॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|1|49
SK 726
2|1|49
पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन   🔊
SK 726
सूत्रच्छेद:
पूर्वकाल-एक-सर्व-जरत्-पुराण-नव-केवला: - प्रथमाबहुवचनम् , समानाधिकरणेन - तृतीयैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11] , तत्पुरुष:  [2|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
सुप् सुपा इति वर्तते। तस्य विशेषणम् एतत्। पूर्वकाल एक सर्व जरत् पुराण नव केवल इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति। भिन्नप्रवृत्तिनिमित्तस्य शब्दस्य एकस्मिन्नर्थे वृत्तिः साऽमानाधिकरण्यम्। पूर्वकालः इत्यर्थनिर्देशः, परिशिष्टानां स्वरूपग्रहणम्। पूर्वकालो ऽपरकालेन समस्यते। स्नातानुलिप्तः। कृष्टसमीकृतम्। दग्धप्ररूढम्। एकशाटी। एकभिक्षा। सर्वदेवाः। सर्वमनुष्याः। जरद्धस्ती। जरद्गृष्टिः। जरद्वृत्तिः। पुराणान्नम्। पुराणावसथम्। नवान्नम्। नवावसथम्। केवलान्नम्। समानाधिकरणेन इति किम्? एकस्याः शाटी।
`भिन्नप्रवृत्तिनिमित्तप्रयुक्तस्य` इत्यादि। भिन्नप्रवृत्तिनिमित्तग्रहणं पर्यायनिवृत्त्यर्थम्। एकग्रहणं गौरआ इत्यादिनिवृत्त्यर्थम्। `पूर्वकाल इत्यर्थनिर्देशः` इति। अर्थप्रधानत्वान्निर्देशस्य। तेन स्वरूपग्रहणं न भवतीति भावः। `परिशिष्टानां स्वरूपग्रहणम्` इति। शब्दप्रधानत्वान्निर्देशस्य। `पूर्वकालोऽपरकालेन` इति। कुतः पुनरनुक्तोऽप्येषोऽर्थविशेषो लभ्यते; सम्बन्धिशब्दत्वात् पूर्वकालस्य? न ह्रनपेक्ष्यापरकालं पूर्वकालं सम्भवति; अतः पूर्वकालपरिग्रहे कृते सत्यपरकालस्यापि परिग्रहः कृत एव। `स्नानानुलिप्तः` इति। पूर्वं स्नातः पश्चादनुलिप्त इत्यत्र स्नातशब्दः स्नानेन निमित्तेन प्रयुक्तः, अनुलिप्तशब्दोऽनुलेपनेन; तयोश्चैकत्रार्थे वृत्तिरित्यस्ति सामानाधिकरण्यम्। `एकशाटी` इति। एका चासौ शाटी चेति `पुंत्कर्मधारय` 6|3|41 इत्यादिना पुंवद्भावः॥
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
विशेषणं विशेष्येण (कौमुदी-736) इति सिद्धे पूर्वनिपातनियमार्थं सूत्रम् । एकशब्दस्य दिक्संख्ये संज्ञायाम् (कौमुदी-727) इति नियमबाधनार्थं च । पूर्वं स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः । एकनाथः । सर्वयाज्ञिकाः । जरन्नैयायिकाः । पुराणमीमांसकाः । नवपाठकाः । केवलवैयाकरणाः ॥
पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन - पूर्वकालैक ।सु॑बित्यनुवृत्तं बहुवचनेन विपरिणम्यते । सुपेति चानुवर्तते । पूर्वः कालो यस्य स पूर्वकालः । पूर्वकालवृत्तिरित्यर्थः । ततश्चपूर्वकाले॑त्यनेन पूर्वकालवृत्त्यर्थकशब्दस्य ग्रहणम् । एकादिशब्दास्तु षट् स्वरूपपरा एव । तथाच पूर्वकालादयः सप्तसुबन्ताः समानाधिकरणेन सुबन्तेन समस्यन्ते, स तत्पुरुष इत्यर्थः । समानम्-एकम् अधिकरणं=वाच्यं यस्येति विग्रहः । एकार्थवृत्तित्वं सामानाधिकरण्यमिति फलितम् । पूर्वनिपातेति । पश्चादनुलिप्तः पूर्वं स्नातत्वेन, पूर्वं स्नातो वा पश्चादनुलिप्तत्वेन विशेष्टुं शक्यते, अतोविशेषणं विशेष्येणे॑ति समासे सति अन्यतरस्य पूर्वनिपाते प्राप्ते पूर्वकालवृत्तिशब्दस्यैव पूर्वनिपातार्थमिदं वचनम् । एवमेकादीनामपीत्यर्थः । एकशब्दविषये प्रयोजनान्तरमप्याह — एकशब्दस्येति ।