॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|1|35
SK 697
2|1|35
भक्ष्येण मिश्रीकरणम्‌   🔊
SK 697
सूत्रच्छेद:
भक्ष्येण - तृतीयैकवचनम् , मिश्रीकरणम् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11] , तत्पुरुष:  [2|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
मिश्रीकरनवाचि तृतीयान्तम् भक्ष्यवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। खरविशदमभ्यवहार्यं भक्ष्यं, तस्य संस्कारकं मिश्रीकरणम्। हुडेन मिश्राः धानाः गुडधानाः। गुडपृथुकाः। वृत्तौ क्रियाया अन्तर्भावात् पूर्वोत्तरपदयोः सामर्थ्यम्।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
खरविशदमिति। खरम् उ कठिनम्, विभक्तावयवम्; खरं च तद्विशदं च खरविशदम्, हनुचलनेनादनीयमित्यर्थः। यदभ्यवहार्यं तद्भक्ष्यमित्युच्यते; तत्रैव यदन्तस्य एरजन्तस्य च भक्षयते रूढत्वात्। भक्षयतिस्त्वन्यत्रापि भवति-अब्भक्षः, वायुभक्ष इति। गौणोऽत्र भक्षयतिरित्यन्ये ॥
सिद्धान्तकौमुदी
गुडेन धानाः गुडधानाः । मिश्रणक्रियाद्वारा सामर्थ्यम् ॥
भक्ष्येण मिश्रीकरणम् - भक्ष्येण । मिश्रीक्रियते खाद्यं द्रव्यमनेनेति मिश्रीकरणं-गुडादि । तद्वाचकं तृतीयान्तं भक्ष्यवाचकेन समस्यत इत्यर्थः । कठिन द्रव्य-खाद्यम् । पृथुकादि भक्ष्यं विवक्षितम् । गुडधाना इति ।धाना भृष्टयवे स्त्रियः॑ इत्यमरः । गुडेन मिश्रा धाना इत्यर्थः । ननु गुडकरणत्वस्य मिश्रपदाऽपेक्षत्वान्न सामथ्र्यमित्यत आह — मिश्रेणेति । गुडेनेत्यस्य गुडकरणकमिश्रणे वृत्तेर्नाऽसामथ्र्यमिति भावः ।चतुर्थी । प्रत्ययग्रहणपरिभाषया चतुर्थीत्यनेन चतुथ्र्यन्तं गृह्रते । तदर्थ- अर्थ-बलि-हित-सुख-रक्षित-एषां द्वन्द्वः । चतुथ्र्यन्तम् एतैः षड्भिः समस्यते, स तत्पुरुष इति फलितम् । तदर्थेत्यत्र तच्छब्देन चतुथ्र्यन्तार्थो विवक्षितः । तस्मै चतुथ्र्यन्तार्थाय इदं तदर्थम् । "अर्थेन नित्यसमासः" इति वक्ष्यमाणः समासः । चतुथ्र्यन्तवाच्यप्रयोजनकं यत्तत्तदर्थमिति पर्यवस्यति । तदाह — चतुथ्र्यन्तार्थायेत्यादिना । तदर्थेनेति । तदर्थेन समास इति यदुक्तं तत्प्रकृतिविकृतिभाव एव भवति, न त्वन्यत्रेत्यर्थः । कुत इत्यत आह — बलिरक्षितेति । यदि तादथ्र्यमात्रेऽयं समासः स्यात्प्रकृतिविकृतिभाव एवेति नोच्येत, तर्हि बलिरक्षितग्रहणं व्यर्थं स्यात् । भूतेभ्यो बलिः, गोभ्यो रक्षितं तृममित्यत्रापि बलेर्भूतार्थतया, रक्षिततृणस्य गवार्थतया च तदर्थेत्येव समाससिद्धेरिति भावः । यूपायेति । अत्र चुत्रथ्यन्तवाच्ययूपार्थं दारु, अतो दारुशब्देन यूपायेत्यस्य समासः, यूपस्य दारुविकृतित्वाच्च, तक्षादिना अष्टाश्रीकृतवृक्षस्यैव यूपशब्दार्थत्वात् । अथ प्रकृतिविकृतिभावग्रहणस्य प्रयोजनमाह — नेहेति । रन्धनायेति । पाकायेत्यर्थः ।रध हिंसायाम् । इह पाको विवक्षितः । भावे ल्युट्, अनादेशः ।