॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|1|17
SK 671
2|1|17
तिष्ठद्गुप्रभृतीनि च   🔊
SK 671
सूत्रच्छेद:
तिष्ठद्गुप्रभृतीनि - प्रथमाबहुवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11] , अव्ययीभाव:  [2|1|5]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
तिष्ठद्ग्वादयः समुदाया एव निपात्यन्ते। तिष्ठद्गुप्रभृतीनि शब्दरूपाणि अव्ययीभावसंज्ञानि भवन्ति। तिष्ठद्गु कालविशेषः। तिष्ठन्ति गावो यस्मिन् काले दोहनाय स तिष्ठद्गु कालः। खलेयवादीनि प्रथमानतानि विभक्त्यनतरेन्ण न एव सम्बध्यन्ते ऽन्यपदार्थे च काले वर्तन्ते। चकारो ऽवधारणार्थः। अपरः समासो न भवति, परमतिष्ठद्गु इति। तिष्ठद्गु। वहद्गु। आयतीगवम्। खलेबुसम्। खलेयवम्। लूनयवम्। लूयमानयवम्। पूतयवम्। पूयमानयवम्। संहृतयवम्। संह्रियमाणायवम्। संहृतबुसम्। संह्रियमाणाबुसम्। एते कालशब्दाः। समभूमि। समपदाति। सुषमम्। विषमम्। निष्षमम्। दुष्षमम्। अपरसमम्। आयतीसमम् ःप्राह्णम्। प्ररथम्। प्रमऋगम्। प्रदक्षिणम्। अपरदक्षिणम्। संप्रति। असंप्रति। पापसमम्। पुण्यसमम्। इच् कर्मव्यतिहारे 5|4|127 दण्डादण्डि। मुसलामुसलि।
तिष्ठद्गुप्रभृतीनां गणपाठादेव कृतसाधुत्वानामिह प्रकरणे सङ्कीर्तनमव्ययीभावसंज्ञार्थम्; न तु सुबन्तेन समासार्थम्। अत एवाह-- `समुदाया एव निपात्यन्ते` इति। तथाभूतानां पाठ एवैषां निपातनम्। `अव्ययीभावसंज्ञकानि भवन्ति` इति। अनेन संज्ञामातर्#ं विधीयते, न त्वेषां सुबन्तेन समास इति दर्शयति।`तिष्ठद्गु, बहद्गु`इति। पूर्वपदस्य शत्रादेशो निपात्यते। `गोस्तरियोरुपसर्जनस्य` 1|2|48 इति ह्यस्वः। तिष्ठन्ति गावो यस्मिन्न काले स तिष्ठद्गु कालः। वहन्ति गावो यस्मिन् काले स बहद्गु कालः। `चकारोऽवधारणार्थः` असति तस्मिन् परमतिष्ठद्ग्विति `सन्महत्` 2|1|60 इत्यादिना परमशब्देन समासः स्यात्। अवधारणार्थे तु तस्मिन् तिष्ठद्गुप्रभृतीनीत्येवम्भूतान्येवावतिष्ठते। `आयतीगवम्` इति। पुंवद्भावाभावः समासान्तश्च भवति। आयत्यो गवो यस्मिन् काले स आयतीगवम्। `खलेयवम्; खलेबुसम्` इति। सप्तम्या अलग् निपात्यते। `लूयमानयवम्` इति। शानज् निपात्यते। तथा `पूयमानयवम्` इत्यत्रापि। `एते कालशब्दाः` इति। तिष्ठद्गुप्रभृतयः संस्क्रियमाणबुसपर्यन्ताः।