॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|91
SK 553
1|4|91
अभिरभागे   🔊
SK 553
सूत्रच्छेद:
अभिः - प्रथमैकवचनम् , अभागे - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राग्रीश्वरान्निपाता:  [1|4|56] , कर्मप्रवचनीया:  [1|4|83]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
लक्षनाऽदिषु एव भागवर्जितेषु अभिः कर्मप्रवचनीयसञ्ञो भवति। वृक्षम् अभि विद्योतते विद्युत्। साधुर् देवदत्तो मातरम् अभि। वृक्षं वृक्षम् अभि सिञ्चति। अभागे इति किम्? भागः स्वीक्रियमाणो ऽंशः। यदत्र मम अभिष्यत् तद् दीयताम्। यदत्र मम भवति तद् दीयताम् इत्यर्थः।
`यदत्र मामाभिष्यात्` इति। `श्नसोरल्लोपः` 6|4|111 इत्यकारलोपः। कर्मप्रवचनीयसंज्ञाया अभावदुपसर्गत्वमस्त्येव। तेन `उपसर्गप्रादुभ्र्यामस्तिर्यच्परः` 8|3|87 इति षत्वम्। `माम्` इति। यद्यप्यस्तिरकर्मकस्तथाप्यकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्तीति कर्मणि द्वितीया 2|3|2 ननु चाभिशब्दो भागसम्बन्धस्य द्योतक इति तेनास्तेः सम्बन्धो नास्ति; तत्कथं सकर्मकता? नैतदस्ति; अस्ति सम्बन्धद्वारेण ह्रभिशब्दो भागसम्बन्धं द्योतयति, अन्यथा हि यदि तस्यास्तिना योगो न स्यात् तदोपसर्गसंज्ञापि न स्यात्। ततश्चोपसर्गसंज्ञानिबन्धनमभिष्यादिति षत्वमपि न स्यात्॥
अभागैति किमिति। अभिधेयं प्रयोजनं च परिज्ञातुं प्रश्नः। अत एवोभयं दर्शयति । भागः स्वीक्रियमाणाआऽशः। यदत्र ममाभिष्यादिति। ननु अन्वर्थसंज्ञाविज्ञानादेवात्र न भविष्यति, संप्रत्येव ह्यसौ विभजनक्रियां द्योतयति? प्रत्यादीनामपि तर्हि न स्याद्? वचनाद्भविष्यति। अभेरपि तर्हि प्राप्नोति, तस्माद् ठभागेऽ इति वक्तव्यम्, तत्रोपसर्गत्वात् ठुपसर्गप्रादुर्भ्यामस्तिर्यच्परःऽ इति षत्वम्। अथैवं कस्मान्न कृतम्--ठ्लक्षणेत्थंभूताख्यानवीप्सास्वभिः, प्रतिपरी भागे च, चकाराल्लक्षणादिषु च, अनुर्लक्षणतृतीयार्थयोश्च, चकाराद्भागे लक्षणादिषु च, ततो हीने, उपोऽधिके चऽ; इत्येवं हि द्विरनोर्ग्रहणम्, अभाग इति च न वक्तव्यं भवति। एवं हि द्विश्चग्रहणं क्रियते इति पदयोः साम्यम्, अक्षरलाघवं तु नाद्दतम्॥
सिद्धान्तकौमुदी
भागवर्जे लक्षणादावभिरुक्तसञ्ज्ञः स्यात् । हरिमभि वर्तते । भक्तो हरिमभि । देवं देवमभि सिञ्चति । अभागे किम् ? यदत्र ममाभिष्यात्तद्दीयताम् ॥
अभिरभागे - अभिरभागे । लक्षणादाविति । आदिना इत्थम्भूताख्यानवीप्सयोः सङ्ग्रहः । लक्षणे उदाहरति — हरिमभि वर्तत इति । जयः क्वेति प्रश्ने इदमुत्तरम् । लक्ष्यभावोऽभिद्योत्यो द्वितीयार्थः । हरिलक्ष्यो जय इत्यर्थः । भक्तो हरिमभीति । इत्थम्भूताख्याने उदाहरणमिदम् । विषयतासंबन्धोऽभिद्योत्यो द्वितीयार्थः । हरिविषयकभक्तिमानित्यर्थः । वीप्सायामुदाहरति-देवं देवमभि सिञ्चतीति । कार्त्स्न्यसंबन्धात्मिका व्याप्तिर्द्वितीयार्थः, अभिद्योत्यश्च । कृत्स्नं देवमभि सिञ्चतीत्यर्थः । षत्वाऽभावादिपूर्ववत् । यदत्रेति । बहूनां द्रव्यं तण्डुलादि यत्र संसृष्टं तत्रेदं वाक्यम् । स्वस्वाभिभावः षष्ठर्थः । अभिस्तद्द्योतकः । अत्र संसृष्टद्रव्ये यद्वस्तु मम स्वभूतं स्यात्तन्मह्रं दीयतामित्यर्थः । स्यादित्यस्तेर्लिङि रूपम् । अत्र मम भाग इत्यर्थतः पर्यवसानादभाग इति कर्मप्रवचनीयत्वपर्युदासादुपसर्गत्वस्य निर्बाधत्वात्उपसर्गप्रादुभ्र्यामस्तिर्यच्परः॑ इति षत्वम् ।
अभिरभागे - ममाऽभिष्यादिति । मम भागः स्यादित्यर्थः । प्राञ्चस्तु — -मामभिष्यादिति प्रत्युदाहरन्ति, तत्र प्राप्नुयादित्यर्थः । उपसर्गवशेनाऽस्तेः सकर्मकत्वान्मामिति द्वितीया । अत्र च मम भाग इत्यर्थतः पर्यवसानात्अभागे॑इति कर्मप्रवचनीयत्वे निषिद्धेउपसर्ग प्रादुभ्र्या॑मिति षत्वम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!