रधिभजोरची॑ति नुम् । स्थाल्याश्चतुथ्र्यन्तवाच्यपाकार्थत्वेऽपि प्रकृतिविकृतिभावविरहान्न समासः । नन्वओभ्यो घासः अआघासः, धर्माय नियमो धर्मनियम इत्यादौ कथं तदर्थेन समासः, प्रकृतिविकृतिभावविरहादित्यत आह — अआघासादयस्त्विति । न चैवंरन्धनायस्थाली॑त्यत्रापि षष्ठीसमासः स्यादेवेति प्रकृतिविकृतिभावनियमो व्यर्थ इति वाच्यं, शाब्दबोधे सम्बन्धत्वतादथ्र्यन्तवकृतवैलक्षण्येन उक्तनियमसाफल्यात् । एवञ्चरन्धनस्य स्थाली॑ति सम्बन्धत्वेन भाने षष्ठीसमास इष्ट एव । तादथ्र्यत्वेन भाने चतुर्थीसमासवारणाय तु प्रकृतिविकृतिभावनियमाश्रयणमित्यास्तां तावत् । तदेवं तदर्थेत्यंशः प्रपञ्चितः । अथेदानीमर्थशब्देन चतुथ्र्यन्तस्य समासे विशेषमाह — अर्थेनेति । अर्थशब्देन चतुथ्र्यन्तस्य नित्यसमास इति वक्तव्यम् । अन्यथा विभाषाधिकाराद्विकल्पः स्यात् । विशेष्यस्य प्रधानस्य यल्लिङ्गं तल्लिङ्गमित्यपि वक्तव्यम् । अन्यथा अर्थशब्दस्य नित्यं पुँल्लिङ्गत्वात्परवल्लिङ्ग॑मिति सर्वत्र पुँल्लिङ्गतैव स्यादित्यर्थः । अर्थशब्दोऽत्र वस्तुपरः ।अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु॑ इत्यमरः । इहोपकारकं वस्तु विवक्षितमित्यभिप्रेत्योदाहरति — द्विजार्थ इति । तत्र द्विजायाऽयमित्यस्वपदविग्रहः । तत्रा.ञर्थशब्दस्थानेऽयमिति शब्दः, नित्यसमासत्वेनाऽस्वपदविग्रहौचित्यात् । द्विजायेति तादथ्र्यचतुर्थी । तदन्तस्याऽर्थशब्देन समासो विशेष्यसूपशब्दस्य पुँल्लिङ्गत्वात्समासस्य पुँल्लिङ्गता च । द्विजस्यो कारकः सूप इत्यर्थः । द्विजार्थेति । द्विजायेयमिति विग्रहः । अर्थशब्दस्य नित्यपुँल्लिङ्गत्वेऽपिपरवल्लिङ्ग॑मिति पुँल्लिङ्गं बाधित्वाऽनेन विशेष्यलिङ्गानुसारेण स्त्रीलिङ्गता । द्विजार्थं पय इति । द्विजायेदमिति विग्रहः । अत्र विशेष्यलिङ्गानुसारान्नपुंसकत्वम् । भाष्ये तु चतुर्थ्यैव तादथ्र्यस्योक्तत्वात्उक्तार्थानामप्रयोगः॑ इति न्यायेनाऽर्थशब्देन विग्रहाऽप्रसक्तेर्नित्यसमासत्वं न्यायसिद्धमेव ।गुरोरिदं गुर्वर्थ॑मित्यादाविव लिङ्गमपि लोकत एव सिद्धमिति वार्तिकमिदं प्रत्याख्यातम् । भूतबलिरिति । भूतेभ्यो बलिरिति विग्रहः । तादथ्र्यचतुथ्र्यन्तस्य बलिशब्देन समासः । गोहितमिति । गोभ्यो हितमिति । विग्रहः । गवामनुकूलमित्यर्थः ।हितयोगे चे॑ति शेषषष्ठपवादश्चतुर्थी॑ । तदन्तस्य हितशब्देन समासः । गोरक्षितमिति ।तृणादिक॑मिति शेषः । गोभ्यो रक्षितमिति विग्रहः । तादथ्र्यचतुथ्र्यन्तस्य रक्षितशब्देन समासः ।
भक्ष्येण मिश्रीकरणम् - भक्ष्येण । खरं विशदमभ्यवहार्यं भक्ष्यम् । खरं =कठिनं विशदं=विविक्तावयवं खाद्यं भक्ष्यमित्यर्थः । यत्प्रत्ययान्तस्य एरन्तस्य च भक्षयतेस्तत्रैव प्रयोगात् ।अब्भक्ष॑ इत्यादिप्रयोगस्तु भक्ताः । गुडधाना इति । ननु धानानां प्रत्येकं विविभक्तावयवत्वाऽभावात्कथमेतदुदाहरणं सङ्गच्छत इति चेत् । मैवम् । भृष्टयवसमुदायस्य धानात्वात्समुदायं प्रति समुदायिनामवयवत्वाच्च तदुपपत्तेः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
