॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|1|53
SK 732
2|1|53
कुत्सितानि कुत्सनैः   🔊
SK 732
सूत्रच्छेद:
कुत्सितानि - प्रथमाबहुवचनम् , कुत्सनैः - तृतीयाबहुवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11] , तत्पुरुष:  [2|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
कुत्सितवाचीनि सुबन्तानि कुत्सनवचनैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति। शब्दप्रवृत्तिनिमित्तकुत्सायाम् अयं समास इष्यते। विशेषणं विशेष्येण बहुलम् 2|1|57 इति परनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातार्थ आरम्भः। वैयाकरणखसूचिः। निष्प्रतिभः इत्यर्थः। याज्ञिककितवः। अयाज्ययाजनतृष्णापरः। मीमांसकदुर्दुरूढः। नास्तिकः। कुत्सितानि इति किम्? वैयाकरणश्चौरः। न ह्यत्र वैयाकरणत्वं कुत्स्यते। कुत्सनैः इति किम्? कुत्सितो ब्राह्मणः।
कुत्सितशब्दोऽयमिह रूढिमाचष्टे। तथा च निष्ठा भूतकालं नोपादत्ते। कुत्सनशब्देन च कुत्साहतुर्धर्मो गृह्रते-- कुत्स्यते गह्र्रतेऽनेनेति कृत्वा। बहुवचननिर्देशस्तु स्वरूपविधेर्निरासार्थः। तेन कुत्सितवादिना कुत्सनवचनैः सह समासो विज्ञायते, न तु कुत्सितशब्दस्य कुत्सनशब्देन। अत आह-- `कुत्सितवाचीनि` इत्यादि। शब्दप्रवृत्तिनिमित्तकुत्सायामयं समासो वेदितव्यः। कुतः पुनरेतल्लभ्यते? प्रत्यासत्तेः। शब्दस्य हि प्रवृत्तिनिमित्तं प्रत्यासन्नम्, अतस्तत् कुत्सायामेव समासेन भवितुं युक्तम्। `वैयाकरणखसूचिः` इति। वैयाकरणश्चासौ खसूचिश्चेति विग्रहः। यः पृष्टः सन् व्याकरणे खमाकाशं सूचयतीति निरीक्षते निष्प्रतिभो भवति स एवमुच्यते। अत्र हि वैयाकरणत्वं वैयाकरणशब्दस्य प्रवृत्तिनिमित्तं तत् कुत्स्यते; तत्पुनः व्याकरणाध्येतृसम्बन्धः, व्याकरणवेदितृसम्बन्धो वा।तेन हि निमित्तेन वैयाकरणशब्दो पुरुषे वत्र्तते। एवमन्यत्रापि शब्दप्रवृत्तिनिमित्तकुत्सायां समासो वेदितव्यः। `याज्ञिककितवः` इति। कितव इव कितवः। यथा हि कितवः किं तवास्तीति धनवत्तामात्रमपेक्षमाणो द्यूते प्रवत्र्तते, न तु तस्य जात्यादिकमपेक्षते; तथा याज्ञिकोऽपि याजने प्रवत्र्तमानो यस्तृष्णयाऽयाज्यस्य धनवतामात्रमपेक्षते, न तु तस्य यागार्हतां स याज्ञिककितव इत्युच्यते। अत आह- `अयाज्ययाजनतृष्णापर उच्यते` इति। `मीमांसकदुर्दुरूढः` इति। मीमांसको मीमांसाध्ययनफलमनवाप्य नास्तिको जात इति प्रतीयते।`वैयाकरणश्चौरः` इति। ननु चौरत्वेन गह्र्रमाणो वैयाकरणः कुत्सितो भवत्येव। तदभिषायी च वैयाकरणशब्दः। तत्कथमिदं प्रत्युदाहरणमुपपद्यत इत्याह-- `न ह्रत्र ` इत्यादि। प्रत्यासत्तेर्हि शब्दप्रवृत्तिनिमित्तस्य कुत्सायां ससासेन भवितव्यम्। न चेह वैयाकरणशब्दस्य प्रवृत्तिनिमित्तं कुत्स्यते; यस्माच्चौरोऽपि सम्यक् व्याकरणं वेत्त्यधीते वा। तस्मान्नात्र शब्दप्रवृत्तिनिमित्तं कुत्स्यते, किं तर्हि? यत्र तद्वैयाकरणत्वं वत्र्तते स कुत्स्यते, वैयाकरणत्वन्तु तस्योपलक्षणमेव केवलम्, योऽसौ वैयाकरणः स चौरः, यथा-- यः कम्पते सोऽआत्थ इति। अत्र कम्पनमआत्थस्योपलक्षणम्। `कुत्सितो बाहृणः` इति। भवत्यत्र कुत्सितशब्दः कुत्सिताभिधायी। न तु ब्राआहृणशब्दः कुत्सनवचनः॥`पापाणकशब्दौ कुत्सनाभिधायिनौ` इत्युक्तम्। यद्येवमत्र पूर्वेणैव सिद्धः समासः, किमर्थमिदनुच्यत इत्याशङ्क्याह-- `तयोः` इत्यादि। यदि पूर्वेण स्यात् समासः, ततः कुत्सितशब्दस्य प्रथमानिर्दिष्टत्वात् पूर्वेनिपातः स्यात्, पापापणकशब्दयोस्तु परनिपातः। तस्मात् पूर्वनिपातार्थमिदमारभ्यते। कुत्सितग्रहणं विस्पष्टार्थम्। अन्यथा पूर्वयोगादेव कुत्सित इत्यनुवर्तिष्यत इति तन्न कत्र्तव्यमेव स्यात्॥
