॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|1|1
SK 647
2|1|1
समर्थः पदविधिः   🔊
SK 647
सूत्रच्छेद:
समर्थः - प्रथमैकवचनम् , पदविधिः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
परिभाषेयम्। यः कश्चिदिह शास्त्रे पदविधिः श्रूयते स समर्थो विदितव्यः। विधीयते इति विधिः। पदानां विधिः पदविधिः। स पुनः समासादिः। समर्थः शक्तः। विग्रहवाक्यार्थभिधाने यः शक्तः स समर्थो विधितव्यः। अथ वा समर्थपदाश्रयत्वात् समर्थः। समर्थनां पदानां सम्बद्धार्थानां संसृष्टार्थानां विधिर्वेदितव्यः। वक्ष्यति, द्वितीया श्रितातीतपतितगतात्यस्तप्राप्ताऽपन्नैः 2|1|24 कष्टं श्रितः कष्टश्रितः। समर्थग्रहणं किम्? पश्य देवदत्त कष्टं, श्रितो विष्णुमित्रो गुरुकुलम्। तृतीया तत्कृतार्थेन गुणवचनेन 2|1|30 शङ्कुलया खण्डः शङ्कुलाखण्डः। समर्थग्रहणं किम्? किं त्वं करिष्यसि शङ्कुलया, खण्डो देवदत्त उपलेन। चतुर्थी तदर्थार्थवलिहितसुखरक्षितैः 2|1|36 यूपाय दारु यूपदारु। समर्थग्रहणं किम्? गच्छ त्वं यूपाय, दारु देवदत्तस्य ग्रेहे। पञ्चमी भयेन 2|1|37 वृकेभ्यो भयं वृकभयम्। समर्थग्रहणं किम्? गच्छ त्वं मा वृकेभ्यो, भयं देवदत्तस्य यज्ञदत्तात्। षष्ठी 2|2|8 राज्ञः पुरुषः राजपुरुषः। समर्थग्रहणं किम्? भार्या राज्ञः, पुरुषो देवदत्तस्य। सप्तमी शौण्डैः 2|1|40 अक्षेषु शौण्डः अक्षशौण्डः। समर्थग्रहणं किम्? शक्तस्त्वं अक्षेषु, शौण्डः पिबति पानागारे। पदग्रहणं किम्? वर्णविधौ समर्थपरिभाशा मा भूत्। तिष्ठतु दध्यशान त्वं शाकेन। तिष्ठतु कुमारी च्छत्रं हरदेवदत्तात्। यणादेशो, नित्यश्च तुग् भवति।
`परिभाषेयम्` इति। परितो व्यापृता भाषा = परिभाषा। तथा चोक्तम्-- `परिभाषा पुनरेकस्था सर्व शास्त्रमभिज्वलयति, यथा-- वश्मप्रदीपः`। कुतः पुनरेतद्विज्ञायते-- परिभाषेयम्, नाधिकार इति? पदविधिग्रणाल्लिङ्गात्। उत्तरत्र हि सर्वः पराङ्गवद्भावादिरनुकरस्यमानः पदविधिरेव। तत्र यद्यमधिकारः स्यात्, पदविधिग्रहणमनर्थकं स्यात्; वयावत्र्याभावात्। परिभाषायां त्वस्याम्, परिभाषा ह्रेकदेशस्यापि सर्वत्र शास्त्रे व्याप्रियत इत्यसति पदविधिग्रहणे वर्णविधायवप्युपतिष्ठेत। ततो वर्णविधिनिरासार्थ क्रियमाणं पदविधिग्रहणमर्थवद्भवति। तस्मात् पदिविधग्रहणाल्लिङ्गात् परिभाषेयं नाधिकार इत्यवसीयते। यद्यवम्, `इसुसोः सामर्थ्ये` 8|3|44 , `न चवाहाहैवयुक्ते` 8|1|24 इत्येवमादिषु योगेषु सामथ्र्यग्रहणं युक्तग्रहणञ्च किमर्थं क्रियते, यावता `पदस्य` इति तत्रानुवत्र्तते, तत्र पदविधित्वादेवासामर्थ्ये न भविष्यति? सत्यमेतत्; यदर्थं तु क्रियते तत् तत्रैव प्रतिपादयिष्यामः।विधिशब्दोऽयमस्त्येव भावसाधनः-- विधानं विधिरिति। अस्ति च कर्मसाधनः-- विधीयत इति विधिः। तत्र भावसाधने विधिशब्द आश्रीयमाणे पदानामपरिनिष्पन्नानां परिनिष्पादनं पदविधिरिति पदेषु कर्मणि कृद्योगलक्षणा षष्ठी; तेषां विधिना सम्बन्धात्। कर्मसाधने तु परिनिष्पन्नानां व्यवस्थितानामेव पदानां यत्समासादि कार्यं विधीयते स पदिविधिः। तत्र पदेषु च शेषलक्षणा षष्ठी भवति; विधीयमानस्य कार्यस्य पदसम्बन्धित्वेनोपादानात्। तत्र यदीह भावसाधनो विधिशब्द आश्रीयेत तदा विभक्तिविधानमेव सङ्गृहीतं स्यात्,समास-- पराङ्गवद्भाव--तद्धितवृत्त्यादिकं न सङ्गृह्रेतच न हि तत्र पदानामसतां विधानम्; किं तर्हि? व्यवस्थितानामेव पदानां समासादि कार्यं विधीयते। इतरत्र तु विधिशब्द आश्रीयमाणे तेऽपि सङ्गृहीता भवन्तीति मन्यमानः कर्मसाधनं विधिशब्दमाश्रित्याह-- `विधीयत इति विधिः` इति। ननु चात्रापि पक्षे विभक्तिविधानं न सङ्गृह्रेत, न हि `कर्मणि द्वितीया` 2|3|2 इत्येवमादिशास्त्रेण व्यवस्थितानां पदानां किञ्चित् कार्यं विधीयते, अपि तु पदान्येव विधीयन्ते? यदि न सङ्गृहीतं स्यान्न नाम। न च तदसङ्ग्रहे किञ्चिदनिष्टमापद्यत इत्युत्तरत्र प्रतिपादयिष्य#आमः। `समासादिः` इति। आदिशब्देन तद्धितवृत्यादीनां ग्रहणम्।`समर्थः शक्तः` इति। स्वकार्यनिर्वर्तनक्षम इत्यर्थः। स हि लोके समर्थ इत्युच्यते। स्वार्थप्रतिपादनमेव शब्दानां स्वकार्यम्। ये चेह लौकिका वैदिकाश्च शब्दा अधिकृतास्ते सर्वे एव स्वकार्यप्रतिपादनं प्रति समर्थाः। तस्मात् `समर्थः` इत विशेषणोपादानसामथ्र्याद्विशेषः कश्चिदाश्रीयते। स च विशेषः-- वृत्त्यर्थं यद्वाक्यमुपादीयते, प्रत्यासत्तेस्तदर्थप्रतिपादने या शक्तता तल्लक्षमो विज्ञायत इत्याह-- `विग्रहवाक्यर्थाभिधाने` इत्यादि। विशेषेण गृह्रते विज्ञायतेऽनेनेति विग्रहः, विग्रहश्च तद्वाक्यम्। अथ वा-- विशेषेण ग्रहणं विग्रहः, विग्रहार्थं यद्वाक्यं तद्विग्रहवाक्यम्। शाकपार्थिवादित्वान्मध्यमपदलोपी समासः। विग्रहवाक्यस्यार्थो विग्रहवाक्यार्थः, तदभिधाने तत्प्रत्यायने यः शक्तः स समर्थो वेदितव्यः, यथा-- राजपुरुष इत्ययं समसाः, एतदर्थं यद्वाक्यं राज्ञः पुरुष इति तस्य योऽर्थस्तदभिधाने राजपुरुष इत्ययं शब्दं शक्तः; ततोऽपि तदर्थस्य प्रतीतेः। स पुनरर्थः-- संसर्गः, भेदश्च;भेदसंसर्गौ वा।तत्र स्वविशेषस्य स्वामिविशेस्य स्वामिविशेषेण यः सम्बन्धः स `संसर्गः` आख्यायते। स्वान्तरस्य स्वाम्यन्तरेभ्यः, स्वाम्यतरस्य स्वातन्तरेभ्यश्च व्यावृत्तिः `भेदः` आख्यायते।तत्र संसर्गवादिनो मते संसर्ग एव शब्दार्थः, व्यावृत्तिस्त्वर्थसंगृहीता। न ह्रव्यावर्त्त्यसंगृहीता। न ह्रव्यावर्त्त्यमानयोः स्वस्वामिनोः सम्बन्ध्यन्तरेभ्यः संसर्ग उपपद्यते। भेदवादिनस्तु व्यावृत्तिरव शब्दार्थः, संसर्गोऽर्थसङ्गृहीतः; न हि व्यावर्त्त्यमानस्य सम्बन्ध्यन्तरेणासम्बद्धस्य स्वाम्यादेरवस्थानमस्ति। उभयवादिनस्तु उभय एव शब्दार्थः। यदि विग्रहवाक्यार्थाभिधाने यः शक्तः स समर्थो विज्ञायेत, एवं सति समासतद्धितविषयमेव सामथ्र्यामिति पराङ्गवद्भावविभक्तिविधानयोरियं परिभाषा नोपतिष्ठेत; न हि तत्र विग्रहवाक्यार्थाभिधानमस्ति? यदि नोपतिष्ठेत, न नाम; न च तदनुपस्थाने किञ्चिदनिष्टमापद्येत। तथा हि-- पराङ्गवद्भावे तावन्निमित्तग्रहणं देशयिष्यति भाष्यकारः। तत्र च निमित्तस्य निमित्तिना सामथ्र्यमस्त्येव-- मद्राणां राजन्, परशुना वृश्चन्निति। विभक्तिविधानेऽपि यास्तावत् कारकविभक्तयस्ता येष्वेव कारकेषु कर्मादिषु विधीयन्ते तेषां क्रियया सम्बन्धोऽस्त्येव। उपपदविभक्तिष्वपि `सहयुक्तेऽप्रधाने` 2|3|19 इत्येवमादिषु युक्तग्रहणादीनि सन्ति, तत्रापि सामथ्र्यमस्त्येव। तत्रैवं सम्बन्धे सति विभक्तय इष्यन्ते, न तु व#इग्रहवाक्यार्थाभिधानलक्षणसामर्थ्ये। एवं तावन्मुख्यार्थवृत्तिः समर्थशब्दो दर्शितः।इदानीमुपचरितवृतिंत दर्शयितुमाह-- `अथ वा` इत्यादि। समर्थानि पदान्याश्रयो यस्य स समर्थपदाश्रायः; तद्भावः समर्थपदाश्रयत्वम्। ततो हेतोः समासादिः समर्थ उच्यते। आश्रयस्य समर्थत्वादुपचारेणाश्रितोऽपि तथेति व्यपदिश्यते; कारणधर्मस्य कार्य उपचारात्, यथा-- नड्वलोदकं पादरोगः। `समर्थानाम्` इत्यनेन वाक्ये व्यपदेशलक्षणं सामथ्र्यमाह। तथा हि `राज्ञः पुरुषः` इत्यत्र वाक्ये राजा पुरुषमपेक्षते -- ममायमिति, पुरुषोऽपि राजानमपेक्षते-- अहमस्येति। `संसृष्टार्थानाम्` इत्यनेन समासे पदानामेकार्थीभावनलक्षमं सामथ्र्यं दर्शयति। एकार्थीभावश्च पृथगवस्थितानां भिन्नार्थानां पदानां समासे साधारणार्थता नामावस्थाविशेषः। वाक्ये हि साधारणार्थता नास्ति; भिन्नार्थत्वात्। अत एव तत्र भेदनिबन्धना षष्ठ्युपजायते-- राज्ञः पुरुष इति। वृत्तौ तूभयपदव्यवच्छिनार्थाभिधानत् साधारणार्थता भवति। एतेनैतदुक्तं भवति-- समासे हि विशेषणं विशेष्यमनुप्रविशत्येकार्थी भवति विशेष्येण सरह, वाक्ये हि विशेषमं विशेष्यात् पृथगवतिष्ठत इति। यस्मिन्नसति, वाक्ये राज्ञो गौश्चाआश्च पुरुषश्चेति भेदनिबन्धनसमुच्चयप्रतिपादनाय चशपब्द प्रयुज्यते। समासे तु यस्मिन् सति स निवत्र्तते राज्ञो गवाआपुरुषा इत्ययमेकार्थीभावो वेदितव्यः। `पश्य देवदत्त कष्टम्, श्रितो विष्णुमित्रो गुरुकुलम्` इति। अत्र कष्टशब्दस्य पश्येत्यनेन सम्बन्धः; न तु श्रितशब्दन; तेन सामथ्र्याभावात्समासो न भवति। ननु च श्रितादीनां श्रुतत्वात्तैरेव द्वितीयां विशेषयिष्यामः-- श्रितादीनां सम्बन्धिनी या द्वितीयेति शक्यते व्यपदेष्टम् : असति तु तस्मिन्, द्वितीयामात्रं श्रितादिभिः समस्यत इति विज्ञायते। एवं सापेक्षस्यापि समासः स्यादेव-- महत् कष्टं श्रित इति, भवति ह्रत्र श्रितादिनिमित्ता द्वितीया। तस्मात् समर्थग्रहणं कत्र्तव्यम्। `किं त्वं करिष्यसि सङ्कुलया, खण्डो देवदत्त उपलेन` इति। अत्रोपलेन तृतीयान्तेन कृतं खण्डनम्। अतस्तत्कृतत्वमस्तीति प्राप्नोति समासः; समर्थग्रहमान्न भवति। समर्थग्रहणे तु सत्ययमर्थो भवति-- यस्यैव तृतीयान्तस्य समासस्तेनैव यदि कृतं खण्डनमिति। न चेह तत्कृतं खण्डनमतो न भवति समासः। एवमन्यत्राप्यसामथ्र्यादसमासो वेदितव्यः।
