॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|1|69
SK 750
2|1|69
वर्णो वर्णेन   🔊
SK 750
सूत्रच्छेद:
वर्णः - प्रथमैकवचनम् , वर्णेन - तृतीयैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11] , तत्पुरुष:  [2|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
वर्णविशेषवाचि सुबन्तं वर्णविशेषवाचिना सुबन्तेन समानाधिकरणेन सह समस्य्ते, तत्पुरुषश्च समासो भवति। कृष्णसारङ्गः। लोहितसारङ्गः। कृष्णशबलः। लोहितशबलः। अवयवद्वारेन कृष्णशब्दः समुदाये वर्तमानः समानाधिकरणो भवति।
`विशेषणं विशेष्येण` 2|1|56 इति वत्र्तते। तत्र यदि द्वयोरपि वर्णशब्दयोः स्वरूपग्रहणमिह स्यात्, विशेषणविशेष्यभावो नोपपद्येत; अभिन्नार्थत्वात्। न हि तदेव देवदत्तस्य विशेषणत्वं विशेष्यत्वं चोपपद्यते। अथाप्येकस्य स्वरूपग्रहणं स्यात्, अपरस्यार्थग्रहणम्? एवप्येकः सामान्यवाची स्याद्वर्णशब्दः, द्वितीयस्तु विशेषवाची कृष्णादिशब्दः। ततश्च प्रत्येकं विशेषणत्वं विशेष्यत्वं च न स्यात्। यत्र च तदुभयमस्ति तत्र समास इति प्रागुभयग्रहणस्य प्रयोजनमुक्तम्। तस्मादुभयत्राप्यर्थग्रहणं विज्ञायत इत्याह-- `वर्णविशेषवाचि` इत्यादि। `कृष्णसारङ्गः, लोहितसारङ्गः` इति। ननु च कृष्णशब्दो लोहितशब्दश्चावयवे वत्र्तते सारङ्गशब्दस्तु समुदाये; यथा-- शबलशब्दः, तत्कथमवयववृत्तेः कृष्णादिशब्दस्य समुदायवृत्तिना सारङ्गादिशब्देन सामानाधिकरण्यमित्याह-- `अवयवद्वारेण` इत्यादि। कृष्ण इत्युच्यते, लोहितावयवसम्बन्धाल्लोहित इति। अत एव गौणत्वादत्र सामानाधिकरण्यस्य `विशेषणं विशेष्येण` 2|1|56 इत्यादिना समासो न प्राप्नोतीतीदमारभ्यते महत्याः संज्ञायाः करणमन्वर्थसंज्ञा यथा विज्ञायेतेति। तेनाप्रधानमुपसर्जनमिति। न चात्र समुदायोऽप्रधानम्, किं तर्हि? प्रधानमेव। अवयवानान्तु तदर्थत्वादप्राधान्यम्। अतोऽवयववचनस्यैव कृष्णशब्दादेरुपसर्जनत्वम्। न समुदायवचनस्य सारङ्गादिशब्दस्य॥
