Page loading... Please wait.
1|4|97 - अधिरीश्वरे
॥ तस्मै पाणिनये नमः ॥
1|4|97
SK 644
अधिरीश्वरे   🔊
सूत्रच्छेदः
अधिः (प्रथमैकवचनम्) , ईश्वरे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
आकडारात् एका संज्ञा  1|4|1 प्राग्रीश्वरान्निपाताः  1|4|56 कर्मप्रवचनीयाः  1|4|83
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ईश्वरः स्वामी, स च स्वम् अपेक्षते। तदयम् स्वस्वामिसम्बन्धे अधिः कर्मप्रवचनीयसंज्ञो भवति। तत्र कदाचित् स्वामिनः कर्मप्रवचनीयविभक्तिः सप्तमी भवति, कदाचित् स्वात्। अधि ब्रह्मदत्ते पञ्चालाः। अधि पञ्चालेषु ब्रह्मदत्तः।
`तदयं स्वस्वामिसम्बन्धे` इति। परिलपालनादिक्रियाजनितोऽत्र सम्बन्धः। `तत्र` इत्यादि। सर्वत्र हि सम्बन्धे किञ्चिदनूद्यते, किञ्चिदाख्यायते। यत्प्रसिद्धं तदनूद्यते, यदप्रसिद्धं तदाख्यायते = विधीयते; ज्ञाप्यते; यथा-- यः कुण्डली स देवदत्त इति। कुण्डलित्वानुवादेन देवदत्तनुवादेन देवदत्तत्वं विधीयते। यच्च विधीयते तत्प्रधानम्, इतरदप्रधानं विशेषमम्। तत्र यदा स्वमप्रसिद्धत्वाद्विधीयते तदा स्वामी प्रधानत्वाद्वयतिरेकमापद्यत इति तत इव कर्मप्रवचनीयसंज्ञायुक्तत्वाद्व्यतिरेकनिबन्धनविभक्तो षष्ठआं प्राप्तायां तदपवादः `यस्मादधिकं यस्य चेआरवचनं तत्र सप्तमी` 2|3|9 इति सप्तमी भवति। तयैव सम्बन्धस्य द्योतितत्वात् स्वात् प्रथमैव भवति, न सप्तमी। यदा तु स्वाम्यप्रसिद्धत्वात् विधीयते, तदा विपर्ययो वेदितव्यः॥
तदयमिति। यथा ठ्हीने इत्यत्र हीनोत्कृष्टसम्बन्धे संज्ञा, ठुपोऽधिके चऽ इत्यत्राधिकाधिकिसम्बन्धे, तथात्रापीत्यर्थः। विभक्तिस्तु तत्रान्यतरस्मादुच्यते, इह तु न तथेत्याह--तत्र कदाचिदिति। ठ्यस्य चेश्वरवचनम्ऽ इत्यत्रार्थद्वयम्--ईश्वरशब्दो भावप्रधानः, यस्य स्वस्येश्वर उच्यते तम्मात्स्वात्सप्तमीत्यपरः। तत्र यदा स्वाम्यर्थे व्यतिरेकविवक्षा तदा ततः सप्तमी, स्वस्य तु व्यतिरेके तत इति। न पुनरुभाभ्यां युगपद्भवति, एकयैव विभक्त्या द्विष्ठस्यापि सम्बन्धस्याभिधानादिति मत्वा ठ्कदाचिद्ऽ इत्यक्तम्। ब्रह्मदत इति। ब्रह्मदतस्य स्वाः पञ्चाला इत्यर्थः। आधपञ्चालेष्विति। पञ्चालनां ब्रह्मदतः स्वामीत्यर्थः॥
सिद्धान्तकौमुदी
स्वस्वामिभावसम्बन्धेऽधिः कर्मप्रवचनीयसंज्ञः स्यात् ॥
अधिरीश्वरे - अधेः कर्मप्रवचनीयकार्यं वक्ष्यन्कर्मप्रवचनीयसंज्ञामाह — अधिरीआरे । ईआरशब्देन इआरत्वं स्वस्वामिभावसंबन्धात्मकं विवक्षितम् । "कर्मप्रवचनीयाः" इत्यधिकृतमेकवचनान्ततया विपरिणम्यते । तदाह — स्वस्वामीति ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.