परिभाषेयमिति। नाधिकारः, पदविधिग्रहणात्, अन्यथा वक्ष्यमाणानां पराङ्वद्भावदीनां पदविधित्वाव्यभिचारादनर्थकं तत्स्यात्। परितः उ सर्तत्र, परत्र, व्यवहिते च, अनन्तरे च - भाष्यते कार्यमानयेति करणे ठ्गुरोश्च हलःऽ अत्यकारप्रत्ययः। भावसाधन एव वाऽभेदोपचारात्सूत्रे प्रयुज्यते। इदंशब्दस्य सूत्रे प्रयुक्तस्यापि विधेयपरिभाषाशब्दसामानाधिकरण्यात् स्त्रीलिङ्गता। स कर्व इति। ननु यः कश्चित्पदविधिरिति सामान्यनिर्देशेनैव तध्दर्मभूता व्याप्तिरुक्ता, किं कर्मग्रहणेन? नैतदस्तिः ठ्यः कश्चिद् ब्राह्मण आनीयताम्ऽ इत्युक्ते क्षत्रियादिनिवृत्तिः प्रतीयते, न व्याप्तिः। प्रथमपठितमपि समर्थसब्दमुल्लङ्घ्योद्देश्यसमर्पकत्वबलादार्थेन क्रमेण प्रथमे भाविनं पदविधिशब्दं व्याख्यास्यान्विधिशब्दः कर्मसाधन इति दर्शयति-विधीयत इति विधिरिति। कार्यमित्यर्थः। पदानामिति। शेषलक्षणा षष्ठी। पदानां सतां यत्कार्यं विधीयत इत्यर्थः। यदि तु भावसाधनो विधिशब्द आश्रीयेत-विधानं विधिरिति, ततः पदेषु कृद्योगलक्षणा कर्मणि षष्ठ ई-पदानामसतां निष्पादनं पदविधिरिति, तत्र समासतध्दितसुब्धातुवृतयो न संगृहीताः स्युः। तत्र हि पदानां सतां समासादिकार्यं विधीयते, न पुनः पदत्वम्। ननु च कर्मसाधनपक्षेऽपि विभक्तिविधानमसंगृहीतं स्यात्, पदान्येव हि तत्र विधीयन्ते न तु पदानां सतां किञ्चिद्? उच्यते-ठ्कर्मणि द्वितायाऽ इत्यादिना तु नियमः क्रियते, न पदविधिः। अथाप्येकवाक्यतया स्वादिसूत्रेण विभक्तीनां विधानम्? एवमपि कारकविभक्तिषु तावत्क्रियाकारकयोरविनाभूतः सम्बन्धः, उपपदविभक्तीनां तु ठनतरान्तरेणयुक्तेऽ इत्यादीनामुपसर्गविभक्तीनां च ठ्नेर्विशःऽ इत्यादीनामेकवाक्यतायां भिन्नवाक्यतायां च पदविधित्वमस्त्येव; उपपदानामुपसर्गाणां च पदत्वात्। समासादिरित्यादिशब्देन तध्दितवृत्यादीनां ग्रहणम्, तध्दिता अपि सुबन्तादुत्पद्यन्ते। ठ्समर्थानां प्रथमाद्वाऽ इत्यस्य तु समर्थग्रहणस्य प्रयोजनं तत्रैव वक्ष्यामः। एवम् ठिसुसोःऽ सामर्थ्येऽ इत्यादीनामपि समर्थः शक्त इति; तत्रैव समर्थसब्दस्य रूढत्वात्। स्वकार्यनिष्पादनक्षमो हि लोके ठ्समर्थःऽ इत्युच्यते। अर्थप्रतिपादनं च शब्दानां स्वकार्यव्युत्पाद्यत्वेन चाधिकृता लौकिकाः वैदिकाञ्च यस्य कस्यचित्प्रतिपादने समर्थाः, उच्यते चेदं समर्थ इति, तत्र सामर्थ्याद्विशेषोऽवगम्यते, स तु विशेषः प्रत्यासतेरेवंरूप इत्याह-विग्रहवाक्यार्थाभिधाने इति। विशेषेण गृह्यते उ ज्ञायतेऽनेन समासार्थ इति विग्रहः। तादृशं च तद्वाक्यं चेति विशेषणसमासः। यद्वा-विशेषेण ग्रहणं विग्रहः, तदर्थं वाक्यं विग्रहवाक्यम्, अश्वघासादिवत्षष्ठीसमासः। अथ वा-अभेदोपचाराद्विग्रहार्थवाक्यं विग्रह इति विशेषणसमासः, तद्यथा-राजपुरुष इत्ययं समासः, तदर्थं विग्रहवाक्यं राज्ञः पुरुष इति, अस्य योऽर्थस्तदभिधाने राजपुरुषशब्द समर्थः, अतोऽपि तत्प्रतीतेः, स पुना राजविशिष्टः पुरुषः। समर्थो वेदितव्य इति। साधुत्वेनेति शेषः। यः पदविधिः स विग्रहवाक्यार्थाभिधाने समर्थः सनासाधुर्भवतीत्यस्मिन्पक्षे सूत्रार्थः, नार्थान्तरं साधीयः पश्यामः। ततु सामर्थ्यं प्रयोगतोऽनुसर्तव्यम्। न पुनरियं वृत्तिरस्य वाक्यस्यार्थाभिधानसमर्था, नान्यस्येत्येतत्सूत्राक्षरैर्लभ्यते। अत एवास्मिन्व्याख्यानेऽपरितुष्टः सन्व्याख्यानान्तरमाह--अथ वेति। अत्र पक्षे उपचरितवृत्तिः समर्थशब्दः, तदाहसमर्थपदाश्रयत्वादिति। समर्थानां पदानां सम्बध्दार्थानां संसृष्टार्थानासिति। यः पदानां विधिः स समर्थानअं विदितव्यः। समर्थानामिति कोऽर्थः? संबध्दार्थानां संसृष्टार्थानां वेत्यर्थः। तत्र वाक्ये संबध्दार्थता। व्यपेक्षा हि तत्र सामर्थ्यम्। अन्योऽन्यापेक्षा उ व्यपेक्षा। आकांक्षामन्निधियोग्यत्वेषु सत्सुः यः परस्परसम्बन्धः सा व्यपेक्षा। वाक्ये हि ठ्राज्ञःऽ इति पदनियतसंबन्ध्यपेक्षयोद्भूतसंबन्धं विशेषणभूतमर्थमाचष्टे, स्वसंनिहितं योग्यं च पुरुषमपेक्षते। ममायमिति ठ्पुरुषःऽ ईत्येनेनापि पुरुषः स्वनिष्ठोऽभिधीयमानः स्वसंनिहितं राजत्वमवच्छेदकत्वेनापेक्षते-अहमस्येति। अतो विशेषणविशेष्यभावेन सम्बन्धोऽनियतसंबन्धिविषयत्वाच्चापेक्षया यो यः सन्निहितो योग्यश्च तेन सम्बध्यते-राज्ञः पुरुश्चाश्चश्च, राज्ञो देदतस्य च पुरुष इति, नार्थान्तरस्य। वृतो तु संसृष्टार्थता। एकार्थीभावो हि तत्र सामर्थ्यम्। वृतौ हि राजपदं राजानमभिधाय न तावति पर्यवस्यति, पुरुषमप्याचष्टे, यथा-ठ्गङ्गायां घोषःऽ इति गङ्गापदं तीरम्। यदि तु तावत्येव पर्यवस्येततो यथा वाक्ये राज्ञः पुरुषोऽश्वश्चेति द्वाभ्यां सम्बन्धो भवति, तथा राजपुरुषोऽश्वश्चेत्यत्रापि स्यात्। स्वविशेषणसम्बन्धोऽपि स्याद्-ऋध्दस्य राडपुरुष इति यथा ऋध्दस्य राज्ञः पुरुष इति तथा पुरुषपदमपि राजविशिष्टमेव पुरुषमाचष्टे, न पुरुषमात्रम्। यदि तथा स्याततो यथा वाक्ये राज्ञः पुरुषो देवदतस्य चेति द्वाभ्यां सम्बन्धो भवति, तथा रापुरुषो देवदतस्य चेत्यपि स्यात्। अतो यस्य विशेषस्य भावादयं विशेषः स एकार्थीभावः। भाष्योक्ताश्चापरे विशेषाः-ठ्सुबलोपो व्यवधानं यथेष्टमन्यतरेणाभिसम्बन्धः स्वरभेदश्च संख्याविशेषो व्यक्ताभिधानमुपसर्जनविशंषणं च योगश्च ऽ इति। तथा सुपि अलोपश्च भवति वाक्ये-राज्ञः पुरुषः, नीलमुत्पलमिति समासे तु द्योरेकस्मिन्विशिष्टेऽर्थे वृतेः पृथगर्थाभावात्स्वभावत एव विभ्क्तनिवर्तते। सैव च स्वाभाविकी निवृत्तिः शास्त्रेणान्वाख्यायते-ठ्सुपो धातुप्रातिपदिकयोःऽ इति प्रत्ययलक्षणेन नलोपादिकार्थं यथा स्यादिति। पृथगर्थाभावे तु पथग्विभक्तिर्न भवति। तथा वर्णेषु व्यवधानं च पृथगपर्थत्व एव दृष्टः--राज्ञः पुरुष इति द्वावपि नित्स्वरेणाद्यौदाती। अभेदेन दृष्टः, यथा--पुरुष इति वृतौ चैकस्वर्यं दृश्यते। किं च, संख्याविशेषोऽवगम्यते पृथगरेथेषु--राज्ञः राज्ञोः राज्ञां पुरुष इति। वृतौ त्वव्यक्तमभिधानं विष्ठति, ब्राह्मणकम्बल इति मन्देहो भवति-संबुध्दिर्वा स्यात्? षष्ठीसमासो वा? इति, न चात्रस्वरान्नर्णयः। वाक्येऽप्यामन्त्रितनिघातः कम्बलशब्दो घृतादितावादन्तोदातः, समासेऽप्यन्तोदातता। उपसर्जनविशेषणं च व्याख्यातम्। योगश्च भवति पृथगर्थेषु-राज्ञो गौश्चाश्चश्च कम्बलश्चेति। वृतौ त्वेकार्थ्याद्भेदनिबन्धनस्य समुच्च यस्याभावाच्चशब्दो निवर्तत-राज्ञो गवाश्वकम्बला इति, तदेतैर्विशेषैर्वज्ञायते संभिन्नोभयरूपः पासूदकवदविभागापन्नो वृतावर्थ इति। तेन राज्ञः पुरुषमानय राजपुरुषमानयेति च यद्यचप्येक एवानीयत इति कार्ययोगिनोऽभेदस्तथाच्यभिधानप्रकारो भिद्यते, यथा-ब्राह्मणानां शतं भोज्यतामिति। तदेवं वृत्तिवाक्ययोरर्थो भिद्यत इति स्थितम्। एवं च त्र तत्र वावचनं चिन्त्यप्रयोजनम्; भिन्नार्थया वृत्या वाक्यस्य बाधाऽप्रसङ्गात्। अन्ये तु जहत्स्वार्था वृत्तिरिति वदन्तो वर्तिपदानामानर्थक्यमेवाहुः, ततु न रोचयामहे। किं राजपुरुष इत्यत्र राजार्थो न गम्यते? ओमिति चेत्, पुरुषमात्रानयनं प्राप्नोति। अथ गम्यते? किंनिबन्धना तस्यावगतिः? न तावत् समासस्य तत्र शाक्तिः कल्प्या; राजशब्दनिबन्धनायामपि तस्यामनर्थाभावात्। न च वाक्ये राजपदं व्युत्पन्नं पुनः समासे वियुत्पत्तिमपेक्षते, तावत्येव च प्रतिपद्यते राजार्थः। अते न जहत्स्वार्था वृत्तिः, अर्थाभिधानप्रकारभेद इत्येतदेव सांप्रतम्। तत्र सम्बध्दार्थानां संसृष्टार्थानामिति स्थतं परिभाषाप्रवृतौ हेतुर्नान्यतरत्, यतो मा भूद्व्यपेक्षामात्राश्रयेण सापेक्षस्यापि वृत्तिः। यदेयेवम्, पराङ्गवद्भावे विभक्तिविधाने च सा न प्रवर्तेत; तत्रैकार्थीभावस्यासम्भवात्। मा प्रवर्तिष्ट, पराङ्गवद्भावेत्न्निमितग्रहणं नोदयिष्यति। विभक्तिविधानेऽपि क्रियाकारकयोर्व्यपेक्षाऽविनाभाविनी क्वचिद्यौक्तग्रहणम्; क्वचिद्योगग्रहणम्, क्वचित्-तृतीयया योगस्याक्षेप इति न क्वापि दोषः। अत एवानन्तरमपि पराङ्गवद्भावमुल्लङ्घ्य समासमुदाहरति--वक्ष्यतीति। समर्थग्रहणं किमिति। सूत्रं किमर्थमित्यर्थः। न हि केवलेन पदविधिग्रहणेन किञ्चत्क्रियते। पश्येत्यादि। ननु च श्रितादिभिर्द्वितीयां विशेषयिष्यामः-श्रितादियोगे या द्वितीयोति। एवमपि सापेक्षस् प्रसङ्गः-महत्कष्ट्ंअ श्रित इति, भवति ह्यत्र श्रितादिनिमिता द्वितीया, समर्थग्रहणे तु सति न भवति। यद्यप्यत्र वाक्यावस्थायां व्यपेक्षानक्षणसामर्थ्यमस्ति, वृत्यवस्थायान्तु नैकार्थीभावः संभवतीत्यवोचाम। कथं तर्हि देवदतस्य गुरुकुलमिति सापेक्षस्य वृत? नात्र गुरुण देवदतस्य सम्बन्धः; किं तर्हि? समुदायेन, गुरुद्वारकश्च सुलेन सम्बन्ध इत्यर्थाद् गुरुणापि योगो भवति। उक्तं च- समुदायेन सम्बन्धो येषां गुरुकुलादिना। संस्पृश्यावयवांस्तेऽपि युज्यन्ते तद्वता सह॥ इति अथ वा--परिपरूर्णार्थस्यान्येन सहैकार्थीभावः स्वार्थपरिपूर्तिश्च समाबन्धि शब्दस्य प्रतियोगिनेति भवति तदपेक्षस्यापि वृत्तिः। उक्तं च - सम्बन्धिशब्दः सापेक्षो न्त्यं सर्वः प्रयुज्यते। स्वार्थवत्सा व्यपेक्षाऽस्य वृतावपि न हायते॥ इति किं त्वं करिष्यसीत्यादि अत्र शक्यं वक्तुम्। तत्कृतार्थेनेति। तच्छब्दः प्रकृतपरार्म्शाय तृतीयान्तं समस्यत--तदर्थेन यः कृचो गुणस्तद्वचनेनेति। अत्र च यस्य समासः शह्क्यते--शंकुलयेति, न तदर्थेन कृतं खण्डनम्; यदथंन च कृतं खण्डनमुपलेनेति, न तस्य समासः शङ्क्यच इति न भविष्यतीति। तस्मान्महत्या शंकुलया खण्ड इति सापेक्षमुदाहर्तव्यम्। गच्छ त्वं यूपायेति। ठ्गत्यर्थकर्मणिऽ इति चतुर्थी। तद्वा-ठ्क्रियार्थापपदस्य च कर्मणिऽ इति, यूपमाहर्तु गच्छेति, अत्राप्येतदर्थत्वादेव दारुणो न भविष्यतीति सापेक्षं प्रत्युदाहर्तव्यम्-महते यूपाय दार्विति। यणादेशो नित्यश्च तुग्भवतीति। द्वावप्येतौ वर्णविधी, नित्यस्तुक् च ठ्दीर्घात्ऽ इत्यायमेव, यस्तु ठ्पदान्ताद्वाऽ इति विकल्पितस्तुक् स पदविधित्वादत्र न भवति। अन्ये तु यणादेशोऽनित्यश्च तुगभवतीत्यकारप्रश्लेषं वर्णयन्तः ठ्पदान्ताद्वाऽ इति विकल्पितस्तुग्भवतीति व्याचक्षते। नन्वसौ पदविधिर्नेति? आह-तत्रन्तग्रहणं एवं सिध्देऽन्तग्रहणस्यैतत्प्रयोजनम्-पदान्तस्य दूर्घस्य वर्णस्य विधिस्तुग् यथा स्याति, दीर्घान्तस्य पदस्य मा भूदिति॥
सिद्धान्तकौमुदी
॥ अथ अव्ययीभावसमासप्रकरणम्‌ ॥

पदसम्बन्धी यो विधिः स समर्थाश्रितो बोध्यः ॥
समर्थः पदविधिः - अथ समासेष्वव्ययीभावः । तदेवं विभक्त्यर्थं निरूप्य तदाश्रितसमासान्निरूपयिष्यंस्तदुपोद्धातत्वेनाह समर्थः पदविधिः । विधीयते इति विधिः-कार्यम् । पदस्य विधिः पदविधिरिति शेषषष्ठआ समासः । तदाह-पदसंबन्धी यो विधिरिति । समर्ताश्रित इति । सूत्रे समर्थशब्दः समर्थाश्रिते लाक्षणिक इति भावः । सामथ्र्यं द्विविधम्-व्यपेक्षालक्षणमेकार्थीभावलक्षणं च । तत्र स्वार्थपर्यवसायिनां पदानामाकाङ्क्षादिवशाद्यः परस्परान्वयस्तद्व्यपेक्षाभिधं सामथ्र्यम्, विशिष्टा अपेक्षा व्यपेक्षेति व्युत्पत्तेः । संबद्धार्थः समर्थ इति व्युत्पत्तेश्च । इदं च राज्ञः पुरुष इत्यादिवाक्य एव भवति । तत्र च एकैकस्य शब्दस्य यो यः संनिहितो योग्यश्च तेन तेनान्वयो भवति । यथा राज्ञः पुरुषोऽआश्चेति, राज्ञो देवदत्तस्य च पुरुष इति, ऋद्धस्य राज्ञः पुरुष इति च । एकार्थीभावलक्षणसामथ्र्यं तु प्रक्रियादशायां प्रत्येकमर्थवत्त्वेन पृथग्गृहीतानां पदानां समुदायशक्त्या विसिष्टैकार्थप्रतिपादकतारूपम् ।सङ्गतार्थः समर्थः॑,संसृष्टार्थः समर्थ॑ इति व्युत्पत्तेः । सङ्गतिः संसर्गश्च एकीभाव एव । यथा-सङ्गतं घृतं तैलेनेति । एकीभूतमिति गम्यते । यथा वा संसृष्ट#ओऽग्निरिति । एकीभूत इति गम्यत इति भाष्याच्च । इदंच सामथ्र्यं राजपुरुष इत्यादिवृत्तावेव । अत एव "ऋद्धस्य राजपुरुष" इत्येवं राज्ञि पुरुषविशेषणे ऋद्धत्वविशेषणं नान्वेति, विशिष्टस्य एकपदार्थतया राज्ञः पदार्थैकदेशत्वात् ।देवदत्तस्य गुरुकुल॑मित्यत्र तु उपसर्जनस्य नित्यसापेक्षत्वात्समासः । यद्वा गुरुवद्देवदत्तोऽपि विशेष्ये प्रदाने कुल एवान्वेति । तत्र गुरुणा कुलस्य उत्पाद्यत्वसंबन्धेनान्वयः । देवदत्तेन तु कुलस्य तदीयगुरूत्पाद्यतयाऽन्वयो गुरुगर्भः । उक्तं च हरिणा-॒संबन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते । वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते ।॑ इति । समुदायेन संबन्धो येषां गुरुकलादिना । संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह.॑ इति च ।एतेन "अयश्शूल" इति सूत्रे भाष्येशिवस्य भगवतो भक्तः॑ इत्यर्थे "शिवभागवतः" इत्यादि व्याख्यातम् । एकार्थीभावश्चाऽयमलौकिकविग्रहवाक्ये कल्प्यते । यथा लादेशभूतशतृशानचोरप्रथमासामानाधिकरण्यं लकारेऽपि कल्प्यते तद्वत् । अत एवलस्य अप्रथमासमानाधिकरणेनार्थेनाऽयोगादादेशानुपपत्तिः, तस्य क्वापि प्रयोगाऽभावा॑दि त्याक्षिप्यआदेशे सामानाधिकरण्यं दृष्ट्वा अनुमानाद्गन्तव्यं प्रकृतेरपि तद्भवति ॑ इति "लटश्शतृशानचौ" इति सूत्रभाष्ये समाहितम् ।सिद्धानां शब्दानामन्वाख्यानात् पचन्तं देवदत्तं पश्येत्यादिप्रयोगदर्शनात् स्थानिनोऽपि लस्य प्रक्रियार्थं कल्पितस्य बोधकत्वकल्पना सूचिता । अलोकिकविग्रहवाक्ये श्रूयमाणानां च शब्दानां क्लृप्तशक्तित्यागे मानाऽभावात् प्रत्येकशक्तिसहकृतया समुदायशक्त्या विशिष्टोपस्थितिः । ततश्च यमेकार्थीभावोऽजहत्स्वार्था वृत्तिरिष्यते । वृत्तिविषये पदानां प्रत्येकमनर्थकत्वमाश्रित्य जहत्स्वार्था वृत्तिस्तु नाश्रयितुं युक्ता, महाबाहुः, सुपन्था इत्यादौ आत्त्वाद्यनापत्तेः, वृत्तौ महादादिशब्दानामनर्थकत्वादर्थवद्ग्रहणसंभवे अनर्थकस्य "आन्महतः" इत्यादौ ग्रहणाऽयोगात् । तदुक्तम् — ॒जहत्स्व#आर्था तु तत्रैव यत्र रूढिर्विरोधिनी॑ इति । अवयवार्थविरुद्धो यत्र समुदायार्थस्तत्रैव सेति तदर्थः । यथा अआकर्णमण्डपादौ । विस्तरस्तु शब्देन्दुशेखरे मञ्जूषायां चानुसंधेयः । समर्थः किम् । पश्य कृष्णं, श्रितो रामं मित्रम् । अत्र कृष्णश्रितयोः परस्परान्वयाऽभावाद्विशिष्टैकार्थोपस्थित्यजनकत्वान्न सामथ्र्यम् ।
समर्थः पदविधिः - समर्थः पदविधिः । सामथ्र्यं च द्विविधं — व्यपेक्षालक्षणमेकार्थीभावलक्षणं चेति । तत्र स्वार्थपर्यवसायिना पदानामाकाङ्क्षादिवशाद्यः परस्परसंबन्धः सा व्यपेक्षा । सैव वाक्ये राज्ञः पुरुष इत्यादौ । तत्प व्यपेक्षायां सत्यां यो यः संनिहितो योग्यश्च तेन तेन संबन्धोऽभ्युपेयते । यथा राज्ञः पुरुषोऽआश्च । राज्ञो देवदत्तस्य च पुरुष इति । एकर्थीभावस्तु राजपुरुष इत्यादिवृत्तावेव । स च प्राक्रियादशायां पृथगर्थत्वेन प्रथमगृहीतस्य विशिष्टैकार्थत्वरूपः । अतएव राजपुरुष इत्यत्र राज्ञि ऋद्धस्येति विशेषणं नान्वेति, पदार्थैकदेशत्वात् । न चैवं देवदत्तस्य गुरुकुलमित्यादावनन्वयापत्तिः, तत्रापि देवदत्तोत्तरषष्ठर्थस्य गुरुणाऽन्वयादिति वाच्यम् । देवदत्तस्य प्रधानीभूतकुलैनैवान्वयात् । संबन्धस्तूपस्थितगुरुद्वारक एव षष्ठर्थो, न तु तदितरः । उक्तं च — -॒समुदायेन सम्बन्धो येषां गुरुकुलादिना । संस्पृश्यवयवांस्ते तु युज्यन्ते तद्वता सह॑ । इति । यद्वा — -ससंबन्धिकपदार्थस्यैकदेशत्वेऽपि भवत्येव विशेषणान्वयः । उक्तं च — -॒संबन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते । वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते॑ इति । नन्वेवं राज्ञोऽपि नित्यसापेक्षत्वादेशत्वेऽपि ऋद्धस्येति विशेषणेनान्वयोऽस्तचु । मैवम् । राज्ञ ईशितुरीशितव्यं प्रति साकाङ्क्षत्वेऽपि ऋद्धं प्रत्यनाकाङ्क्षत्वात् । ननु वाक्ये क्लृप्तयैवाऽवयवशक्त्योपपत्तौ विशिष्टर्थविषयं शक्त्यन्तरमेव मास्तु । सत्यम् — -॒बहूनां वृत्तिधर्माणां वचनैरेव साधने । स्यान्मदद्गौरवं तस्मादेकार्थीभाव आस्थितः । चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम् । कर्तव्यं ते, न्यायसिद्धं त्वस्माकं तदिति स्थितम् । तथाहि — -धवखदिराविति वृत्त्यैव क्रीडीकृतार्थत्वाच्चकारो न प्रयुज्यते, तथा चित्रग्वादौ यत्पदम् । त्वया तु वचनं कर्तव्यम् । निरूढलक्षणा तु शक्तितो नातीव भिद्यते । किंच प्राप्तमुदकं यमिति व्यस्ते समीचीनमुदकमिति विशेषणत्समस्तेऽपि उदकविशेषणप्रयोगः[समासघटव पदार्थानां]प्राप्तः, स चवृत्तस्य विशेषणयोगो न॑ इति वचनेनैव वारणीयः,नामार्थयोरभेदान्वयः॑,प्रत्ययार्थः प्रधानम्इति व्युत्पत्तित्यागश्च ।प्राप्तोदक॑ इत्यादौ उदकर्तृकप्राप्तिकर्मेत्यचाद्यर्थाभ्युपगमात् । एकार्थीभावे तु लाघवमिति दिक् । पदग्रहणं किम् । वर्णविधौ समर्थपरिभाषा मा भूत् । तिष्ठतु दध्यानय तक्रम् । इह स्यादेव यण् । विधिग्रङणं तु पदस्य विधिः पदयोर्विधिः पदानां विधिरित्यनेकविभक्तयन्तसमासलाभार्थम् । पदस्येत्युक्तौ तुउपपदमतिङ् इत्यादावेवास्योपस्थितिः स्यादित्याहुः । सूत्रे समर्थशब्दो लाक्षणिक इति ध्वनयन्नाह — समर्थाश्रित इति । समर्थेति किम् । पश्यति कृष्णं, श्रितो देवदत्तमित्यादौ कृष्णश्रित इत्यादि समासो मा भूत् । यथा वस्त्रमुपगोरपत्यं चैत्रस्येत्यत्रतस्यापत्यम् इत्युपगुशब्दादण्मा भूदिति । क्वचित्तु सापेक्षत्वेऽपि भाष्यप्रामाण्याद्वृत्तिरङ्गीक्रियते । तद्यथा — -॒किमोदनः शालीनाम् । केषां शालीनामोदन इत्यर्थः । सक्त्वाढकमापणीयानाम् । आपणीयानां सक्तूनामाढकमित्यर्थः ।कृतो भवान्पाटलिपुत्रकः॑ । द्वे पाटलिपुत्रे, तत्र कस्मात्पाटलिपुत्राद्भवानागत इत्यर्थः ।रोपधेतोः प्राचाम् इति वुञ् ।
