॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|90
SK 552
1|4|90
लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः   🔊
SK 552
सूत्रच्छेद:
लक्षणेत्थम्भूताख्यानभागवीप्सासु - सप्तमीबहुवचनम् , प्रतिपर्यनवः - प्रथमाबहुवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राग्रीश्वरान्निपाता:  [1|4|56] , कर्मप्रवचनीया:  [1|4|83]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
लक्षणे, इत्थंभूताऽख्याने, भागे, वीप्सायां च विशायभूतायां प्रति परि अनु इत्येते कर्मप्रवचनीयसंज्ञा भवन्ति। लक्षणे तावत् वृक्षं प्रति विद्योतते विद्युत्। वृक्षं परि। वृक्षम् अनु। इत्थंभूताऽख्याने साधुर् देवदत्तो मातरम् प्रति। मातरम् परि। मातरम् अनु। भागे यदत्र मां प्रति स्यात्। माम् परि स्यात्। मामनु स्यात्। वीप्सायाम् वृक्षं वृक्षम् प्रति सिञ्चति। परि सिञ्चति। अनु सिञ्चति। लक्षणादिषु इति किम्? ओदनं परिषिञ्चति। अथ परिशब्दयोगे पञ्चमी कस्मान् न भवति पञ्चम्यपाङ्परिभिः 2|3|10 इति? वर्जनविषाये सा विधीयते, अपशब्दसाहचर्यात्।
लक्षणं ज्ञापको हेतुश्चिह्नमिहाभिप्रेतम्। लक्ष्यते चिह्न्यते येन तल्लक्षणम्। कञ्चित्प्रकारमापन्नमित्थम्भूतम्, तस्याख्यानमित्थम्भूताख्यानम्। `भी प्राप्तौ` (धातुपाठः-1844) आत्मनेपदी। तस्मात् `आ धृषाद्वा` (धातुपाठः-1805 तः पश्चात्) इति विभाषितणिचो यदा चुरादिणिज् नास्ति, तदा क्तान्तस्य भूत इति रूपं भवति। स्वीक्रियमाणोंऽशो भागः। यस्त्वस्वीक्रियमाणेऽशे भागशब्दः प्रयुज्यते-- प्रियङ्गोर्भागो नगरस्य भाग इति, स स्वीक्रियमाणांशसादृश्यात्। पदार्थान् व्याप्तुमिच्छा वीप्सा। एते च लक्षणादयः प्रत्यादीनां न द्योत्याः। किं तर्हि? विषयभूताः, अत एवाह-- `विषयभूतायम्` इति। एतच्च `अभिधेयवल्लिङ्गवचनानि भवन्ति` (व्या।प।73) इति लिङ्गविपरिणामं कृत्वा लक्षणादिभिः सम्बध्यते। एतच्च `अभिधेयवल्लिङ्गवचनानि भवन्ति` (व्या।प।73) इति लिङ्गविपरिणामं कृत्वा लक्षणादिभिः सम्बध्यते। यदि लक्षमादयः प्रत्यादीनां न द्योत्याः, तर्हि किं ते द्योतयन्ति? सम्बन्धविशेषम्। `वृक्षं प्रति विद्योतते विद्युत्` इति। अत्र वृक्षो लक्षणम्, विद्योतमाना विद्युल्लक्ष्या; सा हि वृक्षं प्राप्य विद्योतत इति तयोः प्राप्तिक्रियाजनितोऽत्र लक्ष्यलक्षणभावः सम्बन्धः प्रतिशब्देन द्योत्यते। `साधुर्देवदत्तो मातरं प्रति` इति। प्रतिना देवदत्तस्य मातृविषया साधुभावापत्तिराख्यायते। अत्रापि मातरं प्राप्य साधुभावापत्तिरिति प्राप्तिक्रियाजनित एव मातुः साधुभावापत्तेश्च विषयविषयिभावलक्षणः सम्बन्धः प्रतिनाऽ‌ऽख्यायते। `यदत्र माम्ित्यादि। यो