॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|1|4
SK 649
2|1|4
सह सुपा   🔊
SK 649
सूत्रच्छेद:
सह - अव्ययम् , सुपा - तृतीयैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
सुपिति वर्तते। सुपिति सह इति सुपा इति च त्रयम् अपि अधिकृतं वेदितव्यम्। यदित ऊर्ध्वम् अनुक्रमिष्यामः, तत्र इदम् उपस्थितं द्रष्टव्यम्। वक्ष्यति द्वितीया श्रितातीतपतितगतात्यस्तप्राप्ताऽपन्नैः 2|1|24 इति। द्वितीयान्तं श्रितादिभिः सह समस्यते, कष्टं श्रितः कष्टश्रितः। सहग्रहणं योगविभागार्थम्, तिङापि सह यथा स्यात्। अनुव्यचलत्। अनुप्रावर्षत्।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सहवचनं किमर्थम्, यावता तृतीयैव सहार्थमाक्षेप्स्यति, यथा ठ्वृध्दो यूनाऽ इति? सहभूतयोः समाससंज्ञा यथा स्याद् एकैकस्य मा भूद्; अन्यथा पूत्रेण सहागतः पितेत्यत्र यथा द्वयोरप्यागमनेन सम्बन्धः, एवं समाससंज्ञापि प्रत्येकमेव स्यात्, सहग्रहणे तु सहभूतयोरेका संज्ञा भवति। किं च स्याद् यद्येकैकस्य संज्ञा स्यात्? इह ऋक्पाद इति समासान्तः प्रसज्येत, द्वौ च स्वरौ स्याताम्। ठ्कृतध्दितसमासाश्चऽ इत्यत्र तु समासश्च समासश्चोत्योकशेषो व्याख्यास्यते, तेन समाससमूहस्य संज्ञाविधिनियमार्थ इति वाक्यस्य न भविष्यति; अन्यथा त्वेकैकस्य समासस्य प्रत्ययान्तत्वाद्विध्यर्थं समासकग्रहणं स्यत्। ठ्समासाञ्च तद्विषयात्ऽ इत्यत्रापि प्रातिपदिकादित्यनुवर्तते, समूहस्य च प्रातिपदिकत्वम्, न त्वेकाकस्य समासस्येति समासादित्येकत्वादिवक्षया समूहादेव सिध्दः प्रत्ययः। तदेवं समुदायस्य यथा स्यादेकैकस्य मा भूदिति सहग्रहणम्। नैतदस्ति प्रयोजनम्, ठ्समासःऽ इति महती संज्ञा क्रियते-अन्वर्थसंज्ञा यथा विज्ञायेत। यस्मिन्समुदायो दपद्वयं परस्परं समस्यते स समासः। ठ्हलश्चऽ इत्यधिकरणे घञ्। तस्मादनर्थकं सहग्रहणम् तत्राह-सहग्रहणं योगविभागार्थमिति। सहेत्येको योगः, सुबित्येव, सुप् सह समस्यते, केन? पदविधित्वात्समर्थेन। अनुव्यचलदिति। तत्र सुबित्येकत्वस्य विवक्षितत्वाध्देः पूर्वं समासः, पश्चादनोः, तत्र नित्यसमासत्वाध्देः शाकलाभावः। समासान्योदातत्वं तु न भवति;ठ्तिङ्ङतिङःऽ इति निघातात्। अनोः ठ्गतिर्गतौऽ इति निघातः, वेèर्यणादेशे ठुदातस्वरितयोःऽ इत्यटः स्वरितत्वम्। अन्ये तु-सतिशिष्ट्ंअ समासान्योदातत्वं भवतीत्याहुः। विभक्तिस्तु सत्यपि समासत्वेन प्रातिपदिकत्वेन भवति; तिण्èóकत्वस्योक्तत्वात्। यद्वा-वचनग्रहणमुक्तेष्वप्येकत्वादिषु यथा स्यादिति प्रथमैकवचनम्, हल्ङ्यादिलोपः। एवं चैकपद्यादामनुव्यचलद्देवदतेति ठाम एकन्तरमामन्त्रितमनन्तिकेऽ इति निघातप्रतिषेधो भवति। यौगविभागश्चेष्टसिध्द्यर्थ इत्यतिप्रसङ्गो नीद्भावनीयः॥
