद्धम् । सुहितार्थास्तृप्त्यर्थाः । फलानां सुहितः । तृतीयासमासस्तु स्यादेव । स्वरे विशेषः । सत् । द्विजस्य कुर्वन्कुर्वाणो वा । किंकरः इत्यर्थः । अव्ययम् । ब्राह्मणस्य कृत्वा । पूर्वोत्तरसाहचर्यात्कृदव्ययमेव गृह्यते । तेन तदुपरीत्यादि सिद्धमिति रक्षितः । तव्ये । ब्राह्मणस्य कर्तव्यम् । तव्यता तु भवत्येव । स्वकर्तव्यम् स्वरे भेदः । समानाधिकरणेन । तक्षकस्य सर्पस्य । विशेषणसमासस्त्विह बहुलग्रहणान्न । गोर्धेनोरित्यादिषु पोटायुवति (कौमुदी-744) इत्यादीनां विभक्त्यन्तरे चरितार्थानां परत्वाद्बाधकः षष्ठीसमासः प्राप्तः । सोऽप्यनेन वार्यते ॥
पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन - पूरणगुण । पूरणगुणसुहितानि अर्था येषां ते पूरणगुणसुहितार्थाः, ते च सच्च अव्ययं च तव्यश्च समानाधिकरणं चेति समाहारद्वन्द्वात्तृतीया । तदाह — पूरणाद्यर्थैरिति । पूरणे इति । "उदाहरणं वक्ष्यते" इति शेषः । सतां षष्ठ इति । षण्णां पूरण इत्यर्थे "तस्य पूरणे डट्"षट्कतिकतिपयचतुरां थुक् । नचकुम्भपूरण॑मित्यत्रापि निषेधः स्यादिति वाच्यम्,सोऽचि लोपे चेत्पादपूरण॑मिति निर्देशेन पूरणार्थकप्रत्ययस्यैव ग्रहणात् ।उञ्छषष्ठाङ्कितसैकतानी॑त्यत्र तूञ्चात्मकः षष्ठ इति व्याख्येयम् । गुणे इति । "उदाहरणं वक्ष्यते" इत्यर्थः । प्रधानत्वेन वा , उपसर्जनत्वेन वा गुणवाची गुणशब्दः, व्याख्यानात् । तदाह — काकस्य कार्ष्ण्यं ब्राआहृणस्य शुक्ला इति । कृष्णशब्दात्गुणवचनब्राआहृणादिभ्यः॑ इति भावे ष्टञ् । शुक्लशब्दात्तुगुणवचनेभ्यो मतुपो लु॑गिति लुक् । ननु "दन्ता" इति शेष पूरणेनब्राआहृणस्य दन्ताः शुक्ला॑ इत्यर्थे ब्राआहृणशब्दस्य दन्तशब्देनैवान्वयाच्छुक्लशब्देनान्वयाऽभावादसामथ्र्यात्कथमिह समासप्रवृत्तिरित्यत आत-यदा प्रकरणादिनेति । प्रकरणादर्थाद्वेत्यर्थः । दन्ताः संयुक्ताः शुभावहा न तु, विरला इत्यादिदन्तवर्णने प्रकृते यदा "ब्राआहृणस्य शक्ला" इत्युच्यते, तदा प्रकरणादर्थाद्वेत्यर्थः । दन्ताः संयुक्ताः शुभावहा न तु, विरला इत्यादिदन्तवर्णने प्रकृते यदाब्राआहृणस्य शुक्ला॑ इत्युच्यते, तदा प्रकरणाद्दन्त #आ इति विशेष्योपस्थितिः । यदा वा सर्ववर्णेषु दन्तवस्त्रभूषणेषु प्रकृतेषुब्राआहृणस्य शुक्ला॑ इत्युच्यते, तदाऽर्थाद्दन्ता इति विशेष्योपस्थितिस्तत्र सामथ्र्यसत्त्वात्समासे प्राप्ते