॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|93
SK 554
1|4|93
अधिपरी अनर्थकौ   🔊
SK 554
सूत्रच्छेद:
अधिपरी - प्रथमाद्विवचनम् , अनर्थकौ - प्रथमाद्विवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राग्रीश्वरान्निपाता:  [1|4|56] , कर्मप्रवचनीया:  [1|4|83]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अधिपरी शब्दौ अनर्थकौ अनर्थान्तरवाचिनौ कर्मप्रवचनीयसंज्ञौ भवतः। कुतो ऽध्यागच्छति। कुतः पर्यागच्छति। गत्युपसर्गसंज्ञावाधनार्था कर्मप्रवचनीयसंज्ञा विधीयते।
`अनर्थान्तरवाचिनौ` इति। #एतेनानर्थान्तरवाचित्वादनर्थकादवित्युक्तम्, न त्वर्थाभावादिति दर्शयति। यदि ह्रविद्यमानार्थत्वादनर्थकौ स्याताम्, निरर्थकमिदं सूत्रं स्यात्। तथा हि-- कर्मप्रवचनीयसंज्ञा गत्युपसर्गसंज्ञाबाधनार्थाऽनेन विधीयते। न चानर्थकयोरधिपर्योर्गत्युपसर्गसंज्ञाप्राप्तिरस्ति। यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञा विधानात्। अनर्थकयोश्च क्रियायोगासम्भवात्। `कुतोऽध्यागसच्छति` इत्यादि। कुत इत्यापादाने पञ्चमी। कर्मप्रवचीयेति 2|3|8 द्वितीया न भवति; `उपपदविभक्तेः कारकविभक्तिर्बलीयसी`(चां।प।69) इति वचनात्। सूत्रारम्भस्य तु प्रयोजनमाख्यातमेव। कुत इति, किंशब्दात् `पञ्चम्यास्तसिल्` 5|3|7 इति तसिल्, `कु तिहोः` 7|2|104 इति कुभावः। कर्मप्रवचनीयसंज्ञया गत्युपसर्गसंज्ञोर्वाधितत्वात् `गतिर्गतौ` 8|1|70 इति निघातो न भवति। ननु चागच्छतीत्युक्त आगमनं विशिष्टं प्रतीयते, अध्यागच्छति, पर्यागच्छतीति-- अधिपरियोगे त्वागमनस्योपरिभावः सर्वतोभावश्चावगम्यत इत्यपरो विशेषः, तत्कथमनर्थान्तरवाचित्वमनयोः? नैतदस्ति; यदा तयोरप्यर्थयोः प्रकरणादेः कुतश्चिदवगतयोरधिपरी प्रयुज्येते तदा तयोरनर्थान्तरवाचित्वं वेदितव्यम्। कथं पुनरवगतार्थयोः? नैतदस्ति; यदा तयोरप्यर्थयोः प्रयोगः, `उक्तार्थानामप्रयोगः` (व्या।प।60) इति वचनात्? सत्यम्, अवगतार्थस्यापि प्रयोगो दृश्यते, यथा-- `ब्राआहृणौ द्वौ` इति। लोकस्य प्रयोगे गुरुलाघवं प्रत्यनादरात्॥
ननु चानर्थकयोः क्रियायोगाभावाद् गत्युपसर्गसंज्ञयोः प्राप्त्यभावान्न तद्वोधनार्थ कर्मप्रवचनीयसंज्ञाविधानमुपपद्यते, नापि परिशब्दयोगे पञ्चमीविधानार्थम्, तद्विधौ वर्जनार्थस्य ग्रहणाद्। अपादानत्वाच्च सिद्धा पञ्चमी, यथाऽधिशब्दस्य प्रयोगे--कुतोऽध्यागच्छतीति। अत एव द्वितीयाविधानार्थमपि नोपपद्यते; तस्मादनर्थकयोः संज्ञाविधानमनर्थकमित्यत आह--अनर्थान्तरवाचिनाविति। यथा तिष्ठति, नितिष्ठति, परिभवतीत्यादौ धातूपातादर्थादर्थान्तरवाचित्वम्, नैवमत्रार्थान्तरवाचित्वम्; किन्त्वागच्छतीति प्रयोगे योऽर्थः स एवाधिपरियोगे ताभ्यामुच्यते तदत्र विषये धातोरधिपर्योश्च सहाभिधायित्वम्; यथागजशब्दे योऽर्थः स एव मतङ्गज इति सर्वैः सहाभिधीयते। एवं वृषशब्दे योऽर्थः स एव वृषभशब्दे। तदेवमनर्थान्तरवाचित्वादनर्थककल्पत्वादनर्थकावित्युक्तम्, न त्वभावात्। तयोश्च गतिसंज्ञाबाधाय कर्मंप्रवचनीयसंज्ञा विधेयेति दर्शितं भवति। कुतोऽध्यागच्छतीति। किंशब्दात् ठपादाने चाहीयरुहोःऽ इति तसिः, तस्य ठ्तसेश्चऽ इति तसिलादेशः, ठ्गतिर्गतौऽ इति निघाताभावः॥