ठ्विशेषणं विशेष्येणऽ इति वर्तते, तत्र द्वयोः स्वरूपग्रहणेन विशेषणता भवेत्। वर्णश्चासौ वर्णैति। किं व्यावृतम्? किमन्वितम्? अथैकत्र विशेषाणां रूपस्यान्यत्र च ग्रहः? शक्लश्चासौ वर्ण इति न स्यात्, वर्णो विशेषणं शुक्लस्य वर्णत्वाव्यभिचारात्, तस्मादुभयत्र विशेषग्रहणमित्याह - वर्णविशेषवाचीत्यादि। कृष्णसारङ्ग इत्यादि। नानावर्णसमाहारः सारङ्गः, तथा सबलः, तस्य वर्णान्तरसमाहारेऽपि भावात्कार्ष्यान्वयो नियते न स्यादिति कृष्णो विशेणम्। एवं लोहिताशब्देऽपि द्रष्टव्यम्। ननु च कृष्णशब्दोऽत्रावयवे वर्तते, न समुदाये; तस्य सारङ्गत्वात्, तत्कथमवयववृतेः कृष्णशब्दस्य समुदायवृत्तिना सारङ्गशब्देन सामानाधिकरण्यमत आह - अवयवद्वारेणेत्यादि। कृष्णावयवसम्बन्धात्समुदाय एव कृष्ण उच्यत इत्यर्थः। अत एवात्र गौणं सामानाधिकरण्यमिति सूत्रारम्भः। ननु ठ्तृतीया तत्कृतेनऽ इत्येवात्र सिध्दः समासः कथम्? सारङ्गशब्दो गुणवचनः सारङ्गत्वं कृष्णावय्वकृमित्यस्त्येव सिध्दिः; तत्रायमप्यर्थः - ठ्वर्णो वर्णेष्वनेतेऽ इति पूर्वपदप्रकृतिस्वरो न वक्तव्यो भवति, तत्पुरुषे तुल्यार्थतृतीयेत्येव सिध्दत्वात्, तदवयवं वक्तव्यमेतत्प्रतिषेधार्थम्, इह मा भूत् - कृष्णैतो लोहितैत इति। इदं तु न वक्तव्यम्? इदमपि वक्तव्यम्, इहापि यथा स्यात्-शुक्लबभ्रुः कृष्णशुक्ला हरितशुक्लः बभ्रूकपिलः, यस्य कश्चिदवयवः शुक्लः कश्चिद् बभ्रुः स समुदायोऽवयवय्वशब्दाभ्यां तथोच्यत इति नात्र तत्कृतत्वसंभवः। अत्र कृष्णसारङ्ग इत्यादौ यत्रैकोऽवयवयवशब्दः, अपरः समुदायशब्दः, तत्राव्यवस्याप्रधानत्वादुपसर्जनत्वात्पुर्वनिपातः। द्वयोस्त्ववयवशब्दयोः पर्याय इति द्रष्टव्यम्। इह यस्मिन् प्रयोगे वीरैः पुरषंस्तद्वान् ग्रामः प्रतिपादयितमिष्टस्तत्र प्रथममेवान्यपदार्थविवक्षा कार्या वीराः पुरुषा अस्मिन्सन्तीति वीरपुरुषको ग्राम इति बहुव्रीहिरेव नित्यं यथा स्यात्; अन्यथा पूर्वमनपेक्षितेऽन्यपदार्थे वीराः पुरुषा वीरुपुरुषा इति कर्मधारये कृते पश्चादन्यपदार्थविवक्षायां मत्वर्थीये सति वीरपुरुषवान् ग्राम इत्याद्यनिष्टमपि कदाचिदनुषज्येत। सर्वशब्दस्य त्वकारान्तैः कर्मधारयोऽपीष्यते। तस्माच्च मत्वर्थविवक्षायाम् ठत इनिठनौऽ इति ठनं बाधित्वा इनिरेव भवतीति वक्तव्यम् सर्व धनं सर्वधनं तदस्यास्तीति सर्वधनी, सर्वबीजी, कर्वकेशी। यत्र कर्मधारयो जातिविशेषवचनः, तत्र कर्मधारयान्मत्वर्थीयो भवति - कृष्णसर्पवान्वल्मीकः, लोहितशालिमान् ग्रामः, गौरखरवदरण्यम्, गौरमृगवदिति। न हि बहुव्रीहिणा तज्जात्या तद्वतवं शक्यं प्रतिपादयितुम्॥ 70 ॥
सिद्धान्तकौमुदी
समानाधिकरणेन सह प्राग्वत् । कृष्णसारङ्गः ॥
