॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|1|54
SK 733
2|1|54
पापाणके कुत्सितैः   🔊
SK 733
सूत्रच्छेद:
पापाणके - प्रथमाद्विवचनम् , कुत्सितैः - तृतीयाबहुवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11] , तत्पुरुष:  [2|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
पापाणकशब्दौ कुत्सनाभिधायिनौ, तयोः पूर्वेण समासे परनिपातः प्राप्तः, पूर्वनिपतार्थम् इदम् आरभ्यते। पाप अणक इत्येते सुबन्ते कुत्सितवचनैः सह समस्येते, तत्पुरुषश्च समासो भवति। पापनापितः। पापकुलालः। अणकनापितः। अणककुलालः।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
पूर्वसूत्रापवादः । पापनापितः । आणककुलालः ॥
पापाणके कुत्सितैः - पापाणके । पापशब्दोऽणकशब्दश्च कुत्सितवाचकैः समस्यते स तत्पुरुष इत्यर्थः । ननु विशेषणसमासेनैव सिद्धे किमर्थमिदमित्यत आह — पूर्वसूत्रेति । पापमस्यास्तीति मत्वर्थीयोऽर्शाअद्यच् । पापशब्दः पापवति वर्तते । अणकशब्दः कुरूपिणि वर्तते ।कुरूपकुत्सिताऽवद्यखेटगह्र्राऽणकाःसमाः॑ इत्यमरः । ततश्च पापाऽणकशब्दौ निन्दाहेतुभूतपापकुरूपात्मकप्रवृत्तिनिमित्तौ कुत्सनाभिधायिनौ । ततश्चानयोः पूर्वसूत्रेम समासे परनिपातः स्यादतः पूर्वनिपातनियमार्थमिदं सूत्रमित्यर्थः । पापनापित इति । पापश्चासौ नापितश्चेति विग्रहः । अणककुलाल इति । अणकश्चासौ कुलालश्चेति विग्रहः ।
पापाणके कुत्सितैः - पापाणके । एतौ कुत्सनाभिधिनौ ।कुपूयकुत्सितावद्यखेटगह्र्राऽणकाः समाः॑इत्यमरः । ततश्चानयोः पूर्वसूत्रेण समासे परनिपातः स्यात्, तस्मात्पूर्वनिपातनियमार्थमिदं सूत्रमित्याशयेनाह — पूर्वसूत्रापवाद इति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!