`समभूमि, समपदाति` इति। समत्वं भूमेः, समत्वं पदातेरिति पूर्वपदार्थप्राधान्येऽव्ययीभावः। उत्तरपदार्थप्राधान्यविवक्षायान्तु समपदातिः समभूमिरिति विशेषणसमासस्तत्पुरुषो भवति। अन्ये मकारान्तं समशब्दं पठन्ति-- समम्भूमि, समम्पदाति` इति। ` सुषमम्, विषमम्, दुःषमम्परसमम्` इति। समशब्देनेति। सुषमादयश्चैते। सुषमादयश्चैते पूर्वपदार्थप्राधान्ये समासाः। अत्र शोभनत्वं समस्येत्येवमादि वाक्यं द्रष्टव्यम्। उत्तरपदार्थप्राधान्ये तु प्रादिसमासो विशेषणसमासश्च यथथायोगं कत्र्तव्यः। `आयतीसमम्` इति। समाशब्दः संवत्सरवाची, तेन समासः- आयती समं आयतीसमम्। एवं पापा समा पापसमम्। पुण्या समा पुष्यसमम्। अन्ये तु तृतीयासमासं वर्णयन्ति-- आयत्या समं आयतीसममिति; एवमन्यत्रापि। प्रगतत्वमह्नः प्राह्णम्। अयमपि पूर्वपदार्थप्रधानः। उत्तरपदार्थप्राधान्ये तु तत्पुरुष एव भवति-- प्राह्णे कल्याणनामानावेतौ तिष्यपुनर्वसू इति। एवं `प्ररथम्` `प्रदक्षिणम्` `प्रमृगम्` , `अपरदक्षिणम्` , `सम्प्रति`, `असम्प्रति`। `इच् कर्मव्यतीहारे` 5|4|127 इतीचोऽव्ययीभावत्वे प्रयोजनमव्ययसंज्ञा, नपुंसकत्वञ्च। दण्डैश्च दण्डैश्च प्रह्मत्येदं युद्धं वृत्तिमित#इ। `तत्र तेनेदमिति सरूपे`(2।2।क27) इति समासः, `इच् कर्मव्यतीहारे` 5|4|127 इतीच् समासान्तः-- `अन्येषामपि दृश्यते` 6|3|136 इति दीर्घः, `दण्डादण्डि` इति॥
समुदाया एव निपात्यन्त इति । गणे तथा पाठ एव तेषां निपातनम्। तेन शतृशानजाद्यपि भवति। ठ्सुपो धातुप्रातिपदिकयोःऽ इति च प्रक्रियाकार्यं न कर्तव्यमिति भावः। अव्ययीभावसंज्ञानि भवन्तीति। समाससंज्ञापि विधेया, अन्तोदातत्वं च । प्रातिपदकसंज्ञा च यथा स्यादिति। तिष्ठद्गु कालविशेष इति। कालविशेष इत्येतदुतरैरपि सम्बध्यते, अत एवान्ते वक्ष्यति-ठेते कालशब्दाःऽ इति, एतावान्कालविशेष इत्यस्याधिकार इत्यर्थः। विभक्त्यन्तरेण न समाबध्यन्ते इति। अव्यतिरिक्त एव प्रातिपदिकार्थे प्रयोग एषां कर्तव्यः, नान्यत्रेत्यर्थः। अन्यपदार्थे च वर्तन्त इति। तिष्ठद्गु, वहद्गु, आयतीगवमित्येतैरप्यस्य सम्बन्धः; अन्यथा कालशब्दत्वायोगात्। चकारोऽवधारणार्थ इति। अनेकार्थत्वान्निपातानाम्। अपरः समासो न भवतीति। वृत्यन्तरं न भवतीत्यर्थः। ठातिष्ठद्गुजपन्सध्याम्ऽ इति तु पञ्चम्या ठव्ययात्ऽ इति लुक्, न समासः। तिष्ठद्गु, वहद्ग्विति। लटः शत्रादेशो निपातनात्, ठ्गोस्त्रियोःऽ इति ह्रस्वः। आयतीवगमित्यत्र तु पुंवद्भावाभावः शत्रादेशयः समासन्तश्च। खलेयवं खलेबुसमिति सप्तम्या अलुक्। लूयमानयवादिषु शानजादेशः। समभूमि, समपदातीति॥ समत्वं भूमएरिति पूर्वपदार्थप्राधान्येऽव्ययीभावः। कचित् समंभूमि समंपदातीति पाठः, तत्र पूर्वपदस्य मुमागमः। अन्ये तु संभूमि संपदातीति पठन्ति, तत्र समस्यान्तलोपः, संशब्दस्य वा समासः। सुषामादौ शोभनत्वं समस्य विगतत्वं दुष्टत्वं निर्गतत्वमपगतत्वं समस्येति। विग्रहः। आयतोसमा आयतीसमम्, शत्रादेशः, पूर्ववत् पुंवद्भावश्च । समा उ संवत्सरः। एवं पापसमं पुण्यसममिति। प्राह्वादिषु चतुर्षु प्रगतत्वमह्न इत्यादिविग्रहः। सङ्गतं प्रतिगतमस्य सम्प्रति। विपरीतम् असम्प्रति। इच् कर्मव्यतीहार इति। अयमेव द्विदण्ड।