लघुसिद्धान्तकौमुदी
पदसंबन्धी यो विधिः स समर्थाश्रितो बोध्यः॥
महाभाष्यम्
समर्थः पदविधिः (350) (अथ विधिशब्दार्थनिरूपणाधिकरणम्) (आक्षेपभाष्यम्) विधिरिति कोयं शब्दः? ।। (समाधानभाष्यम्) विपूर्वाद्धाञ: कर्मसाधन इकारः ‐ विधीयते विधिरिति ।। किं पुनर्विधीयते?।। समासो विभक्तिविधानं पराङ्गवद्भावश्च ।। (परिभाषात्वनिरूपणाधिकरणम्) (आक्षेपभाष्यम्) किं पुनरयमधिकारः, आहोस्वित् परिभाषा?।। (प्रत्याक्षेपभाष्यम्) कः पुनरधिकारपरिभाषयोर्विशेषः? ।। (प्रत्याक्षेपसमाधानभाष्यम्) अधिकारः प्रतियोगं तस्यानिर्देशार्थं इति योगेयोगे उपतिष्ठते ।। परिभाषा पुनरेकदेशस्था सती कृत्स्नं शास्त्रमभिज्वलयति प्रदीपवत्। तद्यथा प्रदीपः सुप्रज्वलित एकदेशस्थः सर्वं वेश्माभिज्वलयति ।। (प्रत्याक्षेपान्तरभाष्यम्) कः पुनरत्र प्रयत्नविशेषः?।। (प्रत्याक्षेपान्तरसमाधानभाष्यम्) अधिकारे सति स्वरयितव्यम्। परिभाषायां तु सर्वमपेक्ष्यम्।। (संदेहान्तरभाष्यम्) तथेदमपरं द्वैतं भवति ‐ एकार्थीभावो वा सामर्थ्यं स्यात्, व्यपेक्षा वेति?।। (एकार्थीभावव्यपेक्षयोर्विशेषप्रदर्शकभाष्यम्) तत्रैकार्थीभावे सामर्थ्येऽधिकारे च सति समास एकः संगृहीतो भवति। विभक्तिविधानं पराङ्गवद्भावश्चासंगृहीतः ।। व्यपेक्षायां पुनः सार्मथ्येऽधिकारे च सति विभक्तिविधानं पराङ्गवद्भावश्च संगृहीतो भवति। समासस्त्वेकोऽसंगृहीतः ।। अन्यत्र खल्वपि समर्थग्रहणानि युक्तग्रहणानि च कर्तव्यानि भवन्ति।। क्वान्यत्र? इसुसोः सार्मथ्ये न चवाहाहैवयुक्ते इति ।। व्यपेक्षायां पुनः सार्मथ्ये परिभाषायां च सत्यां यावान् व्याकरणे पदगन्धो नाम स सर्वः संगृहीतो भवति। समासस्त्वेकोऽसंगृहीतः ।। (सिद्धान्तभाष्यम्) तत्रैकार्थीभावः सामार्थ्यं परिभाषा चेत्येवं सूत्रमभिन्नतरकं भवति।। (आक्षेपभाष्यम्) एवमपि क्वचिदकर्तव्यं समर्थग्रहणं क्रियते। क्वचिच्च कर्तव्यं न क्रियते। अकर्तव्यं तावत्क्रियते ‐ - समर्थानां प्रथमाद्वा इति। कर्तव्यं न क्रियते ‐ कर्मण्यण् समर्थादिति ।। (आक्षेपसाधकभाष्यम्) ननु च गम्यते तत्र सामर्थ्यं कुम्भकारो नगरकार इति ।। (आक्षेपसमाधानभाष्यम्) सत्यम्। गम्यते उत्पन्ने हि प्रत्यये। स एव तावत्समर्थादुत्पाद्यः ।। (अथ समर्थपरिभाषाप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अथ समर्थग्रहणं किमर्थम् ?।। (समाधानभाष्यम्) बक्ष्यति ‐ द्वितीया श्रितादिभिः समस्यते कष्टश्रितो नरकश्रित इति ।। समर्थग्रहणं किमर्थम्?। पश्य देवदत्त कष्टं, श्रितो विष्णुमित्रो गुरुकुलम्। तृतीया तत्कृतार्थेन गुणवचनेन उपादानविकलः, शङ्कुलाखण्डः, किरिकाणः ।। समर्थग्रहणं किमर्थम्? त्वं तिष्ठ शङ्कुलया, खण्डो धावति मुसलेन। किं त्वं करिष्यसि शङ्कुलया, खण्डो विष्णुमित्र उपलेन ।। चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः गोहितम्। वृषभहितम्। अश्वहितम्।। समर्थग्रहणं किमर्थम्?। सुखं गोभ्यो, हितं देवदत्ताय।। पञ्चमी भयेन वृकभयं दस्युभयं चोरभयम् ।। समर्थग्रहणं किमर्थम्?। गच्छ त्वं मा वृकेभ्यो, भयं देवदत्ताद्यज्ञदत्तस्य ।। षष्ठी सुबन्तेन समस्यते। राजपुरुषः। ब्राह्मणकम्बलः ।। समर्थग्रहणं किमर्थम्?। भार्या राज्ञः, पुरुषो देवदत्तस्येति ।। सप्तमी शौण्डैः अक्षशौण्डः स्त्रीशौण्डः।। समर्थग्रहणं किर्मथम्?। कुशलो देवदत्तोऽक्षेषु, शौण्डः पिबति पानागारे ।। (आक्षेपभाष्यम्) अथ क्रियमाणेपि समर्थग्रहणे इह कस्मान्न भवति - महत्कष्टं श्रित इति?।। (प्रत्याक्षेपभाष्यम्) न वा भवति महाकष्टश्रित इति ?।। (प्रत्याक्षेपसमाधानभाष्यम्) भवति, यदैतद्वाक्यं भवति ‐ महत्कष्टं महाकष्टं महाकष्टं श्रितो महाकष्टश्रित इति। यदा त्वेतद्वाक्यं भवति ‐ महत्कष्टं श्रित इति, तदा न भवितव्यम्। तदा च प्राप्नोति ।। (आक्षेपभाष्यम्) तदा कस्मान्न भवति?। (प्रत्याक्षेपभाष्यम्) कस्य कस्मान्न भवति। किं द्वयोः, आहोस्विद्बहूनाम्?। (आक्षेपाशयाविष्कारभाष्यम्) बहूनां कस्मान्न भवति?।। (समाधानभाष्यम्) सुप्सुपेति वर्तते ।। (आक्षेपभाष्यम्) ननु च भो आकृतौ शास्त्राणि प्रवर्तन्ते। तद्यथा ‐ प्रातिपदिकाद् इति वर्तमानेऽन्यस्माच्चान्यस्माच्च प्रातिपदिकादुत्पत्तिर्भवति ।। (समाधानभाष्यम्) सत्यमेवमेतत्। आकृतिस्तु प्रत्येकं परिसमाप्यते, न समुदाये। यावत्येतत् परिसमाप्यते प्रातिपदिकादिति, तावत् उत्पत्त्या भवितव्यम्, प्रत्येकं चैतत्परिसमाप्यते, न समुदाये। एवमिहापि यावत्येतत्परिसमाप्यते सुप्सुपेति, तावतः समासेन भवितव्यम्। द्वयोश्चैतत्परिसमाप्यते, न बहुषु ।। (आक्षेपभाष्यम्) द्वयोस्तर्हि कस्मान्न भवति?। (समाधानभाष्यम्) असामर्थ्यात् ।। कथमसामर्थ्यम्?। सापेक्षमसमर्थं भवतीति ।। (आक्षेपभाष्यम्) यदि सापेक्षमसमर्थं भवतीत्युच्यते, राजपुरुषोऽभिरूपः राजपुरुषो दर्शनीयः अत्र वृत्तिर्न प्राप्नोति।। (समाधानभाष्यम्) नैष दोषः। प्रधानमत्र सापेक्षम्। भवति च प्रधानस्य सापेक्षस्यापि समासः।। (आक्षेपभाष्यम्) यत्र तर्ह्यप्रधानं सापेक्षं भवति तत्र वृत्तिर्न प्राप्नोति ‐ देवदत्तस्य गुरुकुलम् देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासभार्येति ।। अत्र वृत्तिर्न प्राप्नोति।। (समाधानभाष्यम्) नैष दोषः। समुदायापेक्षात्र षष्ठी सर्वं गुरुकुलमपेक्षते ।। (समाधानबाधकभाष्यम्) यत्र तर्हि न समुदायापेक्षा षष्ठी तत्र ते वृत्तिर्न प्राप्नोति ‐ किमोदनः शालीनाम् सक्त्वाढकमापणीयानाम् कुतो भवान्पाटलिपुत्रक इति। इह चापि देवदत्तस्य गुरुकुलं देवदत्तस्य गुरुपत्रो देवदत्तस्य दासभार्येति। यद्येषां समुदायापेक्षा षष्ठी स्यान्नैतन्नियोगतो गम्येत ‐ देवदत्तस्य यो गुरुस्तस्य पुत्र इति। किं तर्हि?। अन्यस्यापि गुरुपुत्रः देवदत्तस्य किंचिदित्येषोर्थो गम्येत यतस्तु खलु नियोगतो देवदत्तस्य यो गुरुस्तस्य यः पुत्र इत्येषोर्थो गम्यते, अतो मन्यामहे ‐ नैषा समुदायापेक्षा षष्ठीति।। अन्यत्र खल्वपि समर्थग्रहणे सापेक्षस्यापि कार्यं भवति। क्वान्यत्र?। इसुसोः सामर्थ्ये ब्राह्मणस्य सर्पिष्करोतीति। तस्मान्नैतच्छक्यं वक्तुं ‐ सापेक्षमसमर्थं भवतीति ।। (आक्षेपभाष्यम्) वृत्तिस्तर्हि कस्मान्न भवति महत्कष्टं श्रित इति? ।। (1190 समाधानवार्तिकप्रथमखण्डम्।।) ।। सविशेषणानां वृत्तिर्न, वृत्तस्य वा विशेषणयोगो न ।। (भाष्यम्) सविशेषाणां वृत्तिर्न वृत्तस्य वा विशेषणं न प्रयुज्यते इति वक्तव्यम् ।। (आक्षेपभाष्यम्) यदि सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणं न प्रयुज्यत इत्युच्यते, देवदत्तस्य गुरुकुलम् देवदत्तस्य गुरुपुत्रो देवदत्तस्य दासभार्येत्यत्र वृत्तिर्न प्राप्नोति ।। (समाधानवार्तिकद्वितीयखण्डम् ।। 1 ।। ) ।। अगुरुपुत्रादीनाम् ।। (भाष्यम्) अगुरुपुत्रादीनामिति वक्तव्यम् ।। (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यं सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणं न प्रयुज्यते अगुरुपुत्रादीनामिति ।। (समाधानभाष्यम्) न वक्तव्यम्।। वृत्तिस्तर्हि कस्मान्न भवति?। अगमकत्वात्।। इह समानार्थेन वाक्येन भवितव्यं समासेन च। यश्चेहार्थो वाक्येन गम्यते महत्कष्टं श्रितः इति, नासौ जातु चित्समासेन गम्यते महत्कष्टश्रितः इति। एतस्माद्धेतोर्ब्रूमः ‐ अगमकत्वादिति, न ब्रूमः ‐ अपशब्दः स्यादिति ।। यत्र च गमको भवति, भवति तत्र वृत्तिः। तद्यथा ‐ देवदत्तस्य गुरुकुलं देवदत्तस्य गुरुपत्रो देवदत्तस्य दासभार्येति।। (प्रत्याख्यानभाष्यम्) यद्यगमकत्वं हेतुः, नार्थः समर्थग्रहणेन। इहापि भार्या राज्ञः पुरुषो देवदत्तस्य इति योर्थो वाक्येन गम्यते, नासौ जातु चित्समासेन गम्यते भार्या राजपुरुषो देवदत्तस्य इति। तस्मान्नार्थः समर्थग्रहणेन ।। (प्रत्याख्यानबाधकभाष्यम्) इदं तर्हि प्रयोजनम्। अयमस्त्यसमर्थसमासो नञ्ञ्समासो गमकः, तस्य साधुत्वं माभूत् ‐ अकिंचित्कुर्वाणम् अमाषं हरमाणम् अगाधादुत्सृष्टम् इति ।। (प्रत्याख्यानसाधकभाष्यम्) एतदपि नास्ति प्रयोजनम्। अवश्यं कस्यचिन्नञ्ञ्समासस्यासमर्थस्य गमकस्य साधुत्वं वक्तव्यम्। असूर्यंपश्यानि मुखानि अपुनर्गेयाः श्लोकाः अश्राद्धभोजी ब्राह्मण इति ।। सुडनपुंसकस्य इत्येतन्नियमार्थं भविष्यति ‐ एतस्यैवासमर्थसमासस्य नञ्ञ्समासस्य गमकस्य साधुत्वं भवति नान्यस्येति। तस्मान्नार्थः समर्थग्रहणेन ।। (अथ सामर्थ्यलक्षणभेदनिरूपणाधिकरणम्) (आक्षेपभाष्यम्) अथ क्रियमाणेपि समर्थग्रहणे समर्थमित्युच्यते। किं समर्थं नाम?। (1191 समाधानवार्तिकम् ।। 