॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|1|20
SK 674
2|1|20
नदीभिश्च   🔊
SK 674
सूत्रच्छेद:
नदीभिः - तृतीयैकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11] , अव्ययीभाव:  [2|1|5]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
सङ्ख्या इत्यनुवर्तते। नदीवचनैः शब्दैः सह सङ्ख्या समस्यते, अव्ययीभावश्च समासो भवति। समाहारे च अयम् इष्यते। सप्तगङ्गम्। द्वियमुनम्। पञ्चनदम्। सप्तगोदावरम्।
चकारेण `संख्या` इत्यनुकृष्यते। बहुवचननिर्देशेनार्थस्येदं ग्रहणम्, न स्वरूपस्य, नापि संज्ञायाः, तेन सर्वैर्नदीवाचिभिः समासो विज्ञायत इत्याह-- `नदीवचनैः` इत्यादि। `समाहारे चायमिष्यते` इति। चकारोऽवधारणे -- समाहार एव नान्यत्रेति। यद्येवम्, समाहारग्रहणमं कत्र्तव्यम्? न कत्र्तव्यम्, यत एव हेतोरक्षादीनां परिणा सह कितवव्यवहार एव समासो भवति, ततएव हेतोरयमपि समाहार एव भविष्यति- सप्त गङ्गाः समाह्मताः सप्तगग्ङमिति। पूर्ववद् ह्यस्वः। अन्यपदार्थे तु न भवति-- द्वीरावतीको देश इति। `पञ्चनवम्, सप्तगोदावरम्िति।कृष्णोदकपाण्डुपूर्वाया भूमेरच्प्रत्ययः स्मृतः।गोदावर्याश्च नद्याश्च संख्याया उत्तरे यदि॥इति वचनादच् समासान्तः॥
नदीवचनैः शब्दैरिति। नदीभिरिति बहुवचननिर्देशात्स्वरूपस्य संज्ञा नद्याश्च ग्रहणमिति भावः। समाहारे चायमिष्यत इति। अन्यथा पुरस्तादपवादन्यायेन ठ्पूर्वकालैकऽ इत्यस्यायं बाधकः स्यात्। समाहारे तु परत्वाद् द्विगुहेव स्यात्, ततश्चैकनदीत्यत्राव्ययीभावे सति तन्निबन्धनः ठ्नदीपौर्णमास्याग्रहायणीभ्यःऽ इति टच् प्राप्नोति नपुंसकत्वं च, न ह्यत्र विशेषवाचिनामेव ग्रहणमिति प्रमाणमस्ति। यस्तु ठ्गोदावर्याश्च नद्यश्चऽ इत्यच् समासान्तः, स पञ्चनदमित्यादावव्ययीभाव एव भवति, एकनदीत्यत्र तत्पुरुषे न भवति। समाहारविवक्षायां च एकापूपीवदेकनदमित्यपि भवति। तथान्यपदार्थेऽप्यव्ययीभावः स्याद् द्वीरावतीको देश इति। न चात्र परत्वाद्वहुव्रीहिः; अशेषत्वात्, न ह्यसति समाहारग्रणेऽयं शेषो भवति। तस्मात्सुष्ठूअक्तम् - समाहरे चायमिष्यत इति। एतच्चाभिधानस्वाभाव्याल्लभ्यते॥
सिद्धान्तकौमुदी
नदीभिः सह सङ्ख्या प्राग्वत् ॥ ।समाहारे चायमिष्यते (वार्तिकम्) ॥ सप्तगङ्गम् । द्वियमुनम् ॥
नदीभिश्च - नदीभिश्च । प्राग्वदिति । नदीभिः संख्या समस्यते सोऽव्ययीभाव इत्यर्थः । समाहारे चेति — वार्त्तिकम् । चकार एवार्थे । भाष्ये चकारविहीनस्यैव पाठात् । सप्तगङ्गमिति । सप्तानां गङ्गानां समाहार इति विग्रहेतद्धितार्थोत्तरपदसमाहारे चे॑ति द्विगुसमासं बाधित्वाऽव्ययीभावसमासः । द्वियमुनमिति । द्वयोर्यमुनयो समाहार इति विग्रहः । अत्र नदीशब्देन नदीशब्दविशेषस्य, नदीवाचकानां च ग्रहणमिति संख्यासंज्ञासूत्रे भाष्ये स्पष्टम् । तेन पञ्चनदं सप्तगोदावरमित्यादि सिध्यति ।
