॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|1|26
SK 688
2|1|26
खट्वा क्षेपे   🔊
SK 688
सूत्रच्छेद:
खट्वा - प्रथमैकवचनम् , क्षेपे - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11] , तत्पुरुष:  [2|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
खट्वाशब्दो द्वितीयान्तः क्तान्तेन सह क्षेपे गम्यमाने समस्यते, तत्पुरुषश्च समासो भवति। क्षेपो निन्दा, स च समासार्थ एव, तेन विभाषा ऽधिकारे ऽपि नित्यसमास एव अयम्। न हि वक्येन क्षेपो गम्यते। खट्वारोहणं च इह विमार्गप्रस्थानस्य उपलक्षनम्। सर्व एव अविनीतः खट्वारूढः इत्युच्यते। खट्वारुढो जाल्मः। खट्वाप्लुतः। अपथप्रस्थितः इत्यर्थः। क्षेपे इति किम्? खट्वामारूढः।
`स च` इत्यादि। एवकारेण वाक्यार्थतां क्षेपस्य निरस्यति। स्यादेतत्-- वाक्यार्थोऽपि क्षेपः; तेन वाक्यमपि भविष्यतीत्याह-- `न हि` इत्यादि। वाक्येन हि क्रियाकारकसम्बन्धमात्रं गम्यते, न तु क्षेपः। `खट्वारोहणञ्च` इत्यादि। विरुद्धो मार्गः = विमार्गः,तेन प्रस्थानम् = गमनम्। अधीत्य स्नात्वा गुरुणाभ्यनुज्ञातेन खट्वाऽरोढव्या। यत्त्वन्यथा खट्वारोहणं तद्विमार्गप्रस्थनम्। न तु खट्वारोहणमेव। इह च `खट्वारूढः` इत्यादौ खट्वारोहणं विमार्गप्रस्थानस्योपलक्षणं वेदितव्यम्। किं पुनः कारणमेव विज्ञायत इत्याह-- `सर्व एव` इत्यादि। आरूढ इत्याङपूर्वस्य रुहेः क्तप्रत्यये ढत्वधत्वष्टुत्वढलोपदीर्घेषु कृतेषु रूपम्। जाल्म इत्ययुक्तकारीत्यर्थः।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
खट्वाप्रकृतिकं द्वितीयान्तं क्तान्तप्रकृतिकेन सुबन्तेन समस्यते निन्दायाम् । खट्वारूढो जाल्मः । नित्यसमासोऽयम् । नहि वाक्येन निन्दा गम्यते ॥
खट्वा क्षेपे - खट्वा क्षेपे । क्तेनेत्यनुवर्तते । प्रत्ययग्रहणात्तदन्तविधिः । क्षेपो निन्दा । द्वितीयेति सुपेति चानुवर्तते । तदुभयमपि प्रत्ययग्रहणपरिभाषया तदन्तपरं सत्प्रकृतिप्रत्ययसमुदायपरम् । खट्वाशब्दस्य क्तान्तशब्दस्य च सुब्घटितसमुदायात्मकत्वाऽसंभवादत्र खट्वाशब्दः क्तप्रत्ययान्तशब्दश्च तत्प्रकृतिके लाक्षणिक इत्याह-खट्वाप्रकृतिकमिति । खट्वारूढौ जाल्म इति ।जाल्मोऽसमीक्ष्यकारी॑त्यमरः । खट्वा अम्-आरूढ स् इत्यलौकिकविग्रहः । लौकिकविग्रहस्तु नास्तीत्याह-नित्यसमासोऽयमिति । तत्कुत इत्य आह — न हि वाक्येनेति । वृत्त्यर्थबोधकं वाक्यं-लौकिकविग्रहः । तत्र खट्वामारूढ इति वाक्यं हि गृहस्थाश्रमिणि निन्दां न गमयति । "खट्वा रूढ" इति समासस्तु रूढआ निन्दां गमयति । तथाच भाष्यम् — ॒अधीत्य रुआआत्वा गुर्वनुज्ञातेन खट्वा आरोढव्या । यस्तावदन्यथा करोति सखट्वारूढोऽयं जाल्म॑इत्युच्यते॑ इति । अत्र "जाल्य" इत्यनेनोद्वृत्तेऽयं शब्दो रूढः अवयवार्थे तु नाभिनिवेष्टव्यमिति सूचितम् ।
खट्वा क्षेपे - खट्वारूढ इति ।जाल्मोऽसमीक्ष्यकारी स्यात् इत्यमरः । वेदं व्रतानि च समाप्य समावृत्तेन हि खट्वारोढव्या । ब्राहृचर्य एव भूमिशयमार्होऽपि यः खट्वामारोहति स जाल्मः । रूढश्चायम् । तेन खट्वामारोहतु मा त ।]वा, निषिद्धानुष्ठानपरः सर्वोऽपि खट्वारूढ इत्युच्यते । अत एवाह — नित्येति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
खट्वा क्षेपे (374) (238 तत्पुरुषसंज्ञासूत्रम् ।। 2.1.2 आ.17 सू.) (उदाहरणनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) किमुदाहरणम्?।। (समाधानभाष्यम्।) खट्वारूढ: (आक्षेपभाष्यम्) क्षेप इत्युच्यते। कः क्षेपो नाम?।। (समाधानभाष्यम्) अधीत्य स्नात्वा गुरुभिरनुज्ञातेन खट्वारोढव्या। य इदानीमतोन्यथा करोति स उच्यते खट्वारूढोयं जाल्मो नातिव्रतवान्।। खट्वा क्षेपे ।। 25 ।।