सिद्धान्तकौमुदी
सह इति योगो विभज्यते । सुबन्तं समर्थेन सह समस्यते । योगविभागस्येष्टसिद्ध्यर्थत्वात्कतिपयतिङन्तोत्तरपदोऽयं समासः । स च छन्दस्येव । पर्यभूषयत् । अनुव्यचलत् । सुपा सुप्सुपा सह समस्यते । समासत्वात्प्रातिपदिकत्वम् ॥
सह सुपा - सह सुपा । "सुबामन्त्रिते" इत्यतःसु॑बित्यनुवर्तते । सुबन्तं सुबन्तेन सहोच्चारितं समाससंज्ञं भवतीति फलति । एवं सतिपर्यभूषय॑दित्यादौ सुबन्तस्य तिङन्तेन समासो न स्यात् । तत्राह — सहेति योगो विभज्यत इति । समाससंज्ञायां अन्वर्थत्वादेकस्याऽप्रसङ्गात्सुपेत्येतावतैव सहेति सिद्धे तद्ग्रहणं योगविभागार्थमिति भावः ।सहे॑त्यत्र "सुबामन्त्रिते" इत्यतः सुबित्यनुवर्तते । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । "समर्थः पदविधिः" इत्यतः समर्थग्रहणमनुवृत्तं तृतीयया विपरिणम्यते । तदाह — सुबन्तमित्यादिना । समस्यत इति । एकीक्रियते प्रयोक्तृभिरित्यर्थः । समाससंज्ञां लभत इति यावत् । केचित्तु सुबन्तं कर्तृ समर्थेन समस्यते, एकीभवतीत्यर्थः । कर्तरि लट् ।उपसर्गादस्यत्यूह्रो॑रित्यात्मनेपदम् । समासशब्दोऽपि कर्तरि बाहुलकाद्घञन्तएव, कर्मणि घञन्तो वा । तथा सति समस्यत इति कर्तरि तिङन्तं फलितार्थकथनपरमित्याहुः । ननुघटो भवती॑त्यत्र समासे घट-भवतीत्यपि लोके प्रयोगः स्यादित्यत आह — योगविभागस्येति । कतिपयेति । कतिपयानि तिङन्तानि उत्तरपदानि यस्येति विग्रहः ।पर्यभूषयदिति । समासान्तोदात्तत्वे शेषनिघात इति "कुगति" इति सूत्र#ए कैयटः ।देवो देवान् क्रतुना पर्यभूषय॑दित्यत्र तु स्वरव्यत्ययो बोध्यः । अनुव्यचलदिति ।अचल॑दित्यनेन वेः पूर्वं समासे सति तेन अनोः समासः । नत्वनुव्योर्युगपत्समासः, सुबित्येकत्वस्य विवक्षित्वात् । अत एवमहिष्या अजायाश्च क्षीर॑मित्यत्र क्षीरशब्देन सुबन्तयोर्न समास इति कैयटः । सुपा । "सुबामन्त्रिते" इत्यतः सुबित्यनुवर्तते । "समास" इत्यधिकृतम् । तदाह — सुप्सुपेति । सुबन्तं सुबन्तेनेत्यर्थः । ततश्च पूर्वं भूत इति विग्रहे समाससंज्ञा स्थिता । समासत्वात्प्रातिपदिकसंज्ञेति ।कृत्तद्धितसमासाश्च इत्यनेने॑ति शेषः ।
सह सुपा - योगो विभज्यत इति ।