निषेध इत्यर्थः । अत्रआकडारा॑दिति सूत्रोक्तगुणवचनसंज्ञकानांतृतीया तत्कृते॑ति सूत्रे प्रपञ्चितानां गुणानां न ग्रहणम्, अत्र गुणवचनशब्दाभावात् । किंतुवोतो गुणवचना॑दिति सूत्रभाष्ये तद्धितान्तस्य गुणवचनत्वपर्युदासात्कथं काष्ण्र्यादिशब्दानां गुणवचित्वमिति निरस्तम् । अथअर्थगौरव॑मित्यादौ षष्ठीसमासं साधयितुमाह — अनित्योऽयमिति । संज्ञाप्रमाणत्वादिति । संज्ञायाः प्रमाणत्वं-संज्ञाप्रमाणत्वं, तस्मादिति विग्रहः । अत्र प्रमाणत्वस्य गुणत्वात्तेन षष्ठीसमासनिषाधत्समासनिर्देशोऽनुपपन्नः स्यादतो गुणेन निषेध इत्ययमर्थो भाष्ये न दृश्यते । न च कृष्णैकत्वमित्यादौ समासानुपपत्तिरिति वाच्यं,पङ्क्तिविशती॑ति सूत्रेविंशत्यादिशब्दा भाववचना भवन्ती॑त्युक्त्वा गवां विशतिगवां सहरुआमित्यर्थे गोर्विशतिर्गोसहरुआमित्यादिप्रयोगात् ।अर्थगौरव॑मित्यादौ त्वर्थगतं गौरवमिति मध्यमपदलोपिसमासो बोध्य इति शब्देन्दुशेखरे प्रपञ्चितम् ।सुहित॑पदं व्याचष्टे — सुहितार्तास्तृप्त्यर्था इति । नपुंसके भावे क्त इति भावः ।फलानां सुहित इति करणत्वस्याऽविवक्षायां संबन्धविवक्षायां षष्ठी । अर्थग्रहणात्फलानां तृप्तिरित्यादावपि न समासः ।फलसुहित॑मिति कथं समास इत्यत आह — तृतीयासमासस्त्विति । करणत्वविवक्षायां तृतीया ।कर्तृकरणे कृता बहुल॑मिति समास इति भावः । तर्हि सुहितयोगे षष्ठीसमासनिषेधो व्यर्थ इत्यत आह — स्वरे विशेष इति । तृतीयासमासेतृतीया कर्मणी॑ति पूर्वपदप्रकृतिस्वरः । षष्ठीसमासे तुसमासस्ये॑त्यन्तोदात्तत्वमिति फलभेद इति भावः । सदिति । सद्योगे षष्ठीसमासनिषेध उदाह्यियत इत्यर्थः ।तौ स॑दिति शतृशानचोः सदिति संज्ञा वक्ष्यते । ननुद्विजस्य कुर्व॑न्निति न कर्मणि षष्ठी,न लोके॑ति निषेधात् । नापिद्विजस्य घटं कुर्व॑न्नितिघटाद्यपेक्षया शेषषष्ठी, तर्हि सापेक्षत्वेनाऽसामथ्र्यात्कुर्वन्नित्यनेन समासाऽप्रवृत्तेरित्यत आह — किङ्कर इत्यर्थ इति । द्विजं परिचरन्नित्यर्थ इति यावत् । कुञ्धातुरिह परिचरणे वर्तत इति फलितम् । अव्ययमिति । "उदाहरणं वक्ष्यते" इति शेषः । पूर्वोत्तरेति । सत्तव्याभ्यां कृद्भ्यामित्यर्थः । "अनेकमन्यपदार्थे" इति सूत्रभाष्येसर्वपश्चा॑दिति प्रयोगश्चेह लिङ्गम् । तव्य इति । उदाहरणं वक्ष्यते इत्यर्थः । ब्राआहृणस्य कर्तव्यमिति । "अर्हे कृत्यतृचश्च" "तव्यत्तव्यानीयरः" इति कृत्यस्तव्यः ।