वर्णो वर्णेन - वर्णो शेषपूरणेन सूत्रं व्याचष्टे — समानाधिकरणेनेति । वर्णवाचिना समानाधिकरणेन वर्णवाची समस्यते स तत्पुरुष इत्यर्थः । कृष्णसारङ्ग इति । सारङ्गः-चित्रवर्णवान् । कृष्णशब्दः कृष्णावयवके लाक्षणिक इति सामानाधिकरण्यम् । कृष्णश्चासौ सारङ्गश्चेति विग्रहः । विशेषणसमासेन सिद्धे इदं प्रपञ्चार्थमेव । यत्तुवर्णो वर्णेष्वनेते॑ इति स्वरविधौ प्रतिपदोक्तत्वादस्यैव ग्रहणार्थमिदम् । तेन सारङ्गस्यावयवः कृष्णः सारङ्गकृष्ण इत्यत्र "वर्णो वर्णेषु" इति स्वरो नेति, तच्चिन्त्यं, कर्मधारयस्वरप्रकरणेवर्णो वर्णेष्वनेते॑ इति सूत्रस्य पाठेनैव सिद्धेरिति दिक् ।
वर्णो वर्णेन - वर्णो । समानाधिकरणेन वर्णवाचिना वर्णवाचि समस्यत इत्यर्थः ।विशेषणं विशेष्येणे॑त्यनेनैव सिद्धे पृथग्विधानंवर्णो वर्णेष्वनेते॑इति पूर्वपदप्रकृतिस्वरो विधीयमानः प्रतिपदोक्तत्वादेतत्समासपूर्वपदस्यैव भवतु नान्यस्येत्येतदर्थम् । कृष्णसारङ्ग इति । सारङ्गश्चित्रपर्यायः । स च गुणोपसर्जनद्रव्यपरः । कृष्णशब्दोऽपि कृष्णावयवके भाक्तः । एवं च गौणे सामानादिकरण्येविशेषणं विसेष्येणे॑त्यप्रवुत्तौ समासार्थमपीदमारब्धव्यमित्याहुः । ननुतृतीये॑त्यनेनैवायं समासः सिध्यति, सारङ्गत्वस्य कृष्णादिकृतत्वात् । नापि स्वरे भेदः ।तत्पुरुषे तुल्यार्थ तृतीये॑त्यनेनैव पूर्वपदप्रकृतिस्वरसिद्धेरिति चेदत्राहुः — ॒कृष्णशुक्लो हरितशुक्ल इत्याद्यर्थं समासोऽनेनाऽवश्यं विधेयः । नहीह तत्कृतत्वमस्ति । यद्यपीहविशेषणं विशेष्येणे॑त्यनेन समासः सिध्यति, तथापीष्टः स्वरो न सिध्यति । न चप्रतिपदोक्तसमासोऽकिञ्चित्करः, व्यावर्त्त्याऽलाबादिति वाच्यं, कृष्णशुक्लौ इत्यादेव्र्यावर्त्त्यस्य संभवा॑दिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
वर्णो वर्णेन (417) (264 तत्पुरुषसंज्ञासूत्रम् ।। 2।1। 3। आ.11) (वर्णोवर्णेन इत्यस्य समानाधिकरणाधिकारीयत्वाधिकरणम्) (आक्षेपभाष्यम्) इदं विचार्यते ‐ वर्णेन तृतीयासमासो वा स्यात् ‐ -कृष्णेन सारङ्गः कृष्णसारङ्ग इति। समानाधिकरणो वा कृष्णः सारङ्गः कृष्णसारङ्ग इति।। (विशेषप्रश्नभाष्यम्) कश्चात्र विशेषः?।। (1332 तृतीयासमासे दूषणवार्तिकम् ।। 