Page loading... Please wait.
2|1|8 - यावदवधारणे
॥ तस्मै पाणिनये नमः ॥
2|1|8
SK 662
यावदवधारणे   🔊
सूत्रच्छेदः
यावत् (अव्ययम्) , अवधारणे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
आकडारात् एका संज्ञा  1|4|1 प्राक्कडारात्समासः  2|1|3 सुप्सुपा  2|1|4 अव्ययीभावः  2|1|5
सम्पूर्णसूत्रम्
यावत् अवधारणे सुपा सह अव्ययीभावः समासः
सूत्रार्थः
"अवधारणा" (सङ्ख्यानिश्चयः) अस्मिन् अर्थे प्रयुक्तम् "यावत्" इति अव्ययम् समर्थेन सुबन्तेन सह समस्यते । अयं समासः "अव्ययीभावः" नाम्ना ज्ञायते ।
Additional description will be added soon.
One-line meaning in English
When the word "यावत्" is used in the the meaning of अवधारणा (indication of a number, For example - "as many"), it undergoes a समास with a related सुबन्त, and the समास is called अव्ययीभावसमास.
काशिकावृत्तिः
यावतित्येतदव्ययम् अवधारणे वर्तमानं सुपा सह समस्यते, अव्ययीभावश्च समासो भवति। अवधारणम् इयत्तापरिद्धेदः। यावदमत्रं ब्राह्मणानामन्त्रयस्व। यावन्त्यमत्राणि सम्भवन्ति पञ्च षट् वा तावत आमन्त्रयस्व। अवधारणे इति किम्? यावदृत्तं तावद् भुक्तम्। न अवधारयामि कियन् मया भुक्तम् इति।
`इयत्तापरिच्छेदः`इति। इयतो भाव इयत्ता = परिमाणम्, तस्याः परिच्छेदो निश्चयः। `यावन्ति पात्राणि` इत्यादिना तमेवेयत्तापरिच्छेदं विस्पष्टीकरोति। `नावधारयामि` इत्यादिना इयत्तापरिच्छेदाभावं दर्शयति॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
यावन्तः श्लोकास्तावन्तोऽच्युतप्रणामाः यावच्छ्लोकम् ॥
यावदवधारणे - यावदवधारणे । इयत्तापरिच्छेदे गम्ये यावदित्यव्ययं समस्यते, सोऽव्ययीभाव इत्यर्थः । यावन्त इति । यत्परिमाणं येषामिति विग्रहे॒यत्तदेतेभ्यः परिमाणे वतु॑बिति वतुप्प्रत्ययः । यावदित्यव्ययमेव समस्यते, विग्रहस्तु तद्धितान्तेनैव, नित्यसमासत्वेनाऽस्वपदविग्रहौचित्यात् । अवधारणे किम् । यावद्दत्तं तावद्भुक्तम् । इयद्भुक्तमिति नावधारयतीत्यर्थः ।
यावदवधारणे - यावच्छ्लोकमिति.॒याव॑दित्यव्ययं समस्यते, विग्रहस्तु तद्धितान्तेनेत्यस्वपदविग्रहत्वमस्त्येव । अवधारणे किम् । यावद्दत्तं तावद्भुक्तम् । [कियद्दत्त] कियद्भुक्तं वा नावधारयतीत्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.