कृत्यानां कर्तरि वे॑ति षष्ठी । तव्यता तु भवत्येवेति । "षष्ठीसमास" इति शेषः । तकारानुबन्धरहितस्येव तव्यस्य सूत्रे ग्रहणात्तव्यतो न ग्रहणमिति भावः । स्वकर्तव्यमिति । स्वस्य कर्तव्यमिति विग्रहः ।कृत्यानां कर्तरि वे॑ति षष्ठी । अत्र तव्यता योगात्समासनिषेधो नेति भावः । ननु तव्यत्प्रत्ययमाश्रित्यब्राआहृणकर्तव्य॑मिति समाससंभवात्क तव्ययोगे तन्निषेधेनेत्यत आह — स्वरे भेद इति । तव्यति कृते कृदुत्तरपद प्रकृतिस्वरः, तव्ये तु नेति फलभेद इति भावः । समानाधिकरण इति । समानाधिकरणेन षष्ठन्तं न समस्यते इत्यत्रोदाहरणं वक्ष्यत इत्यर्थः । तक्षकस्य सर्पस्येति । अत्र समासे सति पुनः समासात् षष्ठ्युत्पत्तौ तक्षकसर्पस्येति न भवतीत्यर्थः । ननु षष्ठीसमासस्य निषेधेऽपिविशेषणं विशेष्येणे॑ति कर्मधारयसमासो दुर्वारोऽतः किं षष्ठी समासनिषेधेनेत्यत आह — विशेषणसमासस्त्विति । ननु षष्ठीसमासनिषेधसामथ्र्यादेवात्र कर्मधारयो न भविष्यति, तत्किमगतिकगत्या बहुलग्रहणाश्रयणेन । न च कर्मधारयस्वर एव यथा स्यान्नतु षष्ठीसमासस्वर इत्येतदर्थः षष्ठीसमासनिषेध इति वाच्यम्, उभयथापिसमासस्ये॑त्यन्तोदात्तत्स्याऽविशिष्टत्वादिति चेत्, मैवम्-कर्मधारये हि सति "गमनस्य श्रेयस" इत्यादौश्रज्यावमकन्पापवत्सु भावे॑ इति पूर्वपदप्रकृतिस्वरः, षष्ठीसमासे त्वन्तोदात्तत्वं स्यात्, तन्माबहुलग्रहणमाश्रितम् । न चैवमपि तक्षकः सर्प इति प्रथमान्तविग्रहे कर्मधारये सतितक्षकसर्पस्ये॑ति दुर्निवारमिति वाच्यं, निषेधसामथ्र्यादेव प्रथमान्तकर्मधारयमाश्रित्य तक्षकसर्पस्येत्येवंजातीयकप्रयोगाऽभावोन्नयनात् । थ समानाधिकरणे निषेधे उदाहरणान्तरमाह — गोर्धेनोरिति । गोर्धोनोरित्यादिषु षष्ठीसमासः प्राप्तः, सोऽप्यनेन वार्यत इत्यन्वयः । आदिना यूनः खलतेरित्यादिसङ्ग्रहः । ननु षष्ठीसमास एवात्र न प्रसज्यते,पोटायुवति॑, युवा खलती॑त्यादि विसेषविहितकर्मधारयेणाऽत्र परस्यापि षष्ठीसमासस्य बाधितत्वादित्यत आह — पोटायुवतीत्यादि । "पोटायुवति"युवा खलती॑त्यादिविधयो "गौर्देनुः"युवा खलति॑रित्यादिषु प्रतमाविभक्त्यन्तेषु सावकाशाः । षष्ठीसमाससस्तु "राज्ञः पुरुषः" इत्यादावसमानाधिकरणे सावकाशः ।गोर्धेनोः॑,यूनः खलते॑रित्यादिषूभयं प्राप्तम् । तत्रपोटायुवति॑,युवा खलती॑त्यादिसमासे तु गोयुवादिशब्दस्यैवेति फलभेदस्य स्पष्टत्वात् । समानाधिकरणेन निषेधश्चायं क्वाचित्क एव,अन्यस्य पदस्यार्थ इत्यर्थेऽन्यपदार्थ इति निर्देशात् । तेन "नीलोत्पलस्य गन्ध" इत्यादिः सिद्धः ।
पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन - पूरणाद्यर्थेरिति । अत्र प्राचोक्तम्एतदर्थैः षष्ठी न समस्यते॑ इति तन्न्यूनम् । तथा हि सति सुहितान्तानामेव ग्रहणं स्यात्, तावतामेवाऽर्थशब्देन समस्तत्वादिति ध्वनयन्नाह — सदादिभिश्चेति । षष्ठ इति । षण्णां पूरणः षष्ठः ।तस्य पूरणे डट्,षट्कतिकतिपयचतुरां थुक् । कथं तर्हितान्युञ्छषष्ठाङ्कितसैकतानी॑ति । प्रमाद एवायमित्येके । उञ्छेषु षष्ठः, उञ्छात्मकऋः षष्ठ इति वा व्याख्येयमिति मनोरमायां स्थितम् । गुणे इति ।सत्त्वे निविशतेऽपैती॑त्यादिलक्षणलक्षैतो गुणोऽत्र गृह्रते, न त्वदेङ्लक्षणः, अर्थग्रहणात् । नापि सङ्ख्या,क्रोशशतयोजनशतयो॑रिति वार्तिके निर्देशात् । काकस्य काष्ण्र्य । ब्राआहृणस्य शुक्ला इति । व्याप्तिन्यायात्केबवगुणवाची गुणोपसर्जनद्रव्यवाची च गुणशब्देन गृह्रत इति भावः । ननुब्राआहृणस्य शुक्ला॑इत्यत्र समासप्रसङ्ग एव नास्ति, ब्राआह्मणशब्दस्य दन्तैरेवान्वयाद्द्राहृणस्य ये दन्तास्ते शुक्ला इत्यर्थादत आह — यदेति । शुक्लशब्द एवेह विशेष्यसमर्पक इति भावः ।चन्दनगन्धः॑घटरूप॑मित्यादावनेन निषेधे प्राप्तेतत्स्थैश्च गुणैः समासो वक्तव्यः॑इति वार्तिकेन समासः प्रतिप्रसूयते । गन्धगत्वेन प्रतीयमानो गन्धो न कदापि गुणिसमानाधिकरणः, किंतु स्वप्रधानः । इदमेव हि तात्स्थ्यं नाम । ननुपिनष्टि गन्धा॑निति प्रयोगदर्शनाच्छुक्लशब्दादितुल्य एव गन्धशब्दो न तत्स्थगुणवचन इति चेत् । न ।पिनष्टी॑ति प्रयोगे हिगन्धा॑मिति न गुणशब्दः, मालतीकुसुमादिषु गन्धशब्दप्रयोगदर्शनात् । किंतु चन्दनत्वादिजातिनिमित्तकोऽन्य एव सः । तरमाच्चन्दनगन्ध इत्यादौ तत्स्थत्वं सुस्थमेव । एवंघटरूप॑मित्यादावपि । नन्वेवमपिबलाकायाः शौक्ल्यं॑,केशस्य नैल्य॑मित्यादावतिप्रसङ्ग इति चेत् । अत्राहुः — ॒गुणिवचनादुत्पन्नस्य शुक्लादिगुणस्यैवाभिधानात्तद्वाचतपदानां गुणिसामानाधिकरण्यसत्त्वान्न दोषः । तथा च प्राधान्येनाऽप्रधान्येन वा द्रव्याऽप्रति पादकत्वे सति गुणप्रतिपादकत्वंम तत्स्थगुणमित्यर्थ इति । फलानामिति । करणस्य शेषत्वविवक्षायां षष्ठी । स्वरे विशेष इति ।