भागो मामभिभजते स दीयतामित्यर्थः। अत्रापि विभजनक्रियाजनितः स्वीकारक्रियाजनितो वा स्वस्वामिभावः सम्बन्धः। `माम्` इति। अस्मच्छब्दस्य `त्वमावेकवचने` 7|2|97 इति मादेशः। `द्वितीयायाञ्च` 7|2|87 इत्त्यात्त्वम्। `वृक्षं वृक्षं प्रति सिञ्चति` इति। अत्र वीप्सा द्विर्वचनेनैव द्योत्यते। प्रतिशब्दस्य तु सेकक्रियाजनितो वृक्षायां यः सम्बन्धः साध्यसाधनभावलक्षणः स एव द्योत्यः। वृक्षादिनिमित्तं साधनम्, सेकः साध्यः। द्वितीया चेह सकर्मकत्वात् सिचेः सेकेन व्याप्तुमिष्टतमानां वृक्षाणां कर्मत्वे सति `कर्मणि द्वितीया` 2|3|2 इत्यनेनैव सिद्धा। कर्मप्रवचनीयसंज्ञयोपसर्जनसंज्ञया निवर्त्तितत्त्वात् `उपसर्गात् सुनोति` 8|3|65 इत्यादिना धत्वं न भवति। `परिषिञ्चति` इति। सर्वतः सिञ्चतीत्यर्थः। अथेत्यादि चोद्यम्। वर्जनेत्यादि परीहारः। अपशब्दसाहचर्यादित्यतत्र्रैवोपपत्तिः। तत्र हि कर्मप्रवचनीयाधिकाराद्वर्जनार्थस्यापशब्दस्य ग्रहणं वर्जन एव। तस्य `अपपरी वर्जने` 1|4|87 इति कर्मप्रवचनीयसंज्ञा विहिता। तस्मात्तेन साहचर्याद्वर्जनार्थस्य परोग्र्रहणम्। अतस्तेनापि योगे वर्जन एव विषय इयं पञ्चमी विधीयते, न लक्षणादिषु॥
लक्ष्यते येन तल्लक्षणमु चिह्नं ज्ञापकम्। अयं प्रकार इत्थम्, प्रथमान्तादिदमस्थमुः इह त्विदमा प्रत्यवमृश्यस्य सन्निहितस्य कस्यचिदभावात्प्रकारविशेषमात्रवृत्तिरित्थंशब्दः। ठ्भू प्राप्तौऽ आत्मनेपदी, ठा धृषाद्वाऽ इति णिजभावपक्षे गत्यर्थत्वात्कर्तरि क्तः। तत इत्थंशब्दादव्ययादपि वृत्तिविषये सत्वधर्मोपादानात्कर्मणि द्वितीया, श्रितादिषु गम्यादीनामिति सामसः, कञ्चित् प्रकारं प्राप्त इत्थंभूतः, इत्थंभूतस्याख्यानमित्थंभूताख्यानम्। स्वीक्रियमाणाआऽशो भागः, यस्त्वंशमात्रे प्रयोगः प्रियङ्गोर्भाग इति स भागसाद्दश्यात्। व्याप्तुमिच्छा वीप्सा, सा चाष्टमे स्षष्टयिष्यते, एते लक्षणादयो यथा विभक्तिसमीपादयोऽव्ययार्था नेवं प्रत्यादीनामर्थाः, किं तर्हि? संज्ञायाः प्रत्यादीनां विषयत्वेन निर्दिष्टाः इत्याह--वीप्सायां च विषयभूतायामिति। एतच्च लिङ्गविपरिणामेन लक्षतणादिभिरपि सम्बन्धनीयम्। वृक्षं प्रतीति। अत्र वृक्षो लक्षणं विद्योतनस्य, प्रत्यादयस्तु प्राप्तिक्रयाजनितो लक्ष्यलक्षणभाव इत्येवं सम्बन्धविशेषेऽवस्थापयन्ति--वृक्षं प्राप्य विद्योतते, वृक्षे प्रदेशे विद्योतत इत्यर्थः। साधुरिति। अत्रापि प्राप्तिक्रियाजनित एव विषयविषयिभावसम्बन्धः, यथा वृक्षे द्दष्टे विद्योतनं लक्ष्यते, नैवमत्रासाधुत्वापतिरितीत्थम्भूताख्यानग्रहणम्। यदत्र मामिति। यो मम भागः स दीयतामित्यर्थः। अत्र स्वीकरणक्रियाजनितः स्वस्वामिसम्बन्धः। वृक्षं