Page loading... Please wait.
2|1|48 - पात्रेसमितादयश्च
॥ तस्मै पाणिनये नमः ॥
2|1|48
SK 725
पात्रेसमितादयश्च   🔊
सूत्रच्छेदः
पात्रेसंमित-आदयः (प्रथमाबहुवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
आकडारात् एका संज्ञा  1|4|1 प्राक्कडारात्समासः  2|1|3 सुप्सुपा  2|1|4 विभाषा  2|1|11 तत्पुरुषः  2|1|22
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
समुदाया एव निपात्यन्ते। पात्रेसमिताऽदयः शब्दस् तत्पुरुषसंज्ञा भवन्ति क्षेपे गम्यमाने। ये च अत्र क्तान्तेन सह समासाः, तेषां पूर्वेन एव सिद्धे पुनः पाठो युक्तारोह्रादिपरिग्रहार्थः, पूर्वपदाद्युदात्तत्वं यथा सयातिति। युक्तरोह्रादिषु हि पात्रेसमितादयश्च इति पठ्यते। पात्रेसमिताः। पात्रेबहुलाः। अवधारणेन क्षेपो गम्यते, पात्रे एव समिता न पुनः क्वचित् कार्ये इति। उदुम्बरमशकादषु उपमया क्षेपः। मातरिपुरुषः इति प्रतिषिद्धसेवनेन। पिण्डीषूरादिषु निरीहतया। अव्यक्तत्त्वाच्चाकृतिगणो ऽयम्। पात्रेसमिताः। पात्रेबहुलाः। उदुम्बरमशकाः। उदरकृमिः। कूपकच्छपः। कूपचूर्णकः। अवटकच्छपः। कूपमण्डूकः। कुम्भमण्डूकः। उदपानमःडूकः। नगरकाकः। नगरवायसः। मातरिषुरुषः। पिण्डीषूरः। पितरिषूरः। गेहेशूरः। गेहेनर्दी। गेहेक्ष्वेडी। गेहेविजिती। गेहेव्याडः। गेहेमेही। गेहेदाही। हेहेदृप्तः। गेहेधृष्टः। गर्भेतृप्तः। आखनिकबकः। गोष्ठेशूरः। गोष्ठे विजिती। गोष्ठेक्ष्वेडी। गोष्ठेपटुः। गोष्ठेपण्डितः। गोष्ठेप्रगल्भः। कर्णेटिट्टिभः। कर्णेटिरिटिरा। कर्णेचुरचुरा। चकारो ऽवधारणार्थः, तेन समासान्तरं न भवति, परमपात्रेसमिताः इति।
`युक्तारोह्राविपरिग्रहार्थः` इति। युक्तारोह्रादिषु युक्तारोह्रादिभिर्वा परिगर्होऽर्थः प्रयोजनं यस्य पाठस्य स तथोक्कतः। किमर्थं पुनर्युक्तारोह्रादिषु परिग्रहस्तेषामिष्यत इत्याह-- `पूर्वपदाद्युदात्तत्वं यथा स्यात्` इति युक्तारोह्रादीनां हि `युक्तारोह्रादयश्च` 6|2|81 इत्यनेन पूरवपदाद्युदात्तत्वं विधीयते। तत्र यदि ये क्तान्तास्ते न पठएरन्, तदा तेषामाद्युदात्तत्वं न स्यात्। कथं पुनः पात्रेसमितादयो युक्तारोह्रादिग्रहणेन गृह्रन्ते; यतस्तेषां विधीयमानमाद्युदात्तत्वं पात्रेसमितादीनमपि भवतीत्याह-- `युक्तारोह्रादिषु हि` इत्यादि। `उदुम्बरमशकादिषूपमया क्षेपः` इति। यस्तत्रैवावरुद्धो न क्वचिद्गच्छति तमव विशिष्टचं मन्यते-- नास्मात्परमस्तीति, सोऽदृष्टविस्तार उच्यत उदुम्बरमशक इति। एवमन्यत्राप्यपमानात् क्षेपः। `प्रतिषिद्धसेवनेन` इति। यः कश्चित् प्रतिषिद्धमाचरति स `मातरिपुरुषः` इत्युच्यते। `निरीहतया` इति। यो न किञ्चित् कर्तुं समर्थः स `पिण्डीशूरः` इत्येवमादिभिः पदैरभिधीयते। `चकारोऽवधारणार्थः` इति। पात्रेसमितादय एव यता स्युः, यदन्यत् समासान्तरं तेषां प्राप्नोति तन्मा भूदिति। तेन परमपात्रेसमिता इत#इ `सन्महत्` 2|1|60 इत्यादिना समासान्तरं न भवति॥