1 ।।) ।। वर्णेन तृतीयासमास एतप्रतिषेधे वर्णग्रहणम्।। (भाष्यम्) वर्णेन तृतीयासमासे एतप्रतिषेधे वर्णग्रहणं कर्तव्यम्। तृतीयापूर्वपदं प्रकृतिस्वरं भवति। अनेते वर्णः इति वक्तव्यम्।। (इह मा भूत् ‐ हिमेन एतः हिमैतः।। ) (आक्षेपभाष्यम्) अथ द्वितीयेन वर्णग्रहणेनैतविशेषणेनार्थः?।। (समाधानभाष्यम्) बाढमर्थः। यद्यवर्ण एतशब्दोस्ति।। (समाधानबाधकभाष्यम्) ननु चायमस्ति ‐ आ इतः एतः, कृष्णेतो लोहितेत इति।। (प्रत्याख्यानभाष्यम्) नार्थ एवमर्थेन वर्णग्रहणेन। यदि तावदयं कर्मणि क्तः, तृतीया कर्मणि इत्यनेन स्वरेण भवितव्यम्। अथापि कर्तरि, परत्वात्कृत्स्वरेण भवितव्यम्।। (समानाधिकरणपक्षाभ्युपगमभाष्यम्) अथ समानाधिकरणः।। (1333 समानाधिकरणपक्षे दूषणवार्तिकम् ।। 2 ।।) ।। समानाधिकरणे द्विर्वर्णग्रहणम्।। (व्याख्याभाष्यम्) समानाधिकरणे द्विर्वर्णग्रहणं कर्तव्यम्। वर्णो वर्णोष्वनेत इति वक्तव्यम्। एकं वर्णग्रहणं कर्तव्यम्। इह मा भूत् ‐ परमशुक्लः परमकृष्णः। द्वितीयं वर्णग्रहणं कर्तव्यम्। इह मा भूत् ‐ कृष्णतिला इति।। (दूषणबाधकभाष्यम्) एकं वर्णग्रहणमनर्थकम्।। (आक्षेपभाष्यम्) अवर्णस्य वर्णे वर्णस्य चावर्णे अन्यतरत्र कस्मान्न भवति?।। (समाधानभाष्यम्) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव इति।। (तृतीयासमासवादिभाष्यम्) एवं सति तान्येतानि त्रीणि वर्णग्रहणानि भवन्ति - समासविधौ द्वे, स्वरविधौ चैकम् ।। (समानाधिकरणसमासवादिभाष्यम्) यस्यापि तृतीयासमासस्तस्यापि तान्येव त्रीणि वर्णग्रहणानि भवन्ति। समासविधौ द्वे, स्वरविधौ चैकम्।। (तृतीयासमासवादिभाष्यम्) सामान्येन मम तृतीयासमासो भविष्यति तृतीया तत्कृतार्थेन गुणवचनेन इति।। (समानाधिकरणसमासवादिभाष्यम्) अवश्यं वर्णेन प्रतिपदं समासो वक्तव्यः। यत्र तेन न सिध्यति तदर्थम्।। क्व च तेन न सिध्यति?। शुकबभ्रु: हरितबभ्रुः इति।। तथा सति तान्येतानि त्रीणि वर्णग्रहणानि भवन्ति ‐ समासविधौ द्वे, स्वरविधौ चैकम्।। (तृतीयासमासवादिभाष्यम्) अथेदानीं समानाधिकरणः सामान्येन सिद्धः स्यात्?।। (समानाधिकरणसमासवादिभाष्यम्) बाढं सिद्धः।। कथम्?। विशेषणं विशेष्येण बहुलम् इति। एवमपि द्वे वर्णग्रहणे कर्तव्ये स्वरविधावेव, प्रतिपदोक्तस्याभावात्। तस्मात्समानाधिकरण इत्येष पक्षो ज्यायान्।। (प्रधानोपसर्जनानां विप्रतिषेधाधिकरणम्) (1334 वार्तिकम् ।। 