तत्पुरुषे तुल्यार्थे॑ति पूर्वपदप्रकृतिस्वरं बाधित्वाथाथा॑दिसूत्रेणान्तोदात्तत्वे प्राप्ते तदपवादेनतृतीया कर्मणी॑त्यनेन पूर्वपदप्रकृतिस्वरे सत्याद्युदात्त इष्टः, षष्ठीसमासे त्वन्तोदात्तत्वं स्यात्तच्च नेष्यत इचि भावः । तृपिश्च सकर्मकोऽप्यस्ति॑पितृनतार्प्सीत्सममंस्त बन्धू॑निति भट्टिप्रयोगातो । तेनाऽस्मात्कर्मणि क्तोस नास्तीति न शङ्कनीयम् । द्विजस्य कुर्वन्कुर्वाण इति । नेयं घटाद्यपेक्षया षष्ठी,द्विजस्य घटं कुर्व॑न्निति । तथा हि सत्यसामथ्र्यादेव समासाऽप्रसक्ती निषेधोऽयं व्यर्थः स्यादतो व्य्राचष्टे — किङ्कर इत्यर्थ इति । ब्राआहृणस्य कृत्वेति । तादथ्र्यरूपसंबन्धस्य सामान्यरूपेण विवक्षायां षष्ठी । भाहृणसंबन्धिनी या क्रिया तदनन्तरमित्यर्थः । कृदव्ययमेवेति ।अनेकमन्यपदार्थे॑इति सूत्रेसर्वपश्चा॑दिति भाष्यप्रयोगादिति भावः । इत्यादिति । तथा च भट्टिः प्रायुङ्क्त — ॒यत्कृतेऽरीन्निगृह्णीमः॑ ।आदेयाः किङ्कृते भोगाः कुम्भकर्ण । त्वया विना॑इति । रक्षित इति । कैयटहरदत्तौ त्वव्ययप्रतिषेधेवृक्षस्योपरी॑त्युदाहरन्तावकृदव्ययेनापि निषेधं मन्येते, तौ च प्रागुक्तभाष्यप्रयोगविरोधादुपेक्ष्याविति भावः । तव्यता तु भवत्येवेति । सूत्रे निरनुबन्धग्रहणादिति भावः । स्वकर्तव्यमिति । कर्तृषष्ठआ समासः । स्वरे भेद इति । कृदत्तरपदप्रकृतिस्वरेण तित्स्वरस्यावस्थानादन्तस्वरित इष्टः । तव्येन तु समासे मध्योदात्तत्वं स्यात्तच्च नेष्यत इति भावः । सोऽप्यनेनेति । षष्ठीसमासेनपोटायुवती॑ति समासो वारितः, सोऽपि षष्ठीसमासःप#ऊरणगुणे॑त्यनेन वार्यत इत्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (431) (275 तत्पुरुषसमासनिषेधसूत्रम् ।। 2।2।1 आ.9 सू.) (गुणशब्दार्थनिरूपणाधिकरणम्) (गुणोदाहरणाधिकरणम्) (आक्षेपभाष्यम्) गुणे किमुदाहरणम्?।। (समाधानभाष्यम्) ब्राह्मणस्य शुक्लाः, वृषलस्य कृष्णा इति।। (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। असार्मथ्यादत्र न भविष्यति। कथमसार्मथ्यम्?। सापेक्षमसमर्थं भवतीति द्रव्यमत्रापेक्ष्यते दन्ताः।। (प्रयोजनान्तरभाष्यम्) इदं तर्हि ‐ काकस्य कार्ष्ण्यम्, कण्टकस्य तैक्ष्ण्यम्, बलाकायाः शौक्ल्यमिति।। (पूर्वोक्ताभ्युपगमभाष्यम्) इदं चाप्युदाहरणम् ‐ ब्राह्मणस्य शुक्लाः, वृषलस्य कृष्णा इति।। (बाधकस्मारणभाष्यम्) ननु चोक्तम् ‐ असार्मथ्यादत्र न भविष्यति। कथमसार्मथ्यम्?। सापेक्षमसमर्थं