युक्तारोह्यादिपरिग्रगर्थमिति। युक्तारोह्यादयश्चेत्यत्रैषामपि परिग्रहो यथा स्यादित्यर्थः। प्रत्र एव समिता इति। भोजनसमय एव सङ्गता इत्यर्थः। पात्रेबहुला इति। भोजनसमय एव सङ्घीभवन्ति, नान्यकार्य इत्यर्थः। उबुम्बरमशकादिष्विति। यस्तत्रैव तृप्तो नास्मात्परमस्तीति मन्यते, सोऽयमदृष्टविस्तारः पुरुष उदुम्बरमशकादिरुच्यत इत्यर्थः। प्रतिषिध्दसेवनेनेति। शत्रुषु भार्यायां वा पुरुषायितव्यम्, मातरि पुरुषायितं प्रतिषिध्दप्। निरीहतयेति। पिण्डी उ ओदनपिण्डः, तत्रैव शूरो नान्यत्रेति निरीहता। परमपात्रेसमिता इति। एवंरूपं वृत्यन्तरं न भवति, परमाः पात्रेसमिता इति वाक्यमेव भवतीत्यर्थः॥ 49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन ॥ 2-1-49 ॥ भिन्नप्रवृत्तिनिमितस्येत्यादि। भिन्नग्रहणं पर्यानिवृत्यर्थम्। एकग्रहणं गौरश्च इत्यादिनिवृत्यर्थम्। क्वचिद् भिन्नन्मितप्रयुक्तस्येति पाठः, भिन्नेन निमितेन प्रवृत्तिनिमितेन प्रवर्तितस्येत्यर्थः। ठ्विशेषणं विशेष्येणऽ इति सिध्दे पूर्वकालादीनां पूर्वनिपातार्थं वचनम्, एकशब्दस्य तु ठ्दिक्संख्ये संज्ञायाम्ऽ इति नियमात्प्राप्त्यर्थमेव। पूर्वकाल इत्यर्थग्रहणमिति। पूर्वः कालोऽस्य पूर्वकालः, पूर्वमनुष्ठत इत्यर्थः। स च चरमानुष्ठितमपेक्ष्य भवतीत्यर्थातेनैव समासो विज्ञायत इत्याह - परकालेनेति। स्नातानुलिप्त इति। पूर्वं स्नातः पश्चादनुलिप्त इत्यर्थः। अत्र क्रियाशब्दत्वात्पाचकपाठकादिवत्पूर्वनिपातः पर्यायात्स्यात्। एकशाटिति। शाटशब्दाज्जतिलक्षणो ङीष्, ठेकतध्दिते चऽ इति ह्रस्वः। सर्वमनुष्य इति। अत्र विशेषणमित्यपि समेसे न दोषः, तस्मात्क्रियावाचिनां कूणवाचिनां वा समासो दर्शनीयः। एवं जरदादिष्वपि एकस्याः शाटीति। अत्र भवितव्यमेव षष्ठीसमासेन, तस्मादेकरस्याः शौक्ल्यगिति प्रत्युदाहर्तव्यम्। अत्र हि गुणेन नेति प्रतिषेधः॥
सिद्धान्तकौमुदी
एते निपात्यन्ते क्षेपे । पात्रेसमिताः । भोजनसमये एव संगताः नतु कार्ये । गेहेशूरः । गेहेनर्दी । आकृतिगणोऽयम् । चकारोऽवधारणार्थः । तेनैषां समासान्तरे घटकतया प्रवेशो न । परमाः पात्रेसमिताः ॥
पात्रेसंमितादयश्च - पात्रेसमितादयश्च । निपात्यन्त इति । कृतसमासादिकार्या एते शब्दा निर्दिश्यन्त इत्यर्थः । पात्रेसमिता इति । इण् गतौ । संपूर्वात्गत्यर्थाकर्मके॑ति कर्तरि क्तः । निपातनात्सप्तम्या अलुक् । भोजनपात्रे निहिते सति सङ्गता इत्यर्थः । फलितमाह — भोजनेति । गेहेशूर इति । गेह एव प्रकटितशौर्यो, न तु युद्ध इत्यर्थः । गेहेनर्दीति । "नर्द शब्दे" "सुप्यजातौ" इति णिनिः । समासे सति निपातनादलुक् । गेह एव गर्जति, युद्धादौ तु न प्रवर्तत इत्यर्थः । अवधारणार्थ इति । ततश्च एते यथा गणे पठितास्तथैव भवन्तीत्यर्थः । ततः किमित्यत आह — तेनेति । ततश्च परमाश्च ते पात्रेसमिताश्चेत्यादौ समासो न भवति ।
पात्रेसंमितादयश्च - पात्रेसमितादयश्च । संपूर्वादिणः क्तः । गेहेनर्दीति ।नर्द शब्देq॑इत्यस्मात्सुप्यजातौ — -॑इति णिनिः । घटकतया प्रवेशो नेति ।परमाः पात्रेसमिताः॑इति वाक्यमेव भवति, न तुसन्मह॑दित्यादिना समासान्तरमिति भावः । एतच्च शब्दकौस्तुभे स्थितम् । अन्ये तुकवलाः पात्रेसमिताः॑इति वाक्यमेव, न तुपूर्वकालैके॑त्यादिना समासान्तरमित्याहुः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
पात्रेसमितादयश्च (396) (251 तत्पुरुषसंज्ञासूत्रम् ।। 2।1।2 आ.31) (चकारप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थश्चकारः?।। (समाधानभाष्यम्) एवकारार्थः। पात्रेसमितादय एव ।। क्व मा भूत्?। परमं पात्रे समिता इति।। पात्रेसमि ।। 47 ।।