भक्ष्येण मिश्रीकरणम् (383) (1259 आक्षेपवार्तिकम्।। 1 ।। अन्नेन व्यञ्ञ्जनं भक्ष्येण मिश्रीकरणमित्यसमर्थसमासः (कारकाणां क्रियासमर्थत्वात्) ।। (व्याख्याभाष्यम्) अन्नेन व्यञ्ञ्जनम् भक्ष्येण मिश्रीकरणम् इत्यसमर्थसमासोयं द्रष्टव्यः।। किं कारणम्?। कारकाणां क्रियासमर्थत्वात्। कारकाणां क्रियया सामर्थ्यमस्ति, न तेषामन्योन्येन। तद्यथा ‐ निश्रयण्या द्वाभ्यां काष्ठाभ्यां सामर्थ्यं न तेषामन्योन्येन ।। (एकदेशिसमाधानभाष्यम्) एवं तर्ह्याहायम् ‐ अन्नेन व्यञ्ञ्जनम् भक्ष्येण मिश्रीकरणम् इति। न चास्ति सामर्थ्यम्। तत्र वचनात्समासो भविष्यति।। (1260 समाधाननिराकरणवार्तिकम् ।। 2 ।।) ।। वचनप्रामाण्यादिति चेद् नानाकारकाणां प्रतिषेधः ।। (व्याक्याभाष्यम्) वचनप्रामाण्यादिति चेन्नानाकारकाणां प्रतिषेधो वक्तव्यः। तिष्ठतु दघ्ना ओदनो देवदत्तेन भुज्यत इति।। (1261न्यासान्तरेणसमाधानवार्तिकम् ।। 3 ।।) ।। सिद्धं तु समानाधिकरणाधिकारे क्तस्तृतीयापूर्वपद उत्तरपदलोपश्च।। (व्याख्याभाष्यम्) सिद्धमेतत्।। कथम्?। समानाधिकरणाधिकारे वक्तव्यम् ‐ क्तान्तस्तृतीयापूर्वपदः समस्यते सुपा, उत्तरपदस्य च लोपो भवति इति। दध्ना उपसिक्तः दध्युपसिक्तः। दध्युपसिक्तः ओदनो दध्योदनः। गुडेन संसृष्टाः-गुडसंसृष्टाः। गुडसंसृष्टा धानाः-गुडधानाः।। (1262 वार्तिकम् ।। 4 ।।) ।। षष्ठीसमासश्च युक्तपूर्णान्तः ।। (व्याख्याभाष्यम्) षष्ठीसमासश्च युक्तपूर्णान्तः समस्यते, उत्तरपदस्य च लोपो वक्तव्यः। अश्वानां युक्तोऽश्वयुक्तः अश्वयुक्तो रथोऽश्वरथः। दध्नः पूर्णो दधिपूर्णः दधिपूर्णो घटो दधिघटः।। (प्रत्याक्षेपभाष्यम्) तत्तर्हीदं बहु वक्तव्यम्?।। (1263 समाधानवार्तिकम् ।। 5 ।। ।। नवाऽसमासेऽदर्शनात् ।। (व्याख्याभाष्यम्) न वा वक्तव्यम्। किं कारणम्?।। असमासेऽदर्शनात्। यद्ध्यसमासे दृश्यते समासे च न दृश्यते तद्धि लोपारम्भं प्रयोजयति। न चासमासे उपसिक्तशब्दः संसृष्टशब्दो युक्तशब्दः पूर्णशब्दो वा दृश्यते।। (वार्तिकावतरणभाष्यम्) कथं तर्हि सामर्थ्यं गम्यते?।। (1264 समाधानसाधकवार्तिकम् ।। 6 ।। ।। युक्तार्थसंप्रत्ययाच्च सामर्थ्यम् ।। (व्याख्याभाष्यम्) दध्ना युक्तार्थता संप्रतीयते।। (वार्तिकावतरणभाष्यम्) कथं पुनर्ज्ञायते ‐ दध्ना युक्तार्थता संप्रतीयत इति?।। (1265 समाधानसाधकवार्तिकम् ।। 7 ।।) ।। संप्रत्ययाच्च तदर्थाध्यवसानम् (संप्रतीयमानार्थलोपे ह्यनवस्था ।।) (व्याख्याभाष्यम्) संप्रत्ययाच्च तदर्थोध्यवसीयते।। अवश्यं चैतदेवं विज्ञेयम्। संप्रतीयमानार्थलोपे ह्यनवस्था।। यो हि मन्यते संप्रतीयमानार्थानां शब्दानां लोपो भवतीति। अनवस्था तस्य लोपस्य स्यात्। दधीत्युक्ते बहवोर्था गम्यन्ते मन्दकमुत्तरकं निलीनकमिति। तद्वाचिनां शब्दानां लोपो वक्तव्यः स्यात्। तथा गुड इत्युक्ते मधुरशब्दस्य, शृङ्गवेरमिति च कटुकशब्दस्य। अन्तरेणापि खलु शब्दप्रयोगं बहवोऽर्था गम्यन्तेक्षिनिकोचैः पाणिविहारैश्च। तद्वाचिनां शब्दानां लोपो वक्तव्यः स्यात्।। अन्नेन।। 33 ।। भक्ष्येण ।। 34 ।।