2 ।। ।। पृथगर्थानामेकार्थीभावः समर्थवचनम् ।। (व्याख्याभाष्यम्) पृथगर्थानां पदानामेकार्थीभावः समर्थमित्युच्यते ।। (आक्षेपभाष्यम्) क्व पुनः पृथगर्थानि, क्वैकार्थानि?।। (समाधानभाष्यम्) वाक्ये पृथगर्थानि राज्ञः पुरुषः इति। समासे पुनरेकार्थानि राजपुरुषः इति ।। (आक्षेपभाष्यम्) किमुच्यते ‐ पृथगर्थानीति। यावता राज्ञः पुरुष आनीयताम् इत्युक्ते राजपुरुष आनीयते। राजपुरुषः इति च स एव?। (समाधानभाष्यम्) नापि ब्रूमः ‐ अन्यस्यानयनं भवतीति ।। (एकार्थीभावफलनिरूपणाधिकरणम्) (व्यपेक्षावादिन आक्षेपभाष्यम्) कस्तर्ह्येकार्थीभावकृतो विशेषः?।। (एकार्थीभाववादिनः समाधानभाष्यम्) सुबलोपो व्यवधानं यथेष्टमन्यतरेणाभिसंबन्धः स्वर इति।। (सुबलोपोदाहरणसमन्वयभाष्यम्) सुबलोपो भवति वाक्ये ‐ राज्ञः पुरुष इति। समासे तु न भवति ‐ राजपुरुष इति ।। (व्यवधानोदाहरणसमन्वयभाष्यम्) व्यवधानं भवति वाक्ये ‐ राज्ञः ऋद्धस्य पुरुष इति। समासे तु न भवति ‐ राजपुरुष इति ।। (यथेष्टाभिसंबन्धोदाहरणसमन्वयभाष्यम्) यथेष्टमन्यतरेणाभिसंबन्धो भवति वाक्ये ‐ राज्ञः पुरुषः पुरुषो राज्ञ इति।। समासे न भवति ‐ राजपुरुष इति।। (स्वरोदाहरणसमन्वयभाष्यम्) द्वौ स्वरौ भवतो वाक्ये ‐ राज्ञः पुरुष इति। समासे पुनरेक एव ‐ राजपुरुष इति।। (समाधानबाधकव्यपेक्षावादिभाष्यम्) नैत एकार्थीभावकृता विशेषाः।। किं तर्हि?। वाचनिकान्येतीनि। आह हि भगवान् ‐ सुपोधातुप्रातिपदिकयोः उपसर्जनं पूर्वम् समासस्यान्त उदात्तो भवतीति।। (एकार्थीभाववादिसमाधानान्तरभाष्यम्) इमे तर्ह्योकार्थीभावकृता विशेषाः ‐ संख्याविशेषो व्यक्ताभिधानमुपसर्जनविशेषणं चयोग इति।। (संख्याविशेषोदाहरणसमन्वयभाष्यम्) संख्याविशेषो भवति वाक्ये ‐ राज्ञः पुरुषः राज्ञोः पुरुषः राज्ञां पुरुषं इति। समासे न भवति ‐ राजपुरुषः इति।। (संख्याविशेषानवगतौ कारणान्तरभाष्यम्) अस्ति कारणं येनैतदेवं भवति।। किं कारणम्?। योसौ विशेषवाची शब्दस्तदसांनिध्यात्। अङ्ग हि भवांस्तमुच्चारयतु गंस्यते स विशेषः ।। (कारणान्तरनिराकरणभाष्यम्) ननु च नैतेनैवं भवितव्यम्। नहि शब्दकृतेन नामार्थेन भवितव्यम्। अर्थकृतेन नाम शब्देन भवितव्यम् ।। (भाष्यम्) तदेतदेवं दृश्यताम् ‐ अर्थरूपमेवंजातीयं येनात्र विशेषो न गम्यत इति। अवश्यं चैतदेवं विज्ञेयम्। यो हि मन्यते ‐ योसौ विशेषवाची शब्दस्तदसांनिध्यादत्र विशेषो न गम्यते इति इह तस्य विशेषो गम्येत ‐ अप्सुचरो गोषुचरो वर्षासुज इति।। (व्यक्ताभिधानोदाहरमसमन्वयभाष्यम्) व्यक्ताभिधानं भवति वाक्ये ‐ ब्राह्मणस्य कम्बलस्तिष्ठति इति। समासे पुनरव्यक्ताभिधानं ब्राह्मणकम्बलस्तिष्ठति इति, संदेहो भवति - सम्बुद्धिर्वा स्यात्, षष्ठीसमासो वेति।। (विशेषबाधकभाष्यम्) एषोप्यविशेषः। भवति हि किंचिद्वाक्येऽव्यक्तम्, तच्च समासे व्यक्तम्। वाक्ये तावदव्यक्तम् ‐ अर्द्धं पशोर्देवदत्तस्य इति, संदेहो भवति ‐ पशुगुणस्य वा देवदत्तस्यार्द्धम्, अथ वा योसौ संज्ञीभूतः पशुर्नाम तस्य यदर्द्धमिति। तच्च समासे व्यक्तं भवति ‐ अर्धपशुर्देवदत्तस्येति।। (उपसर्जनविशेषणरूपविशेषोदाहरणभाष्यम्) उपसर्जनविशेषणं भवति वाक्ये ‐ ऋद्धस्य राज्ञः पुरुषः इति। समासे न भवति ‐ राजपुरुषं इति।। (बाधकभाष्यम्) एषोप्यविशेषः। समासेप्युपसर्जनविशेषणं भवति। तद्यथा ‐ देवदत्तस्य गुरुकुलं देवदत्तस्य गुरुपुत्रो देवदत्तस्य दासभार्येति।। (चयोगरूपविशेषोदाहरणसमन्वयभाष्यम्) चयोगो भवति वाक्ये स्वचयोगः स्वामिचयोगश्चेति।। स्वचयोगः ‐ राज्ञो गौश्चाश्वश्च पुरुषश्चेति। समासे न भवति ‐ राज्ञः गवाश्वपुरुषाः इति।। स्वामिचयोगः देवदत्तस्य च यज्ञदत्तस्य च विष्णुमित्रस्य च गौरिति। समासे न भवति ‐ देवदत्तयज्ञदत्तविष्णुमित्राणां गौरिति।। (आक्षेपभाष्यम्) अथैतस्मिन्नेकार्थीभावकृते विशेषे किं स्वाभाविकं शब्दैरर्थानामभिधानम्, आहोस्विद्वाचनिकम्?।। (समाधानभाष्यम्) स्वाभाविकमित्याह ।। कुत एतत्?।। अर्थानादेशनात्। न ह्यर्था आदिश्यन्ते। (आक्षेपभाष्यम्) कथं पुनरर्थानादिशन्नेवं ब्रूयात्-नार्था आदिश्यन्ते इति। यदाह भगवान् - अनेकमन्यपदार्थे चार्थे द्वन्द्वः अपत्ये, रक्ते, निर्वृत्ते, इति ।। (समाधानभाष्यम्) नैतान्यर्थादेशनानि। स्वभावत एतेषां शब्दानामेतेष्वर्थेष्वभिनिविष्टानां निमित्तत्वेनान्वाख्यानं क्रियते। तद्यथा ‐ कूपे हस्तदक्षिणः पन्थाः, अभ्रे चन्द्रमसं पश्य इति स्वभावतस्तस्य तत्रस्थस्य पथश्चन्द्रमसश्च निमित्तत्वेनान्वाख्यानं क्रियते। एवमिहापि चार्थे यः स द्वन्द्वः, अन्यपदार्थे यः स बहुव्रीहिरिति ।। (आक्षेपभाष्यम्) किं पुनः कारणमर्था नादिश्यन्ते?।। (समाधानभाष्यम्) तच्च लध्वर्थम्। लघ्वर्थं ह्यर्था नादिश्यन्ते। अवश्यं ह्यनेनार्थानादिशता केन चिच्छब्देन अर्थनिर्देशः कर्तव्यः स्यात्। तस्य च तावत्केन कृतः येनासौ क्रियते। अथ तस्य केनचित्कृतः, तस्य केन कृतः, तस्य केन कृत इत्यनवस्था च स्यात्।। असंभवः खल्वप्यर्थादेशनस्य। को हि नाम समर्थो धातुप्रातिपदिकप्रत्ययनिपातानामर्थानादेष्टुम्।। (आक्षेपभाष्यम्) न चैतन्मन्तव्यं प्रत्ययार्थे निर्दिष्टे प्रकृत्यर्थोऽनिर्दिष्ट इति। भवति हि गुणाभिधाने गुणिनः संप्रत्ययः। तद्यथा ‐ शुक्लः कृष्ण इति।। (समाधानभाष्यम्) विषम उपन्यासः। सामान्यशब्दा एत एवं स्युः। सामान्यशब्दाश्च नान्तरेण प्रकरणं विशेषं वा विशेषेष्ववतिष्ठन्ते। यतस्तु खलु नियोगतो वृक्ष इत्युक्ते स्वभावतः कस्मिंश्चिदेव विशेषे वृक्षशब्दो वर्तते, अतो मन्यामहे ‐ नेमे सामान्यशब्दा इति। न चेत्सामान्यशब्दाः, प्रकृतिः प्रकृत्यर्थे वर्तते। प्रत्ययः प्रत्यथार्थे वर्तते।। (समाधानान्तरभाष्म्) अप्रवृत्तिः खल्वप्यर्थादेशनस्य। बहवो हि शब्दा येषामर्था न विज्ञायन्ते ‐ जर्भरी तुर्फरीतू ।। अन्तरेण खल्वपि शब्दप्रयोगं बहवोर्था गम्यन्ते ‐ अक्षिनिकोचैः पाणिविहारैश्च।। न खल्वपि निर्ज्ञातस्यार्थस्यान्वाख्याने किंचिदपि प्रयोजनमस्ति। यो ब्रूयात्पुरस्तादादित्य उदेति पश्चादस्तं गच्छति, मधुरो गुडः, कटुकं श्रृङ्गवेरमिति। किं तेन कृतं स्यात्।। (1192 लाघवदर्शकवार्तिकम् ।। 3 ।।) ।। वावचनानर्थक्यं च स्वभावसिद्धत्वात् ।। (भाष्यम्) वावचनमनर्थकम्।। किं कारणम्?। स्वभावसिद्धत्वात्। इह द्वौ पक्षौ वृत्तिपक्षश्चावृत्तिपक्षश्चेति। स्वभावतश्चैतद्भवति ‐ वाक्यं च समासश्च। तत्र स्वाभाविके वृत्तिविषये नित्ये समासे प्राप्ते वावचनेन किमन्यच्छक्यमभिसंबन्धुमन्यदतः संज्ञायाः। न च संज्ञाया भावाभावाविष्येते। तस्मान्नार्थो वावचनेन ।। (अथ वृत्तिलक्षणभेदवर्णनाधिकरणम्।) (कार्यशब्दिकपक्षाक्षेपभाष्यम्) अथ ये वृत्तिं वर्तयन्ति, किं त आहुः?।। (समाधानभाष्यम्) परार्थाभिधानं वृत्तिरित्याहुः।। (आक्षेपभाष्यम्) अथ तेषामेवं ब्रुवतां किं जहत्स्वार्था वृत्तिर्भवति, आहोस्विदजहत्स्वार्था भवति?।। किं चातः?। यदिजहत्स्वार्था वृत्तिः राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राप्न्तोति, औपगवमानयेत्युक्ते अपत्यमात्रस्येति।। अथाजहत्स्वार्था वृत्तिः, उभयोर्विद्यमानस्वार्थयोर्द्वयोर्द्विवचनमिति द्विवचनं प्राप्नोति।। का पुनर्वृत्तिर्न्याय्या?।। (समाधानभाष्यम्) जहत्स्वार्था।। (आक्षेपभाष्यम्) युक्तं पुनर्जहत्स्वार्था नाम वृत्तिः स्यात्?।। (समाधानभाष्यम्) बाढं युक्तम्। एव हि दृश्यते लोके ‐ पुरुषोयं परकर्मणि प्रवर्तमानः स्वं कर्म जहाति। तद्यथा ‐ तक्षा राजकर्मणि प्रवर्तमानः स्वं तक्षकर्म जहाति। एवं युक्तं यद्राजा पुरुषार्थे वर्तमानः स्वमर्थं जह्याद्। उपगुश्चापत्यार्थे वर्तमानः स्वमर्थं जह्यात्।। (आक्षेपस्मारणभाष्यम्) ननु चोक्तं राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राप्नोति। औपगवमानयेत्युक्तेऽपत्यमात्रस्येति।। (समाधानभाष्यम्) नैष दोषः। जहदप्यसौ स्वार्थं नात्यन्ताय जहाति, यः परार्थविरोधी स्वार्थस्तं जहाति। तद्यथा ‐ तक्षा राजकर्मणि प्रवर्तमानः स्वं तक्षकर्म जहाति, न तु हिक्कितहसितकण्डूयितानि। न चायमर्थः परार्थविरोधी विशेषणं नाम। तस्मात्तन्न हास्यति।। (समाधानान्तरभाष्यम्) अथ वाऽन्वंयाद्विशेषणं भविष्यति। तद्यथा ‐ घृतघटस्तैलघट इति । निषिक्ते घृते तैले चान्वयाद्विशेषणं भवति ‐ अयं घृतघटोऽयं तैलघट इति।। (समाधानान्तरबाधकभाष्यम्) विषम उपन्यासः। भवति हि तत्र या च यावती चार्थमात्रा। अङ्ग हि भवानग्नौ निष्टप्य घृतघटं तृणकूर्चेन प्रक्षालयतु न गंस्यते स विशेषः।। (समाधानसाधकभाष्यम्) यथा तर्हि मल्लिकापुटश्चम्पकपुट इति। निष्कीर्णास्वपि सुमनः सु अन्वयाद्विशेषणं