Page loading... Please wait.
1|4|94 - सुः पूजायाम्
॥ तस्मै पाणिनये नमः ॥
1|4|94
SK 555
सुः पूजायाम्   🔊
सूत्रच्छेदः
सुः (प्रथमैकवचनम्) , पूजायाम् (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
आकडारात् एका संज्ञा  1|4|1 प्राग्रीश्वरान्निपाताः  1|4|56 कर्मप्रवचनीयाः  1|4|83
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सुशब्दः पूजायाम् अर्थे कर्मप्रवचनीयसंज्ञो भवति। सु सिक्तं भवता। सु स्तुतं भवता। धात्वर्थः स्तूयते। उपसर्गसंज्ञाऽश्रयं षत्वं न भवति। पूजायाम् इति किम्? सुषिक्तं किं तवात्र।
`सुसिक्तं भवता` इति। भवच्छब्दात् कत्र्तरि तृतीया। द्वितीया तु पूर्ववदेव न भवति। `धात्वर्थः स्तूयते` इति। शोभनोद्भावनं स्तुतिः, सैव तस्य पुजा। `उपसर्गाश्रयं षत्वं न भवति` इति। कर्मप्रवचनीयसंज्ञयोपसर्गसंज्ञाया बाधितत्वादिति भावः। `सुषिक्तं किं तवात्र` इति। क्षेपोऽयम्,न पूजा॥
सुसिक्तं भवतेति। भवच्छब्दात्कर्तरि तृतीया। कर्मप्रवचनीययुक्ते द्वितीया न भवति; ठुपपदविभक्तेः कारकविभक्तिर्बलीयसीऽ इति। सुषिक्तं किं तवात्रेति। क्षेपोऽयम्, न पूजा॥
सिद्धान्तकौमुदी
सुसिक्तम् । सुस्तुतम् । अनुपसर्गत्वान्न षः । पूजायां किम् ? सुषिक्तं किं तवाऽत्र । क्षेपोऽयम् ॥
सुः पूजायाम् - सुः पूजायाम् । "कर्मप्रवचनीय" इति शेषः । सु सिक्तं सु स्तुतमिति । अत्र सोः कर्मप्रवचनीयत्वे प्रयोजनमाह — अनुपसर्गत्वान्न ष इति ।उपसर्गात्सुनोतीत्यनेने॑ति शेषः । पूजायां किमिति । सुना पूजाया नित्यं प्रतीतेः प्रश्नः । सुषिक्तं किं [स्यात्]तवात्रेति । त्वया सम्यक् सिक्तं, किन्त्वत्रास्मिन् सुसेके कृते सति सेक्तुस्तव किं, न किञ्चिदपीत्यर्थः । क्षेपोऽयमिति । निन्दाऽत्र गम्यत इत्यर्थः । सेकक्रियाकर्तुः पूज्यत्वे गम्य एवात्र कर्मप्रवचनीयत्वम् । तदभावात्उपसर्गात्सुनोती॑ति षत्वमिति भावः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.