3 ।।) ।। समानाधिकरणाधिकारे प्रधानोपसर्जनानां परं परं विप्रतिषेधेन ।। (भाष्यम्) समानाधिकरणाधिकारे प्रधानोपसर्जनानां परं परं भवति विप्रतिषेधेन। प्रधानानां प्रधानम्, उपसर्जनानामुपसर्जनम्। प्रधानानां तावत्प्रधानम् ‐ वृन्दारकनागकुञ्ञ्जर: पूज्यमानम् इत्यस्यावकाशः ‐ गोवृन्दारकः अश्ववृन्दारकः। पोटायुवतीनामवकाशः ‐ इभ्ययुवतिः, आढ्ययुवतिः। इहोभयं प्राप्नोति ‐ नागयुवतिः वृन्दारकयुवतिः प्र् प्रधानानां परं प्रधानं भवति विप्रतिषेधेन।। उपसर्जनानां परमुपसर्जनम्। सन्महत्परमोत्तमोत्कृष्टा इत्यस्यावकाशः ‐ सद्गवः सदश्वः। कृत्यतुल्याख्या अजात्या इत्यस्यावकाशः ‐ तुल्यश्वेत: तुल्यमहान्। इहोभयं प्राप्नोति ‐ तुल्यसन् तुल्यमहान्। उपसर्जनानां परमुपसर्जनं भवति विप्रतिषेधेन।। (न. कर्मधारयान्मत्वर्थीय इति व्युत्पत्तिसाधकाधिकरणम्) (1335 बहुव्रीहेः कर्मधारयप्रकृतिकमत्वर्थीयापवादत्वसाधकप्रथमखण्डवार्तिकम् ।। 4 ।।) ।। समानाधिकरणसमासाद् बहुव्रीहिः ।। (भाष्यम्) समानाधिकरणसमासाद्बहुव्रीहिर्भवति विप्रतिषेधेन।। समानाधिकरणसमासस्यावकाशः वीरः पुरुषो वीरपुरुषः। बहुव्रीहेरवकाशः कण्ठेकालः। इहोभयं प्राप्नोति ‐ वीरपुरुषको ग्रामः। बहुव्रीहिर्भवति विप्रतिषेधेन ।। (1336 कर्मधारयप्रकृतिकमत्वर्थीयसाधकवार्तिकद्वितीयखण्डम्।। 5 ।।) ।। कदा चित्कर्मधारयः सर्वधनाद्यर्थः ।। (भाष्यम्) कदाचित्कर्मधारयो भवति बहुव्रीहेः।। किं प्रयोजनम्?। सर्वधनाद्यर्थः। सर्वधनी। सर्वबीजी। सर्वकेशी नटः। गौरखरवदरण्यम्। कृष्णसर्पवान्वल्मीकः। लोहितशालिमान् ग्रामः।। किं प्रयोजनम्?। कर्मधारयप्रकृतिभिर्मत्वर्थीयैरभिधानं यथा स्यात्।। किं च कारणं न स्यात्? बहुव्रीहिणोक्तत्वान्मत्वर्थस्य।। (मत्वर्थीयोत्पत्तिबाधकाक्षेपभाष्यम्) यद्युक्तत्वं हेतुः कर्मधारयेणाप्युक्तत्वान्न प्राप्नोति।। न खल्वपि संज्ञाश्रयो मत्वर्थीयः। किं तर्हि?। अर्थाश्रयः।। स यथैव बहुव्रीहिणोक्तत्वान्न भवति, एवं कर्मधारयेणोक्तत्वान्न भविष्यति।। (मत्वर्थीयोत्पत्तिसाधकसमाधानभाष्यम्) एवं तर्हि इदं स्यात् ‐ सर्वाणि धनानि-सर्वधनानि, सर्वधनान्यस्य सन्ति-सर्वधनीति।। (वार्तिकीयकदाचित्पदासंगत्याक्षेपभाष्यम्) नैवं शक्यम्। नित्यमेवं सति कर्मधारयः स्यात्। तत्र यदुक्तम् ‐ कदाचित्कर्मधारयः