भवति ‐ अयं मल्लिकापुटः, अयं चम्पकपुट इति।। (समाधानान्तरभाष्यम्) अथ वा समर्थाधिकारोयं वृत्तौ क्रियते। सामर्थ्यं नाम भेदः, संसर्गो वा।। अपर आह ‐ भेदसंसर्गौ वा सामर्थ्यमिति।। कः पुनर्भेदः संसर्गो वा?। इह राज्ञ इत्युक्ते सर्वं स्वं प्रसक्तम्, पुरुष इत्युक्ते सर्वः स्वामी प्रसक्तः। इहेदानीं राजपुरुषमानयेत्युक्ते राजा पुरुषं निवर्तयत्यन्येभ्यः स्वामिभ्यः, पुरुषोपि राजानमन्येभ्यः स्वेभ्यः। एवमेतस्मिन्नुभयतो व्यवच्छिन्ने यदि स्वार्थं जहाति कामं जहातु न जातुचित्पुरुषमात्रस्यानयनं भविष्यति।। (अथाजहत्स्वार्थाङ्गीकारभाष्यम्) अथ वा पुनरस्त्वजहत्स्वार्था वृत्तिः ।। (आक्षेपभाष्यम्) युक्तं पुनरिदं यदजहत्स्वार्था नाम वृत्तिः स्यात्?।। (समाधानभाष्यम्) बाढं युक्तम्। एवं हि दृश्यते लोके भिक्षुकोयं द्वितीयां भिक्षां समासाद्य पूर्वां न जहाति। संचयायैव प्रवर्तते।। (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् ‐ उभयोर्विद्यमानस्वार्थयोर्द्वयोर्द्विवचनमिति द्विवचनं प्राप्नोति ‐ इति ।। (प्रत्याक्षेपभाष्यम्) कस्याः पुनर्द्विवचनं प्राप्नोति?।। (आक्षेपाशयभाष्यम्) प्रथमायाः ।। (समाधानभाष्यम्) न प्रथमासमर्थो राजा।। (आक्षेपाशयान्तरभाष्यम्।) षष्ठ्यास्तर्हि प्राप्नोति।। (समाधानभाष्यम्) न षष्ठीसमर्थः पुरुषः।। (पूर्वोक्ताशयाभ्युपगमभाष्यम्) प्रथमाया एव तर्हि प्राप्नोति।। (बाधकस्मारणभाष्यम्) ननु चोक्तम् ‐ न प्रथमासमर्थो राजा ‐ इति।। (आक्षेपाशयसाधकभाष्यम्) अभिहितः सोर्थोन्तर्भूतः प्रातिपदिकार्थः संपन्नः। तत्र प्रातिपदिकार्थे प्रथमेति प्रथमाया एव द्विवचनं प्राप्नोति।। (1193 समाधानवार्तिकम् ।। 4 ।।) ।। संघातस्यैकार्थ्यान्नावयवसंख्यातः सुबुत्पत्तिः ।। (भाष्यम्) संघातस्यैकत्वमर्थः। तेनावयवसंख्यातः सुबुत्पत्तिर्न भविष्यति।। (1194 पक्षान्तरवार्तिकम् ।। 5 ।।) ।। परस्परव्यपेक्षां सामर्थ्यमेके ।। (व्याख्याभाष्यम्) परस्परव्यपेक्षां सामर्थ्यमेक इच्छन्ति ।। का पुनः शब्दयोर्व्यपेक्षा?। न ब्रूमः ‐ शब्दयोरिति।। किं तर्हि?। अर्थयोः। इह राज्ञः पुरुष इत्युक्ते राजा पुरुषमपेक्षते ममायमिति; पुरुषोपि राजानमपेक्षते अहमस्येति। तयोरभिसंबन्धस्य षष्ठी वाचिका भवति। तद्यथा ‐ कष्टं श्रित इति क्रियाकारकयोरभिसंबन्धस्य द्वितीया वाचिका भवति।। (आक्षेपभाष्यम्) अथ यद्येवैकार्थीभावः सामर्थ्यम् अथापि व्यपेक्षा सामर्थ्यम्। किं गतमेतदियता सूत्रेण, आहोस्विदन्यतरस्मिन्पक्षे भूयः सूत्रं कर्तव्यम्?।। (समाधानभाष्यम्) गतमित्याह।। कथम्?। समोयमर्थशब्देन सहसमासः। सम् चोपसर्गः। उपसर्गाश्च पुनरेवमात्मकाः ‐ यत्र कश्चित् क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषमाहुः। न चेह कश्चित् क्रियावाची शब्दः प्रयुज्यते, येन समः सामर्थ्यं स्यात्। तत्र प्रयोगादेतद्गन्तव्यम् ‐ नूनमत्र कश्चित् प्रयोगार्हः शब्दो न प्रयुज्यते येन समः सामर्थ्यम् इति। तद्यथा ‐ धूमं दृष्ट्वा ‐ अग्निरत्र इति गम्यते,त्रिविष्टब्धकं दृष्ट्वा परिव्राजक इति।। कः पुनरसौ प्रयोगार्हः शब्दो न प्रयुज्यते?।। उच्यते सङ्गतार्थं समर्थं संसृष्टार्थं समर्थं संप्रेक्षितार्थं समर्थं संबद्धार्थं समर्थमिति।। तद्यदा तावदेकार्थीभावः सामर्थ्यम्, तदैवं विग्रहः करिष्यते ‐ सङ्गतार्थः समर्थः, संसृष्टार्थः समर्थ इति। तद्यथा ‐ सङ्गतं घृतं सङ्गतं तैलम् इत्युच्यते, एकीभूतमिति गम्यते। संसृष्टार्थः समर्थ इति। तद्यथा ‐ संसृष्टोऽग्निः इत्युच्यते, एकीभूत इति गम्यते।। यदा व्यपेक्षा सामर्थ्यम्, तदैवं विग्रहः करिष्यते ‐ संप्रेक्षितार्थः समर्थः संबद्धार्थः समर्थ इति।। कः पुनरिह संबध्नात्यर्थः?।। व्यतिषङ्गः ।। संबद्ध इत्युच्यते यो रज्ज्वा अयसा वा कीलेन वा व्यतिषक्तो भवति।। नावश्यं बध्नातिर्व्यतिषङ्ग एव वर्तते। किं तर्हि? अहानावपि वर्तते। तद्यथा ‐ संबद्धाविमौ दम्यौ इत्युच्यते यावन्योन्यं न जहीतः।। अथ वा भवति चैवंजातीयकेषु बध्नातिर्वर्तते। तद्यथाअस्ति नो गर्गैः संबन्धः अस्ति नो वत्सैः संबन्धः इति ।। (सामर्थ्यदूषणाधिकरणम्) (व्यपेक्षादूषणाभाष्यम्) अथैतस्मिन्व्यपेक्षायां सार्मथ्ये योसावेकार्थीभावकृतो विशेषः स वक्तव्यः ।। (1195 दूषणदर्शकवार्तिकम् ।। 6 ।। ।। तत्र नानाकारकान्निघातयुष्मदस्मदादेशप्रतिषेधः ।। (भाष्यम्) तत्रैतस्मिन् व्यपेक्षायां सार्मथ्ये सति नानाकारकान्निघातयुष्मदस्मदादेशाः प्राप्नुवन्ति तेषां प्रतिषेधो वक्तव्यः ।। निघात ‐ अयं दण्डो हरानेन। अस्ति दण्डस्य हरतेश्च व्यपेक्षेति कृत्वा निघातः प्राप्नोति ।। युष्मदस्मदादेशाः ‐ ओदनं पच तव भविष्यति। ओदनं पच मम भविष्यति। अस्त्योदनस्य युष्मदस्मदोश्च व्यपेक्षेति कृत्वा वान्नावादयः प्राप्नुवन्ति।। तेषां प्रतिषेधो वक्तव्यः ।। (आक्षेपभाष्यम्) किमुच्यते ‐ नानाकारकादिति, यदा तेनैवासज्य ह्रियते।। (समाधानभाष्यम्) नापि ब्रूमः ‐ अन्येनासज्य ह्रियत इति।। किं तर्हि?। शब्दप्रमाणका वयम्। यच्छब्द आह, तदस्माकं प्रमाणम्। शब्दश्चेह सत्तामाह ‐ अयं दण्डः अस्तीति गम्यते। स दण्डः कर्ता भूत्वान्येन शब्देनाभिसंबध्यमानः करणं संपद्यते। तद्यथा ‐ कश्चित्कंचित्पृच्छति ‐ क्व देवदत्तः इति। स तस्मायाचष्टे ‐ असौ वृक्षे इति कतरस्मिन् ठयस्तिष्ठति इति स वृक्षोधिकरणं भूत्वाऽन्येन शब्देनाभिसंबध्यमानः कर्ता संपद्यते।। (1196 दूषणान्तरवार्तिकम् ।। 7 ।।) ।। प्रचये समासप्रतिषेधः ।। (भाष्यम्) प्रचये समासप्रतिषेधो वक्तव्यः। राज्ञो गौश्चाऽश्वश्च पुरुषश्च राजगवाश्वपुरुषा इति।। (1197 द्वितीयदूषणबाधकवार्तिकम् ।। 8 ।।) ।। समर्थतराणां वा ।। (व्याख्याभाष्यम्) समर्थतराणां वा पदानां समासो भविष्यति।। कानि पुनः समर्थतराणि?। यानि द्वन्द्वभावीनि।। कुत एतत्?। एषां ह्याशुतरा वृत्तिः प्राप्नोति। तद्यथा ‐ समर्थतरोयं माणवकोऽध्ययनाय इत्युच्यते आशुतरग्रन्थः इति गम्यते।। (व्याख्यान्तरभाष्यम्) अपर आह ‐ समर्थतराणां वा पदानां समासो भविष्यति।। कानि पुनः समर्थतराणि?। यानि द्वन्द्वभावीनि। कुत एतत्?। समानविभक्तीन्येतानि, अन्यविभक्ती राजा। भवति विशेषः स्वस्मिन् भ्रातरि पितृव्यपुत्रे च।। (1198 द्वितीयदूषणबाधकवार्तिकान्तरम् ।। 9 ।।) ।। समुदायसार्मथ्याद्वा सिद्धम् ।। (व्याख्याभाष्यम्) समुदायसार्मथ्याद्वा पुनः सिद्धमेतत्। समुदायेन राज्ञः सामर्थ्यं भवति, नावयवेन।। (व्याख्यान्तरभाष्यम्) अपर आह ‐ (व्याख्यान्तराय न्यासान्तरम्) । समर्थतराणां वा समुदायसार्मथ्यात् । ।। (व्याख्याभाष्यम्) समर्थतराणां वा पदानां समासो भविष्यति।। कुत एतत्?। समुदायसार्मथ्यादेव।। (आक्षेपभाष्यम्) अस्मिन्पक्षे वा इत्येतदसमर्थितं भवति।। (समाधानभाष्यम्) एतच्च समर्थितम्।। कथम्?। नैव वा पुनरत्र राज्ञोश्वपुरुषावपेक्षमाणस्य गवा सह समासो भवति।। कथं तर्हि गोः राजानमपेक्षमाणस्याश्वपुरुषाभ्यां सह समासो भवति?।। प्रधानमत्र तदा गौर्भवति। भवति च प्रधानस्य सापेक्षस्यापि समासः।। (वाक्यलक्षमाधिकरणम्) (1199 वाक्यलक्षणावार्तिक्म् ।। 10 ।।) ।। आख्यातं साव्ययकारकविशेषणं वाकम् ।। (व्याख्याभाष्यम्) आख्यातं साव्ययं सकारकं सकारकविंशेषणं वाक्यसंज्ञं भवतीति वक्तव्यम्।। साव्ययम् ‐ उच्चैः पठति नीचैः पठतीति।। सकारकम् ‐ ओदनं पचति।। सकारकविशेषणम् ‐ ओदनं मृदु विशदं पचति ।। (1200 वाक्यलक्षणवार्तिकम् ।। 11 ।।) ।। सक्रियाविशेषणं च ।। (व्याख्याभाष्यम्) सक्रियाविशेषणं चेति वक्तव्यम्। सुष्ठु पचति दुष्ठु पचतीति।। (वाक्यलक्षणन्यासान्तरभाष्यम्) अपर आह ‐ आख्यातं सविशेषणम् इत्येव। सर्वामि ह्येतानि विशेषणानि ।। (1201 वाक्यलक्षणान्तरवार्तिकम् ।। 12 ।।) ।। एकतिङ् ।। (व्याख्याभाष्यम्) एकतिङ् वाक्यसंज्ञं भवतीति वक्तव्यम्। ब्रूहि ब्रूहि ।। (1202 वाक्यलक्षणप्रयोजनवार्तिकम्।। 13 ।।) ।। समानवाक्ये निघातयुष्मदस्मदादेशाः ।। (व्याख्याभाष्यम्) समानवाक्य इति प्रकृत्य निघातयुष्मदस्मदादेशा वक्तव्याः।। किं प्रयोजनम् ?। नानावाक्येषु मा भूवन्निघातादय इति। अयं दण्डो हरानेन। ओदनं पच तव भविष्यति। ओदनं पच मम भविष्यति।। (1203 दूषणवार्तिकम् ।। 14 ।।) ।। योगे प्रतिषेधश्चादिभिः ।। (व्याख्याभाष्यम्) चादिभिर्योगे प्रतिषेधो वक्तव्यः। ग्रामस्तव च स्वं मम च स्वम्।। (आक्षेपभाष्यम्) किमर्थमिदमुच्यते। यथान्यास एव चादिभिर्योगे प्रतिषेध उच्यते?।। (समाधानभाष्यम्) इदमद्यापूर्वं क्रियते वाक्यसंज्ञा समानवाक्याधिकारश्च। तद् द्वेष्यं विजानीयात् सर्वमेतद्विकल्पत इति। तदाचार्यः सुहृद् भूत्वान्वाचष्टे चादिभिर्योगे यथान्यासमेव भवतीति। सा चावश्यं वाक्यसंज्ञा वक्तव्या समानवाक्याधिकारश्च वक्तव्यः ।। (1204 नियमफलवार्तिकम् ।। 