वृक्षमिति। वीप्सा द्विर्वचनेन द्योत्यते। परिशब्दस्तु क्रिययैव सम्बध्यते, द्वितीया चेह कर्मणि। कर्मप्रवचनीयसंज्ञा तूपसर्गसंज्ञा--निवृत्यर्था तेन ठुपसर्गात्सुनोतिऽ इति षत्वं न भवति। अशब्दसाहचर्यादिति। परिशब्दोऽयं द्दष्टापचारो वर्जने चावर्जने च कर्मप्रवचनीयः। अपशब्दस्तु वर्जने एव। कर्मप्रवचनीयाधिकारे पञ्चमी विधीयते, तत्र साहचर्यं व्यवस्थाहेतुः॥
सिद्धान्तकौमुदी
एष्वर्थेषु विषयभूतेषु प्रत्यादय उक्तसंज्ञाः स्युः । लक्षणे, वृक्षं प्रति, पर्यनु वा विद्योतते विद्युत् । इत्थंभूताख्याने, भक्तो विष्णुं प्रति, पर्यनु वा । भागे, लक्ष्मीर्हरिं प्रति, पर्यनु वा । हरेर्भाग इत्यर्थः । वीप्सायां, वृक्षंवृक्षं प्रति पर्यनु वा सिञ्चति । अत्रोपसर्गत्वाभावान्न षत्वम् । एषु किम् ? परिषिञ्चति ॥
लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः - लक्षणेत्थंभूत । लक्षणं ज्ञापकम् । अयं प्रकार इत्थं, तं प्राप्त इत्थम्भूतः तस्याख्यानमुपपादकमित्थम्भूताख्यानम् । भागः स्वीकार्योऽशस्तत्स्वामी विवक्षितः । व्याप्तुं कार्त्स्न्येन संबन्द्धुमिच्छा वीप्सा । लक्षणं च इत्थम्भूताख्यानं भागश्च वीप्सा चेति द्वन्द्वाद्विषयसप्तमी । तदाह-एष्विति । एष्वर्थेषु द्योत्येष्विति तु नाश्रितम् । व्याप्तुमिच्छायास्तद्द्योत्यार्थत्वाऽभावादिति भावः । लक्षणे इति । "उदाहरणं वक्ष्यते" इति शेषः । वृक्षं प्रतीति । लक्ष्यलक्षणभावसंबन्धो द्वितीयार्थः । स च प्रत्यादिद्योत्यः । वृक्षेण लक्ष्यमाणा विद्युद्विद्योतते इत्यर्थः । उत्पन्नविनष्टा विद्युत्, तदुत्पादितो वृक्षप्रकाशोऽपि उत्पन्नविनष्ट एव । तथाच वृक्षप्रकाशोत्तरं विद्युतोऽसत्त्वेन प्रत्यक्षाऽभावादनुमेया सा । ततश्च प्रकाशितेन वृक्षेम विद्युज्ज्ञानाद्वृक्षो लक्षणम् । इत्थम्भूताख्यात इति । "उदाहरणं वक्ष्यते" इति शेषः । भक्तो विष्णुं प्रतीति ।भज सेवायाम् । भक्तिरस्त्यस्येति भक्तः, मत्वर्थीयोऽर्शाअद्यच्, विषयतासंबन्धः प्रत्यादिद्योत्यो द्वितायार्थः , तस्य भक्तावेकदेशेऽन्वयः । विष्णुविषयकभक्तिमानित्यर्थः । अत्र भक्तो भक्तिरूपं प्रकारविशेषं प्राप्तत्वादित्थम्भूतस्तस्य विष्णुविषयकतया उपपाद्यत्वाद्विषयतासंबन्धस्तदुपपादकः प्रतिद्योत्य इति ज्ञेयम् । भागे इति । "उदाहरणं वक्ष्यते" इति शेषः । लक्ष्मीर्हरिं प्रतीति । स्वामित्यं द्वितीयार्थः । प्रत्यादिद्योत्यः । तदाह — हरेर्भाग इत्यर्थ इति । हरेः स्वभूतेति यावत् । वीप्सायामिति । "उदाहरणं वक्ष्यते" इति शेषः । वृक्षं वृक्षं प्रतीति ।