भवतीति द्रव्यमत्रापेक्ष्यते दन्ता ‐ इति।। (बाधकपरिहारभाष्यम्) नैष दोषः। भवति वै कस्यचिदर्थात्प्रकरणाद्वाऽपेक्ष्यं निर्ज्ञातं तदा वृत्तिः प्राप्नोति।। (सदुदाहरणनिरूपणाधिकरणम्) (आक्षेपभाष्यम्) सति किमुदाहरणम्?।। (उदाहरणभाष्यम्) ब्राह्मणस्य पक्ष्यन्, ब्राह्मणस्य पक्ष्यमाणः।। (उदाहरणनिराकरणभाष्यम्) नैतदस्ति। प्रतिषिध्यतेऽत्र षष्ठी लप्रयोगे ने ति। या च श्रूयते। एषा बाह्यमर्थमपेक्ष्य भवति तत्रासार्मथ्यान्न भविष्यति। कथमसार्मथ्यम्?। सापेक्षमसमर्थं भवतीति। द्रव्यमत्रापेक्ष्यते ओदनः।। (उदाहरणान्तरभाष्यम्) इदं तर्हि ‐ चोरस्य द्विषन्, वृषलस्य द्विषन्।। (आक्षेपभाष्यम्) ननु चात्रापि प्रतिषिध्यते।। (समाधानभाष्यम्) वक्ष्यत्येतद् ।द्विषः शतुर्वावचनम्। इति।। (अव्ययोदाहरणनिरूपणाधिकरणम्) (आक्षेपभाष्यम्) अव्यये किमुदाहरणम्?।। (प्रयोजनभाष्यम्) ब्राह्मणस्योच्चैः, वृषलस्य नीचैरिति।। (प्रयोजननिराकरणभाष्यम्) नैतदस्ति प्र् असार्मथ्यादत्र न भविष्यति प्र्प्र् कथमसार्मथ्यम् ? सापेक्षमसमर्थं भवतीति प्र् द्रव्यमत्रापेक्ष्यते आसनम् प्र्प्र् (प्रयोजनभाष्यम्) इदं तर्हि ‐ ब्राह्मणस्य कृत्वा, वृषलस्य कृत्वेति।। (प्रयोजननिराकरणभाष्यम्) एतदपि नास्ति। प्रतिषिध्यते तत्र षष्ठी अव्ययप्रयोग न इति। या च श्रूयते एषा बाह्यार्थमपेक्ष्य भवति, तत्रासार्मथ्यान्न भवति।। कथमसामर्थम्?। सापेक्षमसमर्थं भवतीति। द्रव्यमत्रापेक्ष्यते कटः।। (प्रयोजनान्तरभाष्यम्) इदं तर्हि ‐ पुरा सूर्यस्योदेतोराधेयः। पुरावत्सानामपाकर्तोः।। (आक्षेपभाष्यम्) ननु चात्रापि प्रतिषिध्यते ‐ अव्ययम् इति कृत्वा ।। (समाधानभाष्यम्) वक्ष्यत्येतत् ‐ ।अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः। इति।। (समानाधिकरणोदाहरणाधिकरणम्) (आक्षेपभाष्यम्) समानाधिकरणे किमुदाहरणम्?। (समाधानभाष्यम्) राज्ञः पाटलिपुत्रकस्य। शुकस्य माराविकस्य। पाणिनेः सूत्रकारस्य।। (समाधानबाधकभाष्यम्) नैतदस्ति। असार्मथ्यादत्र न भविष्यति।। कथमसार्मथ्यम्?। समानाधिकरणमसमर्थवद्भवतीति।। (उदाहरणान्तरभाष्यम्) इदं तर्हि ‐ सर्पिषः पीयमानस्य, यजुषः क्रियमाणस्य।। (उदाहरणबाधकभाष्यम्) ननु चात्राप्यसार्मथ्यादेव भविष्यति।। कथमसामर्थम्?। समानाधिकरणमसमर्थवद्भवतीति।। (उदाहरणसाधकभाष्यम्) अधात्वभिहितमित्येवं तत्।। पूरणगुण ।। 11 ।।