सुबामन्त्रितो — -॑ इत्यतः सुबित्यनुवर्तते, तदाह — -सुबन्तमिति । समस्यत इति । सपूर्वादस्यतेः कर्णि तङ् । आचार्येणेति शेषः । समर्थेनेति तु सहयोगे तृतीया । समसनक्रियां प्रति सुबन्तं कर्म, न तु कर्तृ । यद्यपि सुबन्तस्य कर्तृत्वाभ्युपगमेऽपिउपसर्गादस्यत्यूह्योः॑ इति वार्तिकेन समस्यत इत्यत्रात्मनेपदं लभ्यते, तथापि समास इति व्याख्येयग्रन्थे कर्तरि घञ् दुर्लभः । बाहुलकं तु अगतिकगतिरिति कर्मत्वाभ्युपगम एव ज्यायान् । स चेति । एतदपि योगविभागस्येष्टसिद्ध्यर्थत्वादेव लभ्ते । छन्दस्येवेति । यदि लोकेऽपि स्यात्तर्हि यत्प्रकुरुते इत्यादौ स्वाद्युत्पत्तिः स्यात् । लिङ्गसर्वनामनपुंसकतामभ्युपेत्यस्वमोर्नपुंसकात् इति लुकि कृतेऽपिह्यस्वो नपुंसके — -॑इति ह्यस्वः स्यादित्यादि दूषणंकर्मणा यमभिप्रैती॑ति सूत्रेऽस्माभिरुद्भावितम् । अनुव्यचलदिति । सुबित्येकत्वस्य विवक्षितत्वात्पर्यायेण समासो बोध्यः । समासान्तोदात्तत्वे शेषनिघात इतिकुगति — -॑ इति सूत्रे कैयटः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
सह सुपा (353) (224 केवलसमाससंज्ञासूत्रम् ।। 2।1।2 आ.3 सू.) (सहवचनप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) सहवचनं किमर्थम्?।। (1234 समाधानवार्तिकम् ।। 1 ।।) ।। सहवचनं पृथगसमासार्थम् ।। (व्याख्याभाष्यम्) सहग्रहणं क्रियते सहभूतयोरेव समाससंज्ञा यथा स्याद् एकैकस्य समाससंज्ञा मा भूदिति।। (आक्षेपभाष्यम्) किं च स्यात्, यद्येकैकस्य समाससंज्ञा स्यात् ?।। (समाधानभाष्यम्) इह ऋक्पाद इति समासान्तः प्रसज्येत। इह राजाश्व इति द्वौ स्वरौ स्याताम्। (आक्षेपभाष्यम्) कथं च कृत्वैकैकस्य समाससंज्ञा प्राप्नोति?।। (आक्षेपबाधकभाष्यम्) प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टा इति। तद्यथा ‐ वृद्धिगुणसंज्ञे प्रत्येकं भवतः।। (आक्षेपसाधकभाष्यम्) ननु चायमप्यस्ति दृष्टान्तः ‐ समुदाये वाक्यपरिसमाप्तिः इति। तद्यथा ‐ गर्गाः शतं दण्ड्यन्ताम् इति अर्थिनश्च राजानो हिरण्येन भवन्ति, न च प्रत्येकं दण्डयन्ति। सत्येतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकमित्युच्यते, इहापि सहग्रहणं कर्तव्यम्। अथ तत्रान्तरेण प्रत्येकमिति वचनं प्रत्येकं गुणवृद्धिसंज्ञे भवतः, इहापि नार्थः सहग्रहणेन।। (समाधानभाष्यम्) एवं तर्हि सिद्धे सति यत्सहग्रहणं करोति ‐ तस्यैतत्प्रयोजनम् ‐ योगाङ्गं यथा विज्ञायेत सति च योगाङ्गे योगविभागः करिष्यते ‐ सह। सुप् समस्यते। केन सह?। समर्थेन। अनुव्यचलद् अनुप्राविशत्।। ततः सुपा सुपा च सह सुप्समस्यते। अधिकारश्च लक्षणं च। यस्य समासस्यान्यल्लक्षणं नास्ति इदं तस्य लक्षणं भविष्यति।पुनरुत्स्यूतं वासो देयम् पुनर्निष्कृतो रथः (न्यूनतापूर्त्यधिकरणम्) (1235 आक्षेपवार्तिकम् ।। 2 ।।) ।। इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ।। (व्याख्याभाष्यम्) इवेन सह समासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्। वाससीःथ्द्य;व। कन्येःथ्द्य;व।। सह सुपा ।। 4 ।।