15 ।।) ।। समर्थनिघाते हि समानाधिकरणयुक्तयुक्तेषूपसंख्यानमसमर्थत्वात् ।। (व्याख्याभाष्यम्) समर्थनिघाते हि सति समानाधिकरणयुक्तयुक्तेषूपसंख्यानं कर्तव्यं स्यात्।। समानाधिकरणपटवे ते दास्यामि, मृदवे ते दास्यामि।। समानाधिकरण।। युक्तयुक्ते ‐ नद्यास्तिष्ठति कूले, वृक्षस्य लम्बते शाखायम्, शालीनां ते ओदनं ददामि, शालीनां मे ओदनं ददासि।। किं पुनः कारणं न सिद्ध्यति?। असमर्थत्वात्।। (अथ राजगवीक्षीरे समासनिर्णयाधिकरणम्) (1205 आक्षेपवार्तिकम् ।। 16 ।।) ।। राजगवीक्षीरे द्विसमासप्रसङ्गो द्विषष्ठीभावात् ।। (व्याख्याभाष्यम्) राजगवीक्षीरे द्विसमासप्रसङ्गः।। किं कारणम्?। द्विषष्ठीभावात्। द्वे ह्यत्र षष्ठ्यौ राज्ञः गोः क्षीरमिति।। (आक्षेपबाधकभाष्यम्) किमुच्यते ‐ द्विसमासप्रसङ्ग इति। यदा सुप्सुपेति वर्तते न तदा द्विसमासप्रसङ्ग इति ?।। (आक्षेपाशयभाष्यम्) नैवं विज्ञायते ‐ द्वयोः सुबन्तयोः समासप्रसङ्गो द्विसमासप्रसङ्ग इति।। कथं तर्हि?। द्विप्रकारस्य समासस्य प्रसङ्गो द्विसमासप्रसङ्ग इति।। राजगोक्षीरम् इत्यपि प्राप्नोति।। (तृतीयाक्षेपभाष्यम्) न चैवं भवितव्यम्?।। (तृतीयाक्षेपसमाधानभाष्यम्) भवितव्यं च यदैतद्वाक्यं भवति ‐ गौः क्षीरं गोक्षीरम्; राज्ञो गोक्षीरं राजगोक्षीरमिति। यदा त्वेतद्वाक्यं भवति ‐ राज्ञो गोः क्षीरमिति, तदा न भवितव्यम्, तदा च प्राप्नोति।। तदा कस्मान्न भवति?।। (1206 समाधानवार्तिकम् ।। 17 ।।) ।। सिद्धं तु राजविशिष्टाया गोः क्षीरेण सार्मथ्यात् ।। (व्याख्याभाष्यम्) सिद्धमेतत्।। कथम्?। राजविशिष्टाया गोः क्षीरेण सह समासो भवति, न केवलायाः।। किं वक्तव्यमेतत्?। नहि।। कथमनुच्यमानं गंस्यते?। यथैवायं गवि यतते, न च क्षीरमात्रेण संतोषं करोति। एवं राजन्यपि यतते राज्ञो या गौस्तस्या यत् क्षीरमिति।। (समाधानान्तरभाष्यम्) नैव वा पुनरत्र गो राजानमपेक्षमाणायाः क्षीरेण सह समासः प्राप्नोति।। किं कारणम्?। असर्मथ्यात्।। कथमसामर्थ्यम्?। सापेक्षमसमर्थं भवतीति।। (आक्षेपभाष्यम्) कथं तर्हि गोः क्षीरमपेक्षमाणाया राज्ञा सह समासो भवति?।। (समाधानभाष्यम्) प्रधानमत्र तदा गौर्भवति। भवति च प्रधानस्य सापेक्षस्यापि समासः ।। (पदविधिग्रहणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अथ किमर्थं पदविधौ समर्थाधिकारः क्रियते?।। (1207 समाधानवार्तिकम् ।। 18 ।।) ।। पदविधौ समर्थवचनं वर्णाश्रये शास्त्र आनन्तर्यविज्ञानात् ।। (व्याख्याभाष्यम्) पदविधौ समर्थाधिकारः क्रियते। वर्णाश्रये शास्त्रे आनन्तर्यमात्रे कार्यं यथा विज्ञायेतेति। तिष्ठतु दध्यशान त्वं शाकेन तिष्ठतु कुमारी च्छत्रं हर देवदत्तेति।। (निर्देशानर्थक्यपरिहाराधिकरणम्) (1208 आक्षेपवार्तिकम् ।। 19 ।।) ।। समर्थाधिकारस्य विधेयसामानाधिकरण्यान्निर्देशानर्थक्यम् ।। (व्याख्याभाष्यम्) समर्थाधिकारोयं विधेयेन समानाधिकरण:। किं च विधेयम्?। समासः।। यावद् ब्रूयात् ‐ समर्थः समासः इति, तावत् ‐ समर्थः पदविधिः इति। न च राजपुरुष इत्येतस्यामवस्थायां समर्थाधिकारेण किंचिदपि शक्यं प्रवर्तयितुं निवर्तयितुं वा। समर्थाधिकारस्य विधेयसामानाधिकरण्याद् निर्देशोनर्थकः ।। (1209 समाधानवार्तिकम् ।। 20 ।।) ।। सिद्धं तु समर्थानामिति वचनात् ।। (व्याख्याभाष्यम्) सिद्धमेतत्।। कथम्?।। समर्थानां पदानां विधिर्भवतीति वक्तव्यम्।। (आक्षेपभाष्यम्) एवमपि द्व्येकयोर्न प्राप्नोति।। (1210 समाधानवार्तिकम् ।। 21 ।।) ।। एकशेषनिर्देशाद्वा ।। (व्याख्याभाष्यम्) अथ वा एकशेषनिर्देशोयम्। समर्थस्य च समर्थयोश्च समर्थानां च समर्थानामिति।। (आक्षेपभाष्यम्) एवमपि षट्प्रभृतीनामेव प्राप्नोति। षट्प्रभृतिषु ह्येकशेषः परिसमाप्यते।। (समाधानभाष्यम्) नैष दोषः। प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टेति द्व्येकयोरपि भविष्यति।। (आक्षेपभाष्यम्) एवमपि विभक्तीनां न प्राप्नोति ‐ समर्थात्समर्थे पदात्पद इति। (समाधानभाष्यम्) एवं तर्हि समर्थपदयोरयं विधिशब्देन सर्वविभक्त्यन्तः समासः ‐ समर्थस्य विधिः समर्थविधिः, समर्थयोर्विधिः समर्थविधिः, समर्थानां विधिः समर्थविधिः, समर्थाद्विधिः समर्थविधिः, समर्थे विधिः समर्थविधिः। पदस्य विधिः पदविधिः, पदयोर्विधिः पदविधिः, पदानां विधिः पदविधिः, पदाद्विधिः पदविधिः, पदे विधिः पदविधिः। समर्थविधिश्च समर्थविधिश्च समर्थविधिश्च समर्थविधिश्च समर्थविधिश्च समर्थविधयः। पदविधिश्च पदविधिश्च पदविधिश्च पदविधिश्च पदविधिश्च पदविधयः। सामर्थविधयश्च पदविधयश्च समर्थः पदविधिः। पूर्वः समास उत्तरपदलोपी। यादृच्छिकी विभक्तिश्च।। (सामानाधिकरण्योपपादनाधिकरणम्) (1211 आक्षेपवार्तिकम् ।। 22 ।।) ।। समानाधिकरणेषूपसंख्यानमसमर्थत्वात् द्रव्यं पदार्थ इति चेत् ।। (भाष्यम्) समानाधिकरणेषूपसंख्यानं कर्तव्यम्। वीरः पुरुषो वीरपुरुषः।। किं पुनः कारणं न सिद्ध्यति?। असमर्थत्वात्।। कथमसामर्थ्यम्?। द्रव्यं पदार्थ इति चेत्। यदि द्रव्यं पदार्थः, न भवति तदा सामर्थ्यम्। भेदाभावात्। अथ हि गुणः पदार्थः, भवति तदा सामर्थ्यम्। अन्यो हि वीरत्वं गुणः, अन्यो हि पुरुषत्वम्।। (अन्यत्वस्य समार्थ्यहेतुत्वबाधकभाष्यम्) न अन्यत्वमस्ति इतीयता सामर्थ्यं भवति। अन्यो हि देवदत्तो गोभ्यश्चाश्वेभ्यश्च। न च तस्यैतावता सामर्थ्यं भवति।। (प्रत्याक्षेपभाष्यम्) को वा विशेषः यद् गुणे पदार्थे सामर्थ्यं स्यात्। द्रव्ये च न स्याद्?।। (प्रत्याक्षेपसमाधानभाष्यम्) एष विशेषः। एकं तयोरधिकरणम्। अन्यश्च वीरत्वं गुणः, अन्यः पुरुषत्वम्।। (समाधानबाधकभाष्यम्) द्रव्यपदार्थिकस्यापि तर्हि गुणभेदात्सार्मथ्यं भविष्यति प्र्प्र् (समाधानसाधकभाष्यम्) अशक्यो द्रव्यपदार्थिकेन द्रव्यस्य गुणकृत उपकारः प्रतिज्ञातुम् ।। (समाधानबाधकभाष्यम्) ननु चाभ्यन्तरोसौ भवति।। (समाधानसाधकभाष्यम्) यद्यप्यभ्यन्तरः, न तु गम्यते। नहि गुड इत्युक्ते मधुरत्वं गम्यते, श्रृङ्गवेरमिति वा कटुकत्वम्।। (समाधानबाधकभाष्यम्) गुणपदार्थिकेनापि तर्हि अशक्यो गुणस्य द्रव्यकृत उपकारः प्रतिज्ञातुम्। (समाधानसाधकभाष्यम्) अथ गुणपदार्थिकः प्रतिजानीते।। (प्रतिबन्दीभाष्यम्) द्रव्यपदार्थिकोपि कस्मान्न प्रतिजानीते?।। (प्रतिबन्दीबाधकभाष्यम्) एवमनयोः सामर्थ्यं स्याद्वा न वा।। (प्रत्याक्षेपभाष्यम्) क्व च तावदिदं स्यात् ‐ समानाधिकरणेनेति?।। (प्रत्याक्षेपबाधकभाष्यम्) यत्र सर्वं समानम् ‐ इन्द्रः शक्रः पुरुहूतः पुरंदरः कन्दुः कोष्ठः कुसूलः इति। (प्रत्याक्षेपसाधकभाष्यम्) नैवंजातीयकानां समासेन भवितव्यं प्रत्ययेन वोत्पत्तव्यम्।। किं कारणम्?। अर्थगत्यर्थः शब्दप्रयोगः। अर्थं संप्रत्याययिष्यामीति शब्दः प्रयुज्यते। तत्रैकेनोक्तत्वात्तस्यार्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम्। किं कारणम्? उक्तार्थानामप्रयोग इति।। (आक्षेपभाष्यम्) न तर्हीदानीमिदं भवति ‐ भृत्यभरणीय इति?।। (समाधानभाष्यम्) नैतौ समानार्थौ। एकोत्र शक्यार्थे कृत्यः, अपरोर्हे। शक्यो भर्तुं भृत्यः। अर्हति भृतिं (भरणीयः। भृत्यो भरणीयो भृत्य) भरणीय इति।। (आक्षेपभाष्यम्) यदि तर्हि यत्र किंचित्समानं कश्चिच्च विशेषः तत्र भवितव्यम्। इहापि तर्हि प्राप्नोति ‐ दर्शनीयाया माता दर्शनीया मातेति। अत्रापि किंचित्समानं कश्चिच्च विशेषः। किं पुनस्तत्?। सद्भावान्यभावौ।। (समाधानभाष्यम्) न क्वचित्सद्भावान्यभावौ न स्तः, उच्यते चेदं समानाधिकरणेनेति, तत्र प्रकर्षगतिर्विज्ञास्यते ‐ यत्र साधीयः सामानाधिकरण्यम्।। क्व च साधीयः सामानाधिकरण्यम्?। यत्र सर्वं समानं सद्भावान्यभावौ द्रव्यं च।। (समाधानान्तरभाष्यम्) अथ वा समानाधिकरणेनेति तत्समानमाश्रीयते यत्समानं भवति, न भवति च। न चैतत्समानं क्वचिदपि न भवति।। (समाधानान्तरभाष्यम्) अथ वा यावद् ब्रूयात् ‐ समानद्रव्येणेति, तावत् ‐ समानाधिकरणेनेति। द्रव्यं हि लोके अधिकरणम् इत्युपचर्यते। तद्यथा ‐ एकस्मिन्द्रिव्ये व्युदितम्। एकस्मिन्नधिकरणे व्युदितम्। तथा व्याकरणे विप्रतिषिद्धं चानधिकरणवाचि अद्रव्यवाचीति गम्यते।। (आक्षेपभाष्यम्) एवमपीदमवश्यं वक्तव्यम् ‐ समानाधिकरणमसमर्थवद्भवति इति।। किं प्रयोजनम्?। सर्पिःकालकं यजुः पीतकम् इत्येवमर्थम्।। (प्रत्याक्षेपभाष्यम्) यदि समानाधिकरणमसमर्थवद्भवति इत्युच्यते सर्पिष्पीयते यजुष्क्रियत इत्यत्र षत्वं न प्राप्नोति।। (प्रत्याक्षेपबाधकभाष्यम्) अधात्वभिहितमित्येवं तत्।। (उपसंहारभाष्यम्) एवं च कृत्वा समानाधिकरणेषूपसंख्यानं कर्तव्यम्। वीरः पुरुषो वीरपुरुष इति। किं कारणम्?। असमर्थत्वात्?। (1212 समाधानवार्तिकम्।। 