कुत्सितानीति। ठ्कुत्स अवक्षेपणेऽ मत्यादिसुत्रे चकारस्यानुक्तसमुच्चयार्थत्वाद्वर्तमाने क्तः। बहुवचननिर्देशादुभयत्रार्थग्रहणं न स्वरूपग्रहणमित्याह - कुत्सितवाचीनीति। वैयाकरणखसूचिरिति। सूचयतेः ठिच्चऽ इतीकारः। यः पृष्टः सन् प्रश्नं विस्मारयितुं खं सूचयति उ खं निरीक्षते - अहो निर्मलं गगलमिति, स एवसुच्यते। अत्र व्याकरणस्य वेदाङ्गस्याध्ययनं प्रशस्तमपि प्रतिभानाभावेन निष्फलत्वात्कुत्स्यते। याज्ञिककितव इति। किं तवास्तीति धनमात्रप्रश्नेन जात्यादिनिरपेक्षो द्यौउते प्रवर्तमानः कितवः। इह तु कितव इव कितवः, यो याज्ञिको याज्यस्य धनसतामेवापेक्षते न यागार्हताम्, स याज्ञिककितव इत्युच्यते, तदाह - अयाज्ययाजकस्तृष्णपपर इति। मीमांसकदुर्दुरूट इति। ठ्दुल उत्क्षेपेऽ, दुःपुर्वः औणादिकः कूटप्रत्ययः। ठ्बहुलमन्यत्रापिऽ इति णिलुक्, लरयोरेकविषयत्वस्मरणाद् दुर्दुरुट इति भवति। वैयाकरणश्चौर इति। कथमेतत्प्रत्युदाहरणम्, यावता चौरतवेन गर्ह्यमाणत्वाद्भवत्येव वैयाकरणकुत्सा, तत्रह - न ह्यत्रेति। प्रत्यासतेः शब्दप्रवृतेः शब्दप्रवृत्तिनिमितकुत्सायां समासेन भवितव्यम्, अत्र च वैयाकरणः कुत्स्यते चौरत्वेन, न तु वैयाकरणत्वम्। कुत्सिनो ब्राह्मण इति। अत्र ठ्विशेषणं विशेष्यणऽ इति भवितव्यमेव समासेन। यदि नेष्यते, बहुलग्रहणं शरणम्॥
सिद्धान्तकौमुदी
कुत्स्यमानानि कुत्सनैः सह प्राग्वत् । वैयाकरणखसूचिः । मीमांसकदुर्दुरूढः ॥
कुत्सितानि कुत्सनैः - कुत्सितानि । वर्तमाने क्तः, व्याख्यानात् । तदाह — कुत्स्यमानानीति । कुत्सनैरिति करणे ल्युट् । प्राग्वदिति । समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः । वैयाकरणखसूचिरिति । वैयाकरणश्चासौ खसूचिश्चेति विग्रहः । यः प्रक्रियां पृष्टःसन् प्रश्नं विस्मारयितुमाकाशं दर्शयति पश्यति वा स एवमुच्यते । अत्र वैयाकरणः प्रक्रियाविस्मरणान्निन्द्यः । खसूचनं निन्दाहेतुः । मीमांसकदुर्दुरूट इति ।दुल उत्क्षेपे॑चुरादिः दुर्पूर्वादौणादिकाः कूटप्रत्ययः ।बहुलमन्यत्रापी॑ति णेर्लुक् । रलयोरभेदाद्रः । यो मीमांसामधीत्याऽन्यथा जानानो दुराक्षेपं करोति स एवमुच्यते । विशेष्यस्य पूर्वनिपातार्थं सूत्रम् । विशेषणसमासे तु विशेषणस्य पूर्वनिपातः स्यात् ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
कुत्सितानि कुत्सनैः (401) (256 तत्पुरुषसंज्ञासूत्रम् ।। 2 । 1 । 3 आ.3 सू.) (उदाहरणनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) किमुदाहरणम् ?।। (समाधानभाष्यम्) वैयाकरणखसूचिः।। (आक्षेपभाष्यम्) किं व्याकरणं कुत्सितम्, आहोस्विद्वैयाकरणः?।। (समाधानभाष्यम्) वैयाकरणः कुत्सितः। तस्मिन्कुत्सिते तत्स्थमपि कुत्सितं भवति।। कुत्सितानि ।। 52 ।।