॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|1|23
SK 685
2|1|23
द्विगुश्च   🔊
SK 685
सूत्रच्छेद:
द्विगुः - प्रथमैकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11] , तत्पुरुष:  [2|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
द्विगुश्च समासः तत्पुरुशसज्ज्ञो भवति। द्विगोस् तत्पुरुशत्वे समासान्ताः प्रयोजनम्। पञ्चराजम्। दशराजम्। द्व्यहः। त्र्यहः। पङ्चगवम्। दशगवम्।
`समासान्ताः प्रयोजनम्` इति। `तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः` 5|4|86 इत्यतस्तत्पुरुष इत्यनुवत्र्तमाने `राजाहःसखिभ्यष्टच्` 5|4|91 `गोरतद्धितलुकि` 5|4|92 इति च द्विगोरपि यथा स्यात्। `पञ्चराजी` इति। पञ्चानां राज्ञां समाहार इति `तद्धितार्थोत्तरपदसमाहारे च` 2|1|50 इति समासः। `संख्यापूर्वो द्विगुः` 2|1|51 इति द्विगुसंज्ञा, टच्, `नस्तद्धिते` 6|4|144 इति टिलोपः `अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते` (वा।156) इति स्त्रीलिङ्गता, `द्विगोः` 4|1|21 इति ङीप्। `द्वह्रहः, त्र्यहः` इति। `अह्नष्टखोरेव` 6|4|145 इति टिलोप), `रात्रह्नाहाः पुंसि` 2|4|29 इति पुंस्त्वम्। `पञ्चगवम्` इति। `स नपुंसकम्` 2|4|17 इति नपुंसकत्वम्। सत्यप्यकारान्तत्वे स्त्रीत्वं न भवति; `पात्रादीनां प्रतिषेधो वक्तव्यः` (वा।1.5.9) इति वचनात्॥
समासान्ता इति। यद्यपि ठ्राजाहःसखिभ्यष्टच्ऽ ठ्तत्पुरुषस्यांगुलेः संख्याव्ययादेःऽ इति टजचौ तत्पुरुषनिबन्धनौ, तथापि प्रकृतिभेदाद्भेदविवक्षयां वहुवचनम्। पञ्चराजमिति। उकतरपदस्यानकारान्तत्वात्स्त्रीत्वाभावः। समासार्थोतरपदस्यान्ताः समासान्ता इति तु पक्षे पात्रादित्वात्। क्वचत् पञ्चराजीति स्त्रील्ङ्गस्य पाठः, स भाष्यविरोधादपपाठः। द्व्यह इति। 1ठह्नष्टखोरेवऽ इति टिलोपः, ठ्रात्राह्नाहाः पुंसिऽ। पञ्चगवमिति। ठ्गोरतध्दितलुकिऽ इति टच्, पूर्ववत्स्त्रीत्वाभावः॥
सिद्धान्तकौमुदी
द्विगुरपि तत्पुरुषसंज्ञः स्यात् । इदं सूत्रं त्यक्तुं शक्यम् । संख्यापूर्वो द्विगुश्चेति पठित्वा चकारबलेन संज्ञाद्वयसमावेशस्य सुवचत्वात् । समासान्तः प्रयोजनम् । पञ्चराजम् ॥
द्विगुश्च - द्विगुश्च । द्विगुरपीति ।तद्धितार्थोत्तरपदसमाहारे च॑ इति वक्ष्यमाणसमासस्यसंख्यापूर्वो द्विगु॑रिति द्विगुसंज्ञा विधास्यते । स द्विगुसमासोऽपि तत्पुरुषसंज्ञक इति यावत् । एतत्सूत्राऽभावे एकसंज्ञाधिकाराद्द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेति भावः । इदमिति ।द्विगुश्चे॑त्येतदित्यर्थः । तर्हि द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेत्यत आह — संख्येति ।