Page loading... Please wait.
2|1|63 - कतरकतमौ जातिपरिप्रश्ने
॥ तस्मै पाणिनये नमः ॥
2|1|63
SK 742
कतरकतमौ जातिपरिप्रश्ने   🔊
सूत्रच्छेदः
कतर-कतमौ (प्रथमाद्विवचनम्) , जाति-परिप्रश्ने (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
आकडारात् एका संज्ञा  1|4|1 प्राक्कडारात्समासः  2|1|3 सुप्सुपा  2|1|4 विभाषा  2|1|11 तत्पुरुषः  2|1|22
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कतरकतमौ जातिपरिप्रश्ने वृतमानौ समर्थेन सुपा सह समस्येते, तत्पुरुषश्च समासो भवति। कतरकठः। कतरकालापः। कतमकठः। कतमकालापः। ननु कतमशब्दस्तावज् जातिपरिप्रश्न एव व्युत्पादितः, कतरशब्दो ऽपि साहचर्यात् तदर्थवृत्तिरेव ग्रहीष्यते, किं जातिपरिप्रश्नग्रहणेन? एवं तर्ह्येतज् ज्ञापयति कतमशब्दो ऽन्यत्र अपि वर्तते इति। तथा च प्रत्युदाहरनम् कतरो भवतोर् देवदत्तः, कतमो भवतां देवदत्तः।
`जातिपरिप्रश्न एव व्युत्पाद्येते`इति। `किंयत्तदौर्निर्धारणे` 5|3|92 इत्यनुवत्र्तमाने `वा बहूनाम्` 5|3|93 इत्यादिना। स्यादेतत्-- कतरशब्दविशेषणार्थ जातिपरिप्रश्नग्रहणमित्याह-- `कतरशब्दोऽपि` इत्यादि। `तदेव ज्ञापयति` इति। यदि तर्हि कतमशब्दो जातिपरिप्रश्न एव वत्र्तमानो गृह्रते, जातिपरिप्रश्नग्रहणमनर्थकं स्यात, विनाऽपि तेन यथोक्तया नीत्या कतरतमशब्दौ जातिपरिप्रश्न एव वत्र्तमानो ग्रहीष्येते। `तथा च` इत्यादि। यत एव तकमशब्दस्य जातिपरिप्रश्नादन्यत्रापि वृत्तिः, एवञ्च कृत्वा भवतां देवदत्तः कतम इति प्रत्युदाहरणमुपपद्यते। अन्यथा तन्नोपपद्येत्; तस्य जातिपरिप्रश्नादन्यत्राप्रवृत्तेः॥
कतरकठ इति। ठ्गोत्रं च चरणैः सहऽ इति जातिः तथा च प्रत्युदाहरणमिति। पूर्वं वृत्तिषूपन्यस्तमुपपन्नं भवतीति शेषः॥
सिद्धान्तकौमुदी
कतरकठः । कतमकलापः । गोत्रं च चरणैः सहेति जातित्वम् ॥
कतरकतमौ जातिपरिप्रश्ने - कतरकतमौ । जातिपरिप्रश्ने गम्ये कतरकतमो समानाधिकरणेन समस्येते इत्यर्थः । कतरकठ इति । अनयो कः कठ इत्यर्थः ।किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच् । कठेन प्रोक्तमधीते कठः । वैशम्पायनान्तेवासित्वात् प्रोक्ते णिनिः ।कठचरकाल्लु॑गिति तस्य लुक् । ततः "तदधीते " इत्यणःप्रोक्ताल्लु॑गिति लुक् । कतमकलाप इति । एषां कः कलाप इति विग्रहः कलापिना प्रोक्तमधीते कलापः ।कलापिनोऽण् ।सब्राहृचारी॑ति टिलोपः ।वा बहूनां जातिपरिप्रश्ने डतमच् । ननु घटत्वादिवत्कठशाखाध्येतृत्वादिकं न जातिः, "आकृतिग्रहणा जातिः" इति लक्षणस्यलिङ्गानां च न सर्वभाक्, सकृदाख्यातनिग्र्राह्रा॑ इति लक्षणमस्य च तत्राऽप्रवृत्तेरित्यत आह — गोत्रं चेति । अत्र कतमशब्दस्य जातिपरिप्रश्न एव व्युत्पादनातरार्थमेव जातिपरिप्रश्नग्रहणम् । एवंचाऽनयोः कतरो देवदत्त इत्यत्र न भवति समासः ।एषां कतमो देवदत्तः॑ इति तु नास्त्येव, जातिपरिप्रश्न एव डतमचो विधानात् । वस्तुतस्तु डतरतमविधौ द्वयोरिति बहूनामिति जातिपरिप्रश्ने इति प्रत्याख्यातं भाष्ये । एवंच "कतम एषां देवदत्त" इत्यप्यस्ति । तत्र समासाऽभावाय जातिपरिप्रश्नग्रहणमिति शब्देन्दुशेखरे स्थ#इतम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.