इति, एतदयुक्तम्।। (वार्तिकाशयान्तरभाष्यम्) एवं तर्हि भवति वै किंचिदाचार्याः कार्यवद्बुद्धिं कृत्वा पठन्ति ‐ कार्याः शब्दाः इति, तद्वदिदं पठितम् ‐ । समानाधिकरणसमासाद्बहुव्रीहिः कर्तव्यः कदाचित्कर्मधारयः सर्वधनाद्यर्थः । इति।। (विप्रतिषेधासंभवेन बहुव्रीहिनिराकरणाक्षेपभाष्यम्) यदुच्यते ‐ समानाधिकरणसमासाद्बहुव्रीहिर्भवति विप्रतिषेधेन ‐ इति।। नैष युक्तो विप्रतिषेधः। अन्तरङ्गः कर्मधारयः।। काऽन्तरङ्गता?। स्वपदार्थे कर्मधारयः। अन्यपदार्थे बहुव्रीहिः।। (बहुव्रीहिसाधकसमाधानभाष्यम्) अस्तु। विभाषा कर्मधारयः, यदा न कर्मधारयस्तदा बहुव्रीहिर्भविष्यति।। (आक्षेपभाष्यम्) एवमपि यद्यत्र कदाचित्कर्मधारयो भवति। कर्मधारयप्रकृतिभिर्मत्वर्थीयैरभिधानं प्राप्नोति। सर्वश्चायमेवमर्थो यत्नः ‐ कर्मधारयप्रकृतिभिर्मत्वर्थीयैरभिधानं मा भूद् ‐ इति।। ( समाधानभाष्यम् ) एवं तर्हि नेदं तस्य योगस्योदाहरणं विप्रतिषेधे परम् इति।। किं तर्हि?। इष्टिरियं पठिता ‐ समानाधिकरणसमासाद्बहुव्रीहिरिष्टः। कदाचित्कर्मधारयः सर्वधनाद्यर्थः इति। (उक्तवार्त्तिकानावश्यकतासाधकैकदेशिभाष्यम्) यदीष्टिः पठिता, नार्थोनेन। इह हि सर्वे मनुष्या अल्पेनाल्पेन महतो महतोर्थानाकाङ्क्षन्ति। एकेन माषेण शतसहस्रम्। एकेन कुद्दालपदेन खारीसहस्रम्। तत्र कर्मधारयप्रकृतिभिर्मत्वर्थीयैरभिधानमस्तु बहुव्रीहिणेति। बहुव्रीहिणा भविष्यति लघुत्वात्।। (आक्षेपैकदेशिभाष्यम्) कथं सर्वधनी सर्वबीजी सर्वकेशी नट इति? ।। (समाधानैकदेशिभाष्यम्) ।इनिप्रकरणे सर्वादेः। इति वक्ष्यामि। तच्चावश्यं वक्तव्यं ठनो बाधनार्थम्।। (आक्षेपैकदेशिभाष्यम्) कथम् ‐ गौरखरवदरण्यम् गौरमृगवदरण्यम् कृष्णसर्पवान् वल्मीकः लोहितशालिमान् ग्रामः?।। (समाधानैकदेशिभाष्यम्) अस्त्यत्र विशेषः। जात्यात्राभिसंबन्धः क्रियते, कृष्णसर्पो नाम सर्पजातिः, सास्मिन् वल्मीकेस्ति।। यदा ह्यन्तरेण जातिं तद्वत्ताभिसंबन्धः क्रियते, कृष्णसर्पो वल्मीक इत्येव तदा भवति।। (पूर्वपदार्थातिशयविवक्षायामप्यातिशायिकप्रत्ययाद्बहुव्रीहेर्बलवत्त्वाधिकरणम्) (1337 पूर्वपदातिशय आतिशायिकव्यवस्थावार्तिकम् ।। 