सिद्धान्तकौमुदी
उक्तसंज्ञौ स्तः । कुतोऽध्यागच्छति । कुतः पर्यागच्छति । गतिसञ्ज्ञाबाधात् गतिर्गतौ (कौमुदी-3977) इति निघातो न ॥
अधिपरी अनर्थकौ - अधिपरी । उक्तसंज्ञो स्त इति । कर्मप्रवचनीयसंज्ञकावित्यर्थः । कुतोऽध्यागच्छति, कुतः पर्यागच्छतीति । अत्र "कुत" इत्यपादानपञ्चम्यास्तसिल् । कस्मात् प्रदेशादागच्छतीत्यर्थः । नन्वत्र अधिपर्योरनर्थकतया सम्बन्धस्य तद्द्योत्यत्वाऽभावेन द्योत्यसम्बन्धप्रतियोगित्वरूपकर्मप्रवचनीययुक्तत्वस्याऽभावान्न द्वितीयाप्रसक्तिरित्यत आह — गतिसंज्ञाबाधादिति । अत्र "गतिर्गतौ" इत्यत्र पदादित्यधिकारात् पदात्परत्वसम्पत्तये "कुत" इत्युपात्तमिति भावः । अत्र प्रभवति पराभवति अनुभवतीत्यादौ प्रादेरिवाऽर्थान्तरद्योतकत्वाऽभावेऽपि धात्वर्थद्योतकत्वमस्त्येव । अर्थान्तरद्योतकत्वाऽभावेनाऽनर्थकत्वव्यवहारः । उक्तं च भाष्ये — ॒अनर्थान्तरवाचिनौ धातुनोक्तक्रियामेवाहतुः॑ इति । एवंच क्रियायोगाऽभावाद्गतित्वस्यापि न प्रसक्तिरिति शङ्का निरस्ता ।
अधिपरी अनर्थकौ - कृतोऽध्यागच्छतीति । इह — प्रयती, पराभवति, वृक्षं प्रति विद्योतते इत्यत्र प्रादेर्विशेषद्योतकत्ववदधिपर्योरिह विशेषद्योतकत्वाऽभावादानार्थक्यं, धात्वर्थमात्रद्योतकत्वेन त्वर्थताऽस्त्येवेति बोध्यम् ।॒गतिर्गतौ॑इत्यत्र पदादित्यधिक्रियत इति पदात्परत्वसंपत्तयेकुत॑इत्युक्तम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अधिपरी अनर्थकौ किमर्थमधिपर्योरनर्थकयोः कर्मप्रवचनीयसंज्ञोच्यते ? कर्मप्रवचनीयसंज्ञा यथा स्यात्, गत्युपर्सगसंज्ञे मा भूतामिति । नैतदस्ति प्रयोजनम् । यत्क्रियायुक्तौ तं प्रति गत्युपसर्गसंज्ञौ भवतः। अनर्थकौ चेमौ । इदं तर्हि प्रयोजनम्, पञ्चमी यथा स्यात् ‐ पञ्चम्यपाङ्परिभिः 2|3|10 इति, कुतः पर्यागम्यत इति । सिद्धं तु पञ्चम्यपादाने इत्येव । आतश्चापादानपञ्चम्येव, यत्राधिशब्देन योगे पञ्चमी न विधीयते तत्रापि श्रूयते ‐ कुतोऽध्यागम्यते इति । एवं तर्हि सिद्धे सति यदनर्थकयोरुपसर्गसंज्ञाबाधिकां कर्मप्रवचनीयसंज्ञां शास्ति तज्ज्ञापयत्याचार्योऽनर्थकानामप्येषां भवत्यर्थवृत्कृतमिति । किमेतस्य ज्ञापने प्रयोजनम् ? निपातस्याऽनर्थकस्य प्रातिपदिकत्वं चोदितं तन्न वक्तव्यं भवति । अथवा नेमावनर्थकौ । किं तर्ह्यनर्थकावित्युच्यते ? अनर्थान्तरवाचिनावनर्थकौ, धातुनोक्तां क्रियामाहतुः । तदविशिष्टं भवति, यथा शङ्खे पयः । यद्येवं धातुनोक्तत्वात्तस्यार्थस्योपसर्गप्रयोगो न प्राप्नोति ‐ उक्तार्थानाम प्रयोगः इति । उक्तार्थानामपि प्रयोगो दृश्यते । तद्यथा, ‐ अपूपौ द्वावानय, ब्राह्मणौ द्वावानयेति ।। 93 ।।