Page loading... Please wait.
2|1|47 - क्षेपे
॥ तस्मै पाणिनये नमः ॥
2|1|47
SK 724
क्षेपे   🔊
सूत्रच्छेदः
क्षेपे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
आकडारात् एका संज्ञा  1|4|1 प्राक्कडारात्समासः  2|1|3 सुप्सुपा  2|1|4 विभाषा  2|1|11 तत्पुरुषः  2|1|22
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
क्षेपो निन्दा। क्षेपे गम्यमाने सप्तम्यन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। अवतप्ते नकुलस्थितं त एतत्। चापलम् एतत्, अनवस्थितत्वं तवैततित्यर्थः। उदकेविशीर्णम्। प्रवाहेमूत्रितम्। भस्मनिहुतम्। निष्फलं यत् क्रियते तदेवम् उछ्यते। तत्पुरुषे कृति बहुलम् 6|3|14 इत्यलुक्।
`अवतप्तेनकुलस्थितम्` इति। `तत्पुरुषे कृति बहुलम्` 6|3|13 इति सप्तम्या अलुक्। कः पुनरत्र क्षेपः? कार्येष्वनवस्थितता। यदाह-- `एतच्चापलम्` इत्यादि। यथा अवतप्ते देशे नकुला न चिरं स्थातारो भवन्ति, तद्वदन्योऽपि योऽर्थानारभ्य न चिरं तेष्ववतिष्ठते तं प्रतीदमुच्यते-- अवतप्तेनकुलस्थितमिति। `उदकं विशीर्णम्` इत्यादावप्यारम्भस्य निष्फलता क्षेपः। अत एवाह-- `निष्फलं यत्क्रियते तदेवमुच्यते` इति। `प्रवाहे मूत्रितम्` इति। `मूत्र प्ररुआवणे` (धातुपाठः-1909) चुरादिः॥
अवतप्तेनकुलस्थितं तवैतदिति चिरन्तनप्रयोगः, तस्यार्थमाह - चापलमेततवेत्यर्थ इति। यथा अवतप्ते प्रदेशे नकुला न चिरं क्थातारो भवन्ति, एवं कार्याण्यारभ्ययश्चापलेन न चिरं तिष्ठति स एवमुच्यत इत्यर्तः। ठ्कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्ऽ इति नकुलस्थितशब्देन समासः, पूर्ववदलुक्॥
सिद्धान्तकौमुदी
सप्तम्यन्तं क्तान्तेन प्राग्वन्निन्दायाम् । अवतप्तेनकुलस्थितं त एतत् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
अवतप्ते इति। नकुलेन स्थितं नकुलस्थितम्। `कर्तृकरणे कृते`ति समासः। कृद्ग्रहणपरिभाषया नकुलस्थितशब्दोऽपि क्तान्त इथि तेन सह सप्तम्यन्तस्य समासः। `तत्पुरुषे कृती`ति सप्तम्या अलुक्। अव्यवस्थितत्वप्रतिपत्त्याऽत्र निन्दावगम्यते।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
क्षेपे (395) (251 तत्पुरुषसंज्ञासूत्रम् ।। 2।1।2 आ, 30) (उदाहरणनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) किमुदाहरणम्?।। (समाधानभाष्यम्) अवतप्तेनकुलस्थितं त एतत्।। (आक्षेपभाष्यम्) क्षेप इत्युच्यते क इह क्षेपो नाम?।। (समाधानभाष्यम्) यथा अवतप्ते नकुलाः न चिरं स्थातारो भवन्ति, एवं कार्याण्यारभ्य यो न चिरं तिष्ठति स उच्यते अवतप्तेनकुलस्थितं त एतद् इति।। (आक्षेपभाष्यम्) क्षेपे सप्तम्यन्तं क्तान्तेन सह समस्यत इत्युच्यते तत्र ते सगतिकेन सनकुलेन च समासो न प्राप्नोति।। (समाधानभाष्यम्) ।। क्षेपे सगतिकसकारकसमासे उक्तम् ।। किमुक्तम्?। कृद्ग्रहणे गतिकारकपूर्वस्यापि ‐ इति।। क्षेपे ।। 46 ।।