23 ।।) ।। न वा वचनप्रामाण्यात् ।। (व्याख्याभाष्यम्) न वा कर्तव्यम्।। किं कारणम्?। वचनप्रामाण्यात्। वचनप्रामाण्यादत्र समासो भविष्यति।। किं वचनप्रामाण्यम्?। समानमध्यमध्यमवीराश्च इति।। (1213 आक्षेपसमाधानातिदेशवार्तिकम् ।। 24 ।।) ।। लुप्ताख्यातेषु च ।। (व्याख्याभाष्यम्) लुप्ताख्यातेषु चोपसंख्यानं कर्तव्यम्। निष्कौशाम्बिः निर्वाराणसिः।। लुप्ताख्यातेषु च। किम्?। वचनप्रामाण्यादित्येव।। किं वचनप्रामाण्यम्?। कुगतिप्रादयः इति।। (समाधानबाधकभाष्यम्) अस्त्यन्यदेतस्य वचने प्रयोजनम्।। किम् ?। सुराजा अतिराजेति।। (समाधानाशयभाष्यम्) न ब्रूमो वृत्तिसूत्रवचनप्रामाण्यादिति। किं तर्हि?। वार्त्तिकवचनप्रामाण्यादिति। । सिद्धं तु क्वाङ्स्वतिदुर्गतिवचनात् ।। प्रादयः क्तार्थे । इति।। (1214 समाधानान्तरवार्तिकम् ।। 25 ।।) ।। तदर्थगतेर्वा ।। (भाष्यम्) तदर्थगतेर्वा पुनः सिद्धमेतत्।। किमिदं तदर्थगतेरिति?। तस्यार्थस्तदर्थः तदर्थस्य गतिस्तदर्थगतिस्तदर्थगतेरिति। यस्यार्थस्य कौशाम्ब्या सामर्थ्यं स निसोच्यते।। अथ वा सोर्थस्तदर्थः तदर्थस्य गतिस्तदर्थगतिस्तदर्थगतेरिति। योर्थः कौशाम्ब्या समर्थः स निसोच्यते।। (अथ समासयोग्यपदसंख्यानिर्णयाधिकरणम्) (आक्षेपभाष्यम्) अथ यत्र बहूनां समासप्रसङ्गः किं तत्र द्वयोर्द्वयोः समासो भवति, आहोस्विदविशेषेण?।। (विशेषजिज्ञासाभाष्यम्) कश्चात्र विशेषः?।। (1215 प्रथमपक्षे दूषणवार्तिकम् ।। 26 ।।) ।। समासो द्वयोर्द्वयोश्चेद् द्वन्द्वेनेकग्रहणम् ।। (व्याख्याभाष्यम्) समासो द्वयोर्द्वयोश्चेद् द्वन्द्वेनेकग्रहणं कर्तव्यम्। चार्थे द्वन्द्वेनेकमिति वक्तव्यम्। इहापि यथास्यात् ‐ प्लक्षन्यग्रोधखदिरपलाशा इति।। (दूषणबाधकभाष्यम्) नैष दोषः। अत्रापि द्वयोर्द्वयोः समासो भविष्यति।। (1216 दूषणसाधकवार्तिकम् ।। 27 ।।) ।। द्वयोर्द्वयोः समास इति चेन्न बहुषु द्वित्वाभावात् ।। (व्याख्याभाष्यम्) द्वयोर्द्वयोः समास इति चेत्। तन्न। किं कारणम्?। बहुषु द्वित्वाभावात्। न बहुषु द्वित्वमस्ति।। (आक्षेपबाधकभाष्यम्) नावश्यमेवं विग्रहः कर्तव्यः ‐ प्लक्षश्च न्यग्रोधश्च खदिरश्च पलाशश्चेति।। किं तर्हि?। एवं विग्रहः करिष्यते ‐ प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ, खदिरश्च पलाशश्च खदिरपलाशौ, प्लक्षन्यग्रोधौ च खदिरपलाशौ च प्लक्षन्यग्रोधखदिरपलाशा इति।। (आक्षेपसाधकभाष्यम्) होतृपोतृनेष्टोद्गातारः तर्हि न सिद्ध्यन्ति। होतापोतानेष्टोद्गातार इति प्राप्नोति।। (प्रत्याक्षेपभाष्यम्) न चैतदेवं भवितव्यम्?।। (प्रत्याक्षेपबाधकभाष्यम्) भवितव्यं च, यदैवं विग्रहः क्रियते ‐ होता च पोता च होतापोतारौ, नेष्टा चोद्गाता च नेष्टोद्गातारौ, होतापोतारौ च नेष्टोद्गातारौ च होतापोतानेष्टोद्गातार इति। होतृपोतृनेष्टोद्गातारस्तु न सिद्ध्यन्ति।। (1217 दूषणान्तरवार्तिकम् ।। 28 ।।) ।। समासान्तप्रतिषेधश्च ।। (व्याख्याभाष्यम्) समासान्तस्य च प्रतिषेधो वक्तव्यः। वाक्त्वक्स्त्रुग्दृषदमिति। वाक्त्वचस्रुग्दृषदमिति प्राप्नोति।। (आक्षेपबाधकभाष्यम्) नैष दोषः। अत्रापि परेण सह समासो भविष्यति। स्रुक्च दृषच्च स्रुग्दृषदं त्वक् च स्रुग्दृषदं च त्वक्स्रुग्दृषदम्। वाक् च त्वक्स्रुग्दृषदं च वाक्त्वक्स्रुग्दृषदमिति।। (प्रथमाक्षेपदाढर्‌यभाष्यम्) होतृपोतृनेष्टोद्गातार एव तर्हि न सिद्ध्यति।। (आक्षेपान्तरभाष्यम्) इह च ‐ सुसूक्ष्मजटकेशेन सुनताजिनवाससा। समन्तशितिरन्ध्रेण द्वयोर्वृत्तौ न सिद्ध्यति।। (द्वितीयपक्षाभ्युपगमभाष्यम्) अस्तु तर्ह्यविशेषेण।। (1218 आक्षेपवार्तिकम् ।। 29 ।।) ।। अविशेषेण बहुव्रीहावनेकपदप्रसङ्गः (तत्र स्वरसमासान्तपुंवद्भावेषु दोषः)।।। (भाष्यम्) यद्यविशेषेण बहुव्रीहावनेकपदप्रसङ्गः।। तत्र को दोषः?। तत्र स्वरसमासान्तपुंवद्भावेषु दोषः। तत्र स्वरसमासान्तपुंवद्भावेषु दोषो भवति। स्वर ‐ पूर्वशालाप्रियः अपरशालाप्रियः। स्वर।। समासान्त ‐ पञ्चगवप्रियः पञ्चनावप्रियः। समासान्त।। पुंवद्भाव ‐ खादिरेतरशम्यम् ।। (1219 समाधानवार्तिकम् ।। 30 ।) ।। न वावयवतत्पुरुषत्वात् ।। (व्याख्याभाष्यम्) न वा एष दोषः। किं कारणम्। अवयवतत्पुरुषत्वात्। अवयवोत्र तत्पुरुषसंज्ञः, तदाश्रयौ समासान्तपुंवद्भावौ भविष्यतः।। (आक्षेपभाष्यम्) स्वरः कथम्?।। (1220 समाधानवार्तिकम् ।। 31 ।।) ।। तस्यान्तोदात्तत्वं विप्रतिषेधात्।। (व्याख्याभाष्यम्) अन्तोदात्तत्वं क्रियतां पूर्वपदप्रकृतिस्वर इति। अन्तोदात्तत्वं भवति विप्रतिषेधेन।। (समाधानबाधकभाष्यम्) नैष युक्तो विप्रतिषेधः। विप्रतिषेधे परम् इत्युच्यते। पूर्वं चान्तोदात्तत्वम्, परं पूर्वपदप्रकृतिस्वरत्वम्।। (समाधानाभिप्रायभाष्यम्) न परविप्रतिषेधं ब्रूमः।। किं तर्हि?।। अन्तरङ्गविप्रतिषेधम्।। (1221 समाधानहेत्वन्तरवार्तिकम् ।। 32 ।।) ।। निमित्तिस्वरबलीयस्त्वाद्वा ।। (व्याख्याभाष्यम्) अथ वा निमित्तस्वरान्निमित्तिस्वरो बलीयानिति वक्तव्यम्।। किं पुनर्निमित्तम्, को वा निमित्ती?। बहुव्रीहिर्निमित्तम्, तत्पुरुषो निमित्ती।। (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम् ‐ निमित्तस्वरान्निमित्तिस्वरो बलीयानिति?।। (समाधानभाष्यम्) न वक्तव्यम्। (1222 समाधानसाधकवार्तिकम् ।। 33 ।।) ।। एकशितिपात्स्वरवचनं तु ज्ञापकं निमित्तिस्वरबलीयस्त्वस्य ।। (व्याख्याभाष्यम्) यदयं युक्तारोह्यादिष्वेकशितिपाच्छब्दं पठति तज्ज्ञापयत्याचार्यो निमित्तस्वरान्निमित्तिस्वरो बलीयानिति।। (ज्ञापकत्वनिरासभाष्यम्) कः पुनरर्हति युक्तारोह्यादिष्वेकशितिपाच्छब्दं पठितुम्। एवं किल नाम पठ्यते ‐ एकः शितिः एकशितिः, एकशितिः पादो यस्येति। तच्च न। एवं विग्रहः करिष्यते ‐ एकः शितिरेषु त इमे एकशितयः, एकशितयः पादा यस्येति एकशितिपादिति।। अथाप्येवं विग्रहः क्रियते ‐ एकः शितिरेकशितिः, एकशितिः पादो यस्येति, एवमपि नार्थः पाठेन। इगन्ते द्विगौ इत्येष स्वरोत्र बाधको भविष्यति।। (आक्षेपान्तरभाष्यम्) अस्य तर्हि बहुव्रीह्यवयवस्य तत्पुरुषसंज्ञा प्राप्नोति ‐ सुसूक्ष्मजटकेशेन सुनताजिनवाससा। समन्तशितिरन्ध्रेणेति। तत्र को दोषः? ।। तस्यान्तोदात्तत्वं विप्रतिषेधात् । इत्यन्तोदात्तत्वं स्याद्विप्रतिषेधेन।। (समाधानभाष्यम्) नैष दोषः। नेदं बहुव्रीह्यवयवस्य तत्पुरुषस्य लक्षणमारभ्यते।। किं तर्हि? यस्य बहुव्रीह्यवयवस्य तत्पुरुषस्य तल्लक्षणमस्ति तस्यान्तोदात्तत्वं भविष्यति विप्रतिषेधेन।। (आक्षेपभाष्यम्) ननु चास्याप्यस्ति।। किम्?। विशेषणं विशेष्येण बहुलम् इति ।। (समाधानभाष्यम्) बहुलवचनान्न भविष्यति।। (आक्षेपान्तरभाष्यम्) अस्य तर्हि बहुव्रीह्यवयवस्य तत्पुरुषसंज्ञा प्राप्नोति ‐ अधिकषष्टिवर्ष इति।। तत्र को दोषः?। । तस्यान्तोदात्तत्वं विप्रतिषेधात् । इत्यन्तोदात्तत्वं स्याद्विप्रतिषेधेन ।। (आक्षेपबाधकभाष्यम्) नैष दोषः। इगन्ते द्विगौ इत्येष स्वरो बाधको भविष्यति।। (आक्षेपान्तरभाष्यम्) यस्तर्हि नेगन्तः ‐ अधिकशतवर्ष इति।। (प्रागुक्ताक्षेपस्यापि समञ्ञ्जसत्वभाष्यम्) इह चाप्यधिकषष्टिवर्ष इति समासान्तः प्राप्नोति डचः प्रकरणे संख्यायास्तत्पुरुषस्योपसंख्यानं निस्त्रिंशाद्यर्थम् इति।। (आक्षेपबाधकभाष्यम्) नैष दोषः। अव्ययादेरित्येवं तत्।। (आक्षेपभाष्यम्) किं पुनः कारणम् ‐ अव्ययादेरित्येवं तत्?। (समाधानभाष्यम्) इह मा भूद् ‐ गोत्रिंशद्, गोचत्वारिंशदिति।। (आक्षेपभाष्यम्) बहुव्रीहिसंज्ञा तर्हि प्राप्नोति संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये इति।। (समाधानभाष्यम्) न संख्यां संख्येये वर्तयिष्यामः।। कथम्?। एवं विग्रहः करिष्यते ‐ अधिका षष्टिर्वर्षाणामस्येति।। (आक्षेपसाधकभाष्यम्) यथा तर्हि स योगः प्रत्याख्यायते तथा पूर्वेण प्राप्नोति।। कथं च स योगः प्रत्याख्यायते? । अशिष्यः संख्योत्तरपदः संख्येयार्थाभिधायित्वात् । इति।। प्रत्याख्याते तस्मिन्योगे संख्यां संख्येये वर्तयिष्यामः। तत्रैवं विग्रहः करिष्यते ‐ अधिका षष्टिर्वर्षाण्यस्येति। सर्वथा वयमधिकषष्टवर्षान्न मुच्यामहे।। कथम्?। यावता स योगः प्रत्याख्यायते। अयं च विग्रहोस्ति ‐ अधिका षष्टिर्वर्षाणामस्येति। (आक्षेपबाधकभाष्यम्) यत्तु तदुक्तम् ‐ अधिकषष्टिवर्षो न सिद्ध्यतीति, स सिद्धो भवति।। कथम्?। यावता स योगः प्रत्याख्यायते। अयं च विग्रहोस्ति ‐ अधिका षष्टिर्वर्षाण्यस्येति।। (आक्षेपभाष्यम्) अधिकशतवर्षस्तु न सिद्ध्यति।। (समाधानभाष्यम्) कर्तव्योत्र यत्नः।। समर्थः पदविधिः ।। 1 ।। इति श्रीमहाभाष्ये द्वितीयाध्यायस्य प्रथमे पादे प्रथममाह्निकम्।।