नदीभिश्च - नदीभिश्च । स्वरूपस्य संज्ञायाश्च नेह ग्रहणं, बहुवचननिर्देशात्, किं त्वर्थस्य । नच तस्य समासः संभवति, अतस्तद्वाचिनामयं समासः, ते च न केवलं विशेषशब्दा एव किंतु सामान्यशब्दोऽपि । तेन पञ्चनदं सप्तगोदावरमिति सिद्धम् ।गोदावर्याश्च नद्याश्चे॑ति वक्ष्यमाणेन समासान्तोऽच् । चकारेण सङ्ख्येत्यनुकृष्यत इत्याह — -संख्येति । स्यादेतत् — पुरस्तादपवादन्यायेनपूर्वकालैके॑त्यस्यैवेदं बाधकं स्यात्, ततश्चैवनदीत्यत्राव्ययोभावे तन्निबन्धनस्यनदीपौर्णमास्ये॑ति टचः प्रसङ्गः, समाहारे तु परत्वाद्द्विगुरेव स्यादित्यत आह — ।समाहारे चायमिष्यते । समाहारे चायमिति । एवकारार्थश्चाकारः । एवं च द्विगोरपवादोऽमव्ययीभाव इति फलितम् ।
लघुसिद्धान्तकौमुदी
नदीभिः सह संख्या समस्यते। (समाहारे चायमिष्यते)। पञ्चगङ्गम्। द्वियमुनम्॥
महाभाष्यम्
नदीभिश्च (368) (235 अव्ययीभावसंज्ञासूत्रम् ।। 2। 1। 2। आ.14 सू.) (समाहारमात्रविषयकत्वाधिकरणम्) (1244 वार्तिकम् ।। 1 ।।) ।। नदीभिः संख्यासमासेऽन्यपदार्थे प्रतिषेधः ।। (व्याख्याभाष्यम्) नदीभिः संख्यासमासेऽन्यपदार्थे प्रतिषेधो वक्तव्यः। द्वीरावतीको देशः। त्रीरावतीको देशः। नदीभिः संख्या इति प्राप्नोति।। (वार्तिकप्रत्याख्यानभाष्यम्) न वक्तव्यः। इह कश्चित्समासः पूर्वपदार्थप्रधानः। कश्चिदुत्तरपदार्थप्रधानः। कश्चिदन्यपदार्थप्रधानः। कश्चिदुभयपदार्थप्रधानः। पूर्वपदार्थप्रधानोऽव्यीभावः। उत्तरपदार्थप्रधानस्तत्पुरुषः। अन्यपदार्थप्रधानो बहुव्रीहिः। उभयपदार्थप्रधानो द्वन्द्वः। न चात्र पूर्वपदार्थप्राधान्यं गम्यते।। (आक्षेपभाष्यम्) ननु च यद्येनोच्यते स तस्यार्थो भवति। अत्र च वयमेताभ्यां पदाभ्यामेतमर्थमुच्यमानं पश्यामः।। (आक्षेपबाधकभाष्यम्) एतदेव न जानीमः ‐ यद्येनोच्यते स तस्यार्थ इति।। अपि चान्यपदार्थप्रधानता न कल्पेत ‐ चित्रगुः शबलगुः इति। किं कारणम्?। अत्रापि हि वयमेताभ्यां शब्दाभ्यामेतमर्थमुच्यमानं पश्यामः।। (आक्षेपसाधकभाष्यम्) यद्यप्येताभ्यां पदाभ्यामेषोर्थ उच्यते, अन्यपदार्थोपि तु गम्यते। तत्रान्यपदार्थाश्रयो बहुव्रीहिर्भविष्यति।। इहापि तर्हि यद्यप्यन्यपदार्थो गम्यते, स्वपदार्थोपि गम्यते। तत्र स्वपदाश्रयोऽव्ययीभावः प्राप्नोति।। (समाधानभाष्यम्) एवं तर्हीदमिह संप्रधार्यम् ‐ अव्ययीभावः क्रियतां बहुव्रीहिरिति। बहुव्रीहिर्भविष्यति विप्रतिषेधेन।। (पूर्वपक्षिभाष्यम्) भवेदेकसंज्ञाधिकारे सिद्धम्, परंकार्यत्वे तु न सिद्ध्यति। आरम्भसार्मथ्यादव्ययीभावः प्राप्नोति, परंकार्यत्वाच्च बहुव्रीहिः ।। (सिद्धान्तिभाष्यम्) परंकार्यत्वे च न दोषः। नदीभिः संख्यायाः समाहारेऽव्ययीभावो वक्तव्यः। स चावश्यं वक्तव्यः। सर्वमेकनदीतरे।। नदीभिश्च ।। 19 ।।