॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|92
SK 599
1|4|92
प्रतिः प्रतिनिधिप्रतिदानयोः   🔊
SK 599
सूत्रच्छेद:
प्रतिः - प्रथमैकवचनम् , प्रतिनिधिप्रतिदानयोः - सप्तमीद्विवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राग्रीश्वरान्निपाता:  [1|4|56] , कर्मप्रवचनीया:  [1|4|83]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
मुख्यसदृशः प्रतिनिधिः। दत्तस्य प्रतिनिर्यातनं प्रतिदानम्। प्रतिनिधिविषये प्रतिदानविषये च प्रतिः कर्मप्रवचनीयसंज्ञो भवति। अभिमन्युरर्जुनतः प्रति। माषानस्मै तिलेभ्यः प्रति यच्छति।
`अभिमन्युरर्जुनतः प्रति` इति। अर्जनो मुख्यः। तत्सदृशोऽभिमन्युः। सोऽर्जुमनुकरोतीत्यत्रानुकरणक्रियाजनितः सम्बन्धविशेषोऽनुकार्यानुकरणभावः प्रतिना द्योत्यते। `प्रतिनिधिप्रतिदाने च यस्मात्` 2|3|11 इति पञ्चमी। `प्रतियोगे पञ्चम्यास्तसिः` 5|4|44 । `माषानस्मै तिलेभ्यः` इति। तिलानां पूर्वदत्तानां माणाणां प्रतिदानमिह निर्यातनम्। तिलान् गृहीत्वा माषान् ददातीत्यर्थः। दानग्रहणक्रियाजनितोऽत्र सम्बन्ध उत्तमर्णाधमर्णभावलक्षणः॥बाल-मनोरमाप्रतिः प्रतिनिधिप्रतिदानयोः 591, 1.4.92 प्रतिः प्रतिनिधि। सदृशः प्रतिनिधिः, दत्तस्य प्रतिनिर्यातनं प्रतिदानम्। उक्तसंज्ञ इति। कर्मप्रवचनीयसंज्ञक इत्यर्थः। बाल-मनोरमाप्रतिः प्रतिनिधिप्रतिदानयोः 592, 1.4.92 प्रतिनिधि। अत्रेति सूत्रोक्तविषये इत्यर्थः। सूत्रे यस्मादिति षष्ठर्थे पञ्चमी, अस्मादेव निर्देशात्। `कृष्णस्य प्रतिनिधिः` इति तु `ज्ञापकसिद्धं न सर्वत्रे`ति समाधेयम्। तथाच यत्सम्बन्धिनी प्रतिनिधिप्रतिदाने, तस्मात् कर्मप्रवचनीययुक्तात्पञ्चमित्यर्थः फलति। प्रद्युम्नः कृष्णात्प्रतीति। युद्धादौ प्रद्युम्नः कृष्णनिरूपितसादृश्यवानित्यर्थः। पञ्चम्यर्थः सादृश्यम्। प्रतिस्तु तद्द्योतकः। तिलेभ्य इति। ऋणत्वेन गृहीतान् तिलान् स्वरूपेण मूल्याद्यात्मना वा प्रत्यर्पयतीत्यर्थः। कर्मणि पञ्चमी।
मुखसद्दश इति। मुख्यः क्वचित्कार्ये शत्रुवधादौ द्दष्टसामर्थ्यः। यस्तु तदभावे तत्कार्यकरणाय प्रतिनिधीयते उपादायते स प्रतिनिधिः, कर्मणि किप्रत्ययः। दतस्येति उतमर्णेन । प्रतिनिर्यातनमिति। प्रत्यर्पणम्। अर्जुनतः प्रतीति। ठ्प्रतिनिधिप्रतिदाने च यस्माद्ऽ इति पञ्चमी, प्रतियोगो पञ्चम्यास्तसिः। माषानिति। तिलान् गृहीत्वा माषान् ददातीत्यर्थः॥
सिद्धान्तकौमुदी
एतयोरर्थयोः प्रतिरुक्तसंज्ञः स्यात् ॥
प्रतिः प्रतिनिधिप्रतिदानयोः - प्रतिनिधि । अत्रेति सूत्रोक्तविषये इत्यर्थः । सूत्रे यस्मादिति षष्ठर्थे पञ्चमी, अस्मादेव निर्देशात् ।कृष्णस्य प्रतिनिधिः॑ इति तुज्ञापकसिद्धं न सर्वत्रे॑ति समाधेयम् । तथाच यत्सम्बन्धिनी प्रतिनिधिप्रतिदाने, तस्मात् कर्मप्रवचनीययुक्तात्पञ्चमित्यर्थः फलति । प्रद्युम्नः कृष्णात्प्रतीति । युद्धादौ प्रद्युम्नः कृष्णनिरूपितसादृश्यवानित्यर्थः । पञ्चम्यर्थः सादृश्यम् । प्रतिस्तु तद्द्योतकः । तिलेभ्य इति । ऋणत्वेन गृहीतान् तिलान् स्वरूपेण मूल्याद्यात्मना वा प्रत्यर्पयतीत्यर्थः । कर्मणि पञ्चमी ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
वृतादिभ्यः पञ्चभ्यो वा परस्मैपदं स्यात्स्ये सनि च॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!