॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|1|58
SK 737
2|1|58
पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च   🔊
SK 737
सूत्रच्छेद:
पूर्व-अपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यम-वीराः - प्रथमाबहुवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11] , तत्पुरुष:  [2|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
पूर्व अपर प्रथम चरम जघन्य समान मध्य मध्यम वीर इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति। पूर्वपुरुषः। अपरपुरुषः। प्रथमपुरुषः। चरमपुरुषः। जघन्यपुरुषः। समानपुरुषः। मध्यपुरुषः। मध्यमपुरुषः। वीरपुरुषः। पूर्वस्य एव अयं प्रपञ्चः।
`पूर्वस्यैवायं प्रपञ्चः` इति। तेनैव सिद्धत्वात्। अस्ति ह्रत्रापि प्रत्येकं पूर्वोत्तरपदयर्विशेषणं विशेष्यभावः॥
पूर्वस्यैवायं प्रपञ्च इति। गुणक्रियाशब्देन सह समासे पूर्वादीनां पूर्वनिपातनियमार्थं तु न भवति, बहुंड्लग्रहणेनैव सिध्दत्वादिति मन्यते॥
सिद्धान्तकौमुदी
पूर्वनिपातनियमार्थमिदम् । पूर्ववैयाकरणः । अपराध्यापकः ॥ ।अपरस्यार्धे पश्चभावो वक्तव्यः (वार्तिकम्) ॥ अपरश्चासावर्धश्च पश्चार्धः । कथमेकवीर इति । पूर्वकालैक - (कौमुदी-726) इति बाधित्वा परत्वादनेन समासे वीरैक इति हि स्यात् । बहुलग्रहणाद्भविष्यति ॥
पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च - पूर्वापर । पूर्वादय समानाधिकरणेन समस्यन्ते इत्यर्थः । विशेषणसमासेनैव सिद्धे किमर्थमिदमित्यत आह-पूर्वनिपातेति । अपराध्यापक इति । बहुलग्रहणानुवृत्त्या पाचकादिक्रियाशब्दैः पूर्वादीनामेषां न समास इति समर्थसूत्रे भाष्ये स्थितम् । ततश्च "अपराध्यापकः" इत्युदाहरणमुपेक्ष्यम् । "अपरमीमांसक" इत्युदाहरणमुचितम् । अपरस्यार्धे इति ।पश्चा॑दिति सूत्रभाष्ये इदं वार्तिकं स्थितम् । प्रथमवैयकरणः । चरमवैयाकरणः ।मच्यान्मः॑ । मध्यमवैयाकरणः । वीरवैयाकरणः । आक्षिपति-कथमेकवीर इति । हि=यतः, अनेन=प्रकृतसूत्रेण, वीरशब्दस्यैकशब्देन समासे सति वीरशब्दस्य पूर्वनिपाते सति वीरैक इति स्यात्, अतः "एकवीरः" इति कथमित्यन्वयः । ननुपूर्वकालैके॑ति सूत्रेणैकशब्दस्य वीरशब्देन समासे सति "एकवीरः" इति निर्बाधमित्यत आह — पूर्वकालैकेति बाधित्वा परत्वादिति । परिहरति — बाहुलतादिति । बहुलग्रहणानुवृत्तेरस्य सूत्रस्याऽप्रवृत्तौपूर्वकाले॑त्येव समासो भवतीत्यर्थः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च (406) (260 तत्पुरुषसमाससंज्ञासूत्रम् ।। 2 । 1 । 3 आ.7 सू.) (एतदादिसूत्रप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अथ किमर्थमुत्तरत्रैवमाद्यनुक्रमणं क्रियते, न विशेषणं विशेष्येण बहुलम् इत्येव सिद्धम्।। (1324 समाधानवार्तिकम् ।। 1 ।।) ।। बहुलवचनस्याकृत्स्नत्वादुत्तरत्रानुक्रमणसामर्थ्यम् ।। (व्याख्याभाष्यम्) अकृत्स्नं बहुलवचनमित्युत्तरत्रानुक्रमणं क्रियते।। (आक्षेपभाष्यम्) यद्यकृत्स्नं यदनेन कृतमकृतं तत्।। (समाधानभाष्यम्) एवं तर्हि न ब्रूमोऽकृत्स्नमिति, कृत्स्नं च कारकं च साधकं च निर्वर्तकं च यच्चानेन कृतं सुकृतं तत्।। (आक्षेपभाष्यम्) किमर्थं तर्ह्येवमाद्यनुक्रमणं क्रियते?।। (समाधानभाष्यम्) उदाहरणभूयस्त्वात्। एते खल्वपि विधयः सुपरिगृहीता भवन्ति येषु लक्षणं प्रपञ्चश्च। केवलं लक्षणं केवलः प्रपञ्ञ्चो वा, न तथा कारकं भवति।। अवश्यं खल्वप्यस्माभिरिदं वक्तव्यम् ‐ बहुलम्, अन्यतरस्याम्, उभयथा, वा, एकेषामिति। सर्ववेदपारिषदं हीदं शास्त्रम्। तत्र नैकः पन्थाः शक्य आस्थातुम् ।। पूर्वापर ।। 57 ।।