4 ।।) ।। पूर्वपदातिशये आतिशायिकाद् बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः ।। (भाष्यम्) पूर्वपदातिशयविवक्षायामातिशायिकाद् बहुव्रीहिर्भवति विप्रतिषेधेन।। किं प्रयोजनम्?। सूक्ष्मवस्त्रतराद्यर्थः।। आतिशायिकस्यावकाशः ‐ पटुतरः पटुतमः। बहुव्रीहेरवकाशः ‐ चित्रगुः शबलगुः। इहोभयं प्राप्नोति ‐ सूक्ष्मवस्त्रतरः। तीक्ष्णशृङ्गतरः। बहुव्रीहिर्भवति विप्रतिषेधेन।। (विप्रतिषेधबाधकभाष्यम्) नैष युक्तो विप्रतिषेधः। विप्रतिषेधे परम् इत्युच्यते। पूर्वश्च बहुव्रीहिः, पर आतिशायिकः।। (वार्तिकाशयान्तरभाष्यम्) इष्टवाची परशब्दः ‐ विप्रतिषेधे परं यदिष्टं तद्भवतीति।। (अनुपपत्तिभाष्यम्) एवमप्ययुक्तः। अन्तरङ्ग आतिशायिकः।। कान्तरङ्गता?। ङ्याप्प्रातिपदिकादातिशायिकः। सुबन्तानां बहुव्रीहिः।। (अनुपपत्तिबाधकभाष्यम्) आतिशायिकोपि नान्तरङ्गः।। कथम्? समर्थात्तद्धित उत्पद्यते सामर्थ्यं च सुबन्तेन ।। (अनुपपत्तिसाधकभाष्यम्) एवमप्यन्तरङ्गः।। कथम्?। स्वपदार्थे आतिशायिकः। अन्यपदार्थे बहुव्रीहिः।। (अनुपपत्तिबाधकभाष्यम्) एवमपि नान्तरङ्गः।। कथम्?। स्पर्द्धायामातिशायिको भवति। न चान्तरेण प्रतियोगिनं स्पर्द्धा भवति।। (अनुपपत्तिप्राप्त्यभावभाष्यम्) नैव वात्रातिशायिकः प्राप्नोति।। किं कारणम्?। असार्मथ्यात्।। कथमसामर्थ्यम्?। सापेक्षमसमर्थं भवतीति। यावता वस्त्राणि तद्वन्तमपेक्षन्ते। तद्वन्तं चापेक्ष्य वस्त्राणां वस्त्रैर्युगपत्स्पर्द्धा भवति।। (आक्षेपभाष्यम्) ननु चायमातिशायिक एवमात्मकः सत्यां व्यपेक्षायां विधीयते।। (समाधानभाष्यम्) सत्यमेवमात्मकः। यां च नान्तरेण व्यपेक्षामातिशायिकस्य प्रवृत्तिस्तस्यां सत्यां भवितव्यम्।। कां च नान्तरेण व्यपेक्षामातिशायिकस्य प्रवृत्तिः?। या हि प्रतियोगिनं प्रति व्यपेक्षा।। या हि तद्वन्तं प्रति, न तस्यां भवितव्यम्।। (आक्षेपभाष्यम्) बहुव्रीहिरपि तर्हि न प्राप्नोति।। किं कारणम्?। असार्मथ्यादेव।। कथमसामर्थ्यम्?। सापेक्षमसमर्थं भवतीति। यावता वस्त्राणि वस्त्रान्तराण्यपेक्षन्ते तद्वता चाभिसंबन्धः।। (समाधानभाष्यम्) एवं तर्हि नेदं तस्य योगस्योदाहरणं विप्रतिषेधे परम् इति।। किं तर्हि?। इष्टिरियं पठिता ।