संख्यापूर्वोद्विगु॑रिति द्विगुसंज्ञाविधायकं सूत्रम् । तत्र चकारः पठनीयः । ततश्च संख्यापूर्वसमासो द्विगुसंज्ञकस्तत्पुरुषसंज्ञकश्च स्यादिति लभ्यते । एवञ्च चकारेण लघुना तत्पुरुषसंज्ञासमुच्चयलाभा॒द्द्विगुश्चे॑ति गुरुभूतं सूत्रं न कर्तव्यमित्यर्थः । ननु मास्तु द्विगोस्तत्पुरुषत्वमित्यत आह — समासान्तः प्रयोजनमिति । तदुदाह्मत्य दर्शयति - पञ्चराजमिति । पञ्चानां राज्ञां समाहार इति विग्रहेतद्धितार्थे॑ति द्विगुः । तस्य तत्पुरुषत्वाद्राजाहःसखिभ्यष्टजि॑ति टच् ।स नपुंसक॑मिति नपुंसकत्वम् ।अकारान्तोत्तरपदो द्विगुः स्त्रिया॑मिति तु न भवति, समासान्तस्य टचः समुदायावयवत्वेन उत्तरपदावयवत्वाऽभावात् । न चसंख्यापूर्वोद्विगुश्चे॑ति पाठे द्विगुतत्पुरुषसंज्ञयोः पर्यायेण प्रवृत्तिः स्यात्, अतः समुच्चयार्थंद्विगुश्चे॑ति पृथक्सूत्रमस्त्विति वाच्यम्, "सङ्ख्यापूर्व" इति,द्विगु॑रिति च योगौ विभज्य पूर्वेण सङ्ख्यापूर्वस्य तत्पुरुषसंज्ञाविधिः, द्विगुरित्यनेन द्विगुसंज्ञाविदिरित्याश्रयणे सति, चकारमन्तरेणापि पर्यायेण प्रवृत्तिसिद्ध्या चकारस्य समुच्चयार्थत्वोपपत्तेः ।
द्विगुश्च - चकारबलेन संज्ञाद्वयसमावेशस्येति । न चैवं द्विगुतत्पुरुषयोः पर्यायता स्यादिति शङ्क्यम् । योगं विभज्य संख्यापूर्स्य तत्पुरुषसंज्ञां विधाय पश्चद्द्विगुसंज्ञाविधाने चकारपठनमन्तरेणापि पर्यायत्वसिद्धेः । नापि द्वौ अन्यौ यस्यद्य्वन्य॑ इत्यत्रातिप्रसङ्गः शङ्क्यः,तद्धितार्थोत्तरपदे॑ति सूत्रमनुवर्त्त्यतद्धितार्थेत्यत्रोक्तस्त्रिविधः सङ्ख्यापूर्व॑ इति व्याख्यानात् । द्विगोस्तत्पुरुषत्वे फलमाह — -समासान्त इति । टजचावित्यर्थः । अचि तूदाहरणं — ॒तत्पुरुषत]स्याङ्गुले॑रित्यचि व्द्यङ्गुलमिति बोध्यम् । पञ्चराजमिति । समाहारद्विगौराजहःसखिभ्यः॑इति टच् । समास स्यैवायमन्तावयव इति उत्तरपदस्याऽनकारान्तत्वात् स्त्रीत्वाऽभावः ।समासार्थोत्त्रपदान्ताः समासान्ता॑ इति पक्षे तु अकारान्तोत्तरपदत्वेऽपि पात्रादित्वान्नेति बोध्यम् । काशिकायां तु पञ्चराजीत्युदाह्मतम् । स क्वाचित्कोऽपपाठ इति हरद्त्तः । अत्र केचित् — पात्रादित्वकल्पने मानाऽभावात्पञ्चराजीति काशिकोक्तोदाहरणमपि सम्यगेवेत्याहुः ।
लघुसिद्धान्तकौमुदी
द्विगुरपि तत्पुरुषसंज्ञकः स्यात्॥
महाभाष्यम्
द्विगुश्च (371) (अथ तत्पुरुषप्रकरणम्) (236 द्विगोस्तत्पुरुषसंज्ञासूत्रम् ।। 2।1।2 आ.15 सू.) (आक्षेपभाष्यम्) द्विगोस्तत्पुरुषत्वे कानि प्रयोजनानि?।। (1245 समाधानवार्तिकम् ।। 1 ।।) ।। द्विगोस्तत्पुरुषत्वे समासान्ताः प्रयोजनम् ।। (व्याख्याभाष्यम्) द्विगोस्तत्पुरुषत्वे समासान्ताः प्रयोजयन्ति ‐ पञ्चगवं दशगवं पञ्चराजं दशराजम्।। द्विगुश्च ।। 22 ।।