लदिष्वपि विधीयत इति तत्राप्यव्ययीभावः। दण्डादण्डीति। दण्डेश्च दण्ड्èअश्च प्रहृत्येदं युध्दं प्रवृतम्, ठ्तत्र तेनेदमिति सरूपेऽ इति बहुव्रीहिः। ठन्येषामपि दृश्यतेऽ इति पूर्वपदस्य दीर्घः। इच अव्ययीभावत्वेनाव्ययत्वात्सुपो लुक्॥
सिद्धान्तकौमुदी
एतानि निपात्यन्ते । तिष्ठन्त्यो गावो यस्मिन् काले स तिष्ठद्गुः दोहनकालः । आयतीगवम् इत्यादि । इह शत्रादेशः पुंवद्भावविरहः समासान्तश्च निपात्यते ॥
तिष्ठद्गुप्रभृतीनि च - तिष्ठद्गुप्रभृतीनि च । एतानीति शब्दरूपाणीत्यर्थः । तिष्ठन्ति गाव इति । फलितार्थकथनम् । तिष्ठन्त्यो गावो यस्मिन् काले स तिष्ठद्गुः इत्येव वक्तव्यम्, "सुप्सुपः" इत्यनुवृत्तेः । दोहनकाल इति । तदा गवां शयनोपवेशनयोरभावादिति भावः । आयतीगवमिति । आयत्यो गावो यस्मिन् काले इति विग्रहः । इहेति । उदाहरणद्वये इत्यर्थः । शत्रादेश इति । "तिष्ठन्त्यो गाव" इति "आयत्यो गाव" इति च प्रथमासमानाधिकरणत्वात् "लटश्शतृशानचौ" इत्यस्याऽप्राप्तौ तन्निपातनमिति भावः । पुंवद्भावेति । तिष्ठन्तीशब्दस्येव आयतीशब्दस्यापि "स्त्रियाः पुंवत्" इति पुंवत्त्वस्य प्राप्तौ तदभावो निपात्यते इति भावः । समासान्तश्चेति । आयतीगोशब्दस्य टच् समासान्तो निपात्यते, तत्पुरुष एव गोशब्दस्य टज्विधेरिति भावः ।समासान्तश्चे॑ति चकारादव्ययीभावश्च निपात्यते इति ज्ञेयम् । तथा च तिष्ठद्गोशब्दस्य नपुंसकह्यस्वत्वम् । अव्ययत्वात् सुपो लुक् । औगतीगवशब्दात्तु "नाव्ययीभावात्" इत्यम्भाव इत्यादि फलति । इत्यादीति । खलेयवं खलेबुसमिति सप्तम्या अलुगिति -आदिपदग्राह्रम् ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
तिष्ठद्गुप्रभृतीनि च (265) (233 अव्ययीभावसंज्ञासूत्रम् ।। 2।1।2 आ.12 सू.) (चकारप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थश्चकारः ?।। (समाधानभाष्यम्) एवकारार्थः ‐ तिष्ठद्गुप्रभृतीन्येव ।। क्व मा भूत?। परमं तिष्ठद्गु।। (अर्थविशेषनियमाधिकरणम्) (1240 वार्तिकम् ।। 1 ।।) ।। तिष्ठद्गु कालविशेषे ।। (व्याख्याभाष्यम्) तिष्ठद्गु कालविशेष इति वक्तव्यम्। तिष्ठन्ति गावोऽस्मिन्काले स तिष्ठद्गु। वहद्गु।। (1241 वार्तिकम् ।। 2 ।।) ।। खलेयवादीनि प्रथमान्तान्यन्यपदार्थे।। (व्याख्याभाष्यम्) खलेयवादीनि प्रथमान्तान्यन्यपदार्थे समस्यन्त इति वक्तव्यम्। खलेयवम्। खलेबुसम्। लूनयवम्। पूनयवम्। पूयमानयवम्।। तिष्ठद्गुप्रभृतीनि च ।। 16 ।।