पूर्वपदातिशये आतिशायिकाद् बहुव्रीहिरिष्टः सूक्ष्मवस्त्रतराद्यर्थः। इति। (वार्तिकानावश्यकताभाष्यम्) यदीष्टिरियं पठिता, नार्थोनेन।। (आक्षेपभाष्यम्) कथं यैषा युक्तिरुक्ता ‐ वस्त्रान्तराणां च वस्त्रान्तरैर्युगपत्स्पर्द्धा तद्वता चाभिसंबन्धः ‐ इति। (समाधानभाष्यम्) यदा ह्यन्तरेण वस्त्राणां वस्त्रान्तरैर्युगपत्स्पर्द्धां तद्वताभिसंबन्धः क्रियते। निष्प्रतिद्वन्द्वस्तदा बहुव्रीहिः। बहुव्रीहेरातिशायिकाः।। (आक्षेपभाष्यम्) न तर्हीदानीमिदं भवति ‐ सूक्ष्मतरवस्त्र इति?।। (समाधानभाष्यम्) भवति, यदान्तरेण तद्वन्तं वस्त्राणां वस्त्रान्तरैर्युगपत्स्पर्द्धा भवति। निष्प्रतिद्वन्द्वस्तदातिशायिकः।। (समाधानबाधकाक्षेपभाष्यम्) कथं पुनरन्यस्य प्रकर्षेणान्यस्य प्रकर्षः स्यात्?।। (समाधानसाधकभाष्यम्) नैवान्यस्य प्रकर्षेणान्यप्रकर्षेण भवितव्यम्। यथैवायं द्रव्येषु यतते ‐ वस्त्राणि मे स्युरिति। एवं गुणेष्वपि यतते ‐ सूक्ष्मतराणि मे स्युरिति।। (समाधानबाधकभाष्यम्) नात्रातिशायिकः प्राप्नोति। किं कारणम्?। गुणवचनादित्युच्यते। न च समासो गुणवचनः।। (समाधानसाधकभाष्यम्) समासोपि गुणवचनः। कथम्?। अजहत्स्वार्था वृत्तिरिति।। (आक्षेपभाष्यम्) अथ जहत्स्वार्थायां तु दोष एव?।। (समाधानभाष्यम्) जहत्स्वार्थायां च न दोषः। भवति बहुव्रीहौ तद्गुणसंविज्ञानमपि। तद्यथा ‐ शुक्लवाससमानय लोहितोष्णीषाः प्रचरन्तीति तद्गुण आनीयते तद्गुणाश्च प्रचरन्ति।। (उत्तरपदातिशय आतिशायिकव्यवस्थाधिकरणम्) (1338 आक्षेपवार्तिकम् ।। 5 ।।) ।। उत्तरपदातिशये आतिशायिको बहुव्रीहेः बह्वाढ्यतराद्यर्थः ।। (भाष्यम्) उत्तरपदातिशये आतिशायिको बहुव्रीहेर्भवति विप्रतिषेधेन ।। किं प्रयोजनम्? बह्वाढ्यतराद्यर्थः। बह्वाढ्यतरः। बहुसुकुमारतरः।। कः पुनरत्र विशेषः ‐ बहुव्रीहेर्वातिशायिकः स्याद्, आतिशायिकान्तेन वा बहुव्रीहि:?।। स्वरकपोर्विशेषः। यद्यत्रातिशायिकाद्बहुव्रीहिः स्यात् ‐ बह्वाढ्यतर एवं स्वरः प्रसज्येत, बह्वाढ्यतर इति चेष्यते। बह्वाढ्यकतर इति च प्राप्नोति, बह्वाढ्यतरक इति चेष्यते।। (1339 उत्तरपदलोपविधायकवार्तिकम् ।। 6 ।।) ।। समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च ।। (भाष्यम्) समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानं कर्तव्यम्। उत्तरपदलोपश्च वक्तव्यः। शाकभोजी पार्थिवः शाकपार्थिवः। कुतपवासाः सौश्रुतः कुतपसौश्रुतः। अजापण्यस्तौल्वलिरजातौल्वलिः। यष्टिप्रधानो मौद्गल्यः यष्टि मौद्गल्यः।। वर्णो वर्णेन ।। 68 ।।