Page loading... Please wait.
2|1|70 - कुमारः श्रमणादिभिः
॥ तस्मै पाणिनये नमः ॥
2|1|70
SK 752
कुमारः श्रमणादिभिः   🔊
सूत्रच्छेदः
कुमारः (प्रथमैकवचनम्) , श्रमण-आदिभिः (तृतीयाबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
आकडारात् एका संज्ञा  1|4|1 प्राक्कडारात्समासः  2|1|3 सुप्सुपा  2|1|4 विभाषा  2|1|11 तत्पुरुषः  2|1|22
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कुमारशब्दः श्रमणाऽअदिभिः सह समस्यते, तत्पुरुषश्च समासो भवति। ये ऽत्र स्त्रीलिङ्गाः पठ्यन्ते, श्रमणा, प्रव्रजिता, कुलटा इत्येवम् आदयः, तैः सह स्त्रीलिङ्गः एव कुमारशब्दः समस्यते। ये तु पुंलिङ्गाः, अध्यापकः, अभिरूपकः, पण्डितः इति, तैरुभयथा, प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् इति। कुमारी श्रमणा कुमारश्रमणा। श्रमना। प्रव्रजिता। कुलटा। गर्भिणी। तापसी। दासी। बन्धकी। अध्यापक। अभिरूपक। पण्डित। पटु। मृदु। कुशल। चपल। निपुण।
`तैः सह स्त्रीलिङ्ग एव कुमारीशब्दः समस्यते` इति। न तु पुंल्लिङ्ग इत्यवधारणेन दर्शयति। न हि पुंल्लिङ्गस्य स्त्रीलिङ्गेन सामानाधिकरण्यमुपपद्यत इति भावः। `तैरुपभयथा` इति। स्त्रीलिङ्गः, पुंल्लिङश्च। कथं पुनः पुंल्लिङ्गैः समास उच्यमानः स्त्रीलिङ्गैः स्यादित्यत आह-- `प्रातिपदिकग्रहणे` इति। गतार्थम्॥
कुमारशब्दस्य पूर्वनिपातनियमार्थ वचनम् ॥
सिद्धान्तकौमुदी
कुमारी श्रमणा कुमारश्रमणा । इह गणे श्रमणा प्रव्रजिता गर्भिणीत्यादयः स्त्रीलिङ्गाः पठ्यन्ते । लिङ्गविशिष्टपरिभाषाया एतदेव ज्ञापकं बोध्यम् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
कुमारः श्रमणाऽ‌ऽदिभिः - एतदेवेत् । एलकारः स्फुटसिद्धतच्वद्योतनार्थो, न त्ववधारणार्थः,युवा खलती॑ति सूत्रे जरतीग्रहणस्यापि ज्ञापकत्वसंभवात् । न हि युवन्शब्दस्य पुंस्त्वं जरतीसामानाधिकरण्यं सङ्गच्छते ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.