दिक्संख्ये संज्ञायां समस्येते॑ इति नियमस्य वक्ष्यमाणतया "एकनाथ" इत्यत्र विशेषणसमासस्य बाधे प्राप्ते तत्प्रतिप्रसवार्थमप्येकग्रहणमित्यर्थः । स्नातानुलिप्त इति । विग्रहवाक्यवदिह पूर्वपश्चाच्छब्दाऽभावेऽपि स्नानानुलेपनयोः पौर्वापर्यं समासगम्यमेव । "पूर्वकालः समस्यते" इत्युक्ते परकालेनेत्यर्थात्प्रतीतेः । एकनाथ इति । एकश्चासौ नाथश्चेति विग्रहः । सर्वयाज्ञिका इति । यज्ञमधीयते विदन्ति वा याज्ञिकाः ।क्रतूक्थादिसूत्रान्ताट्ठक् । सर्वे च ते याज्ञिकाश्चेति विग्रहः । जरन्नैयायिका इति । मीमांसामधीयते मीमांसकाः ।क्रमादिभ्यो वुन् । पुराणश्च ते मीमांसकाश्चेति विग्रहः । नवपाठका इति । नवाश्च ते पाठकाश्चेति विग्रहः । अत्र पुराणसाहचर्यान्नवशब्दो नूतनवाच्येव गृह्रते, न तु सङ्ख्याविशेषवाची । केवलवैयकरणा इति । व्याकरणमधीयते विदन्ति वा वैयाकरणाः ।तदधीते तद्वेदे॑त्यण् । न य्वाभ्या॑मिति वृद्धिनिषेध ऐजागमश्च । केवलाश्च ते वैयाकरणाश्चेति विग्रहः ।
पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन - पूर्वकालै ।पूर्वकैले॑त्यर्थनिर्देशः । इतरेषां तु षण्णां स्वरूपग्रहणम् । पूर्वत्वस्य ससंबन्धिकत्वात्पूर्वकालोऽपरकालेन समस्यते । तथैवोदाहरति — स्नतानुलिस इति । अत्र क्रियाशब्दत्वात्पाचकपाठकवत्पर्यायः । याज्ञिका इत्यादि । यज्ञमधीयते विदन्ति वा याज्ञिकाः ।क्रतूक्थादी॑ति ठक् । एवं नैयायिकाः ।जीर्यतेरतृन् इति भूतेर्थेऽतृन् । जरन्तश्च ते नैयायिकाश्च । जीर्णनैयायिकाश्च । जीर्णनैयायिका इत्यर्थः । मीमांसामधीयते विदन्ति वा मीमांसकाः ।क्रमादिभ्यो वुन् । नवपाठका इति । पठन्तीति पाठकाः ।ण्वुल्तृचौ॑इति ण्वुल् । संख्यावाची नवशब्दोऽत्र न गृह्रते,दिक्सङ्ख्यते संज्ञाया॑मिति नियमात् । समानाधिकरणेनेति किम् । एकस्याः शौक्ल्यम् । षष्ठीसमासोऽपि इह न भवति,पुरणगुमे॑ति निषेधात् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (397) (252 तत्पुरुषसंज्ञासूत्रम् ।। 2 । 1 । 2 आ. 32) (एकनदीशब्देऽव्ययीभाववारणाधिकरणम्) (आक्षेपभाष्यम्) इह कस्मादव्ययीभावो न भवति ‐ एका नदी एकनदी नदीभिः संख्या इति प्राप्नोति।। (समाधानभाष्यम्) नैष दोषः। इह कश्चित्समासः पूर्वपदार्थप्रधानः। कश्चिदुत्तरपदार्थप्रधानः। कश्चिदन्यपदार्थप्रधानः। कश्चिदुभयपदार्थप्रधानः। पूर्वपदार्थप्रधानोव्ययीभावः। उत्तरपदार्थप्रधानस्तत्पुरुषः। अन्यपदार्थप्रधानो बहुव्रीहिः। उभयपदार्थप्रधानो द्वन्द्वः। न चात्र पूर्वपदार्थप्राधान्यं गम्यते।। (समाधानभाष्यम्) अथ वाव्ययीभावः क्रियताम्, तत्पुरुष इति, तत्पुरुषो भविष्यति विप्रतिषेधेन ।। (आक्षेपभाष्यम्) भवेदेकसंज्ञाधिकारे सिद्धम्। परंकार्यत्वे तु न सिद्ध्यति। आरम्भसार्मथ्याच्चाव्ययीभावः प्राप्नोति, परंकार्यत्वाच्च तत्पुरुषः प्राप्नोति।। (समाधानभाष्यम्) परं कार्यत्वे च न दोषः।। कथम् ?। नदीभिः समाहारेऽव्ययीभावो वक्तव्यः। स चावश्यं वक्तव्यः। सर्वमेकनदीतरे ।। पूर्वका ।। 48 ।।