नित्यवीप्सयो॑रिति द्विर्वचनम् । अत्र सन्वाच्या इच्छा स्वरूपसती व्याप्तिरेव तु विवक्षिता, सा च कार्त्स्न्येन संबन्धात्मिका । तथाच प्रकृत्यर्थगतकार्त्स्न्यमेव व्याप्तिः, सा यद्यपि द्विर्वचनद्योत्या, तथापि प्रतिपर्यनुयोगे तद्द्योत्यत्वमपि । तथाच कृत्स्नं वृक्षं सिञ्चतीत्यर्थः । व्यक्तिकार्त्स्न्यमिह विवक्षितं नत्ववयवकार्त्स्न्यमितिनित्यवीप्सयो॑रित्यत्र भाष्ये स्पष्टम् । ननु सेचने वृक्षस्य कर्मत्वादेव द्वितीयासिद्धेः किमिह कर्मप्रवचनीयसंज्ञयेत्यत आह — अत्रेति । गत्युपसर्गसंज्ञापवादः कर्मप्रवचनीयसंज्ञेत्युक्तमतोऽत्र प्रतेः क्रमप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधात्उपसर्गात्सुनोती॑ति षत्वं न भवति । कर्मप्रवचनीयत्वाऽभावे तु प्रतेरुपसर्गत्वात्ततः परस्य सिञ्चतेः सस्य षत्वं स्यादित्यर्थः । भाष्ये तुकिमर्थमिदमुच्यते, कर्मत्वादेव द्वितीया सिध्यति,उपसर्गसंज्ञानिवृत्तिस्तु न प्रयोजनम् । क्रियायोगाऽभावे तदप्रसक्ते॑रित्याक्षिप्यद्वितीयार्थमेवैतत् कर्मप्रवचनीयसंज्ञाविधान॑मित्यक्तम् । वृक्षस्य सेचने कर्मत्वेऽपि तदविवक्षायां षष्ठीं बाधितुमिदं कर्मप्रवचनीयत्वाविधानम् । किं च वृक्षस्य सेचने कर्मत्वेऽपि प्रथमतः प्रतिद्योत्यसंबन्धेऽन्वयेन अन्तरङ्गत्वात्तन्निमित्तषष्ठीबाधनार्थमिदम् ।वृक्षं वृक्षं प्रति पक्षिण आसते॑ इत्यादावकर्मकधातुयोगेऽधिकरणादिसंज्ञानिरसार्थं चेदमिति भाष्याशय इति शब्देन्दुशेखरे मञ्जूषायां च स्पष्टम् । एषु किमिति ।लक्षणेत्थम्भूताख्यानभागवीप्सासु॑ इति किमर्थमित्यर्थः । परिषिञ्चतीति ।अग्नि॑मित्यादि शेषः । अत्र लक्षणाद्यभावात्कर्मप्रवचनीयत्वाऽभावे॒उपसर्गात्सुनोती॑ति षत्वमिति भावः ।
लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः - लक्षणेत्थं । वृक्षं प्रतीति । वृक्षसंबन्धि द्योतनमर्थः । संबन्धश्च लक्ष्यलक्षणभाव इति प्रत्यादयो द्योतयन्ति । भक्तो विष्णुं प्रतीति । विष्णोर्भक्तेश्च विषयविषयिभावः प्रत्यादिद्योत्यः । भक्तः किंचित् प्रकारं प्राप्त इत्यर्थः । लक्ष्मीर्हरिं प्रतीति । लक्ष्मीरूपस्य भागस्य हरिणा सह स्वस्वामिभावः [संबन्धः] । वृक्षं वृक्षमिति । इह वूप्सा द्विर्वचनेनैव द्योत्यते । प्रत्यादिशब्दस्तु क्रियया संबध्यते । कर्मण्येव द्वितीय । क्रमप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधात् षत्वं न, एतदर्थमेवलक्षणादयो विषयट तयोपात्ता॑इति व्याख्यातमाकरे ।पञ्चम्यपाङ्परिभिः॑इति तु न भवति, वर्जनार्थेनाऽपेत्यनेन साहचर्यात् । परिषिञ्चतीति । सर्वतः सिञ्चतीत्तर्थः ।उपसर्गात्सुनोती॑ति षत्वम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः कस्य लक्षणादयोऽर्था निर्दिश्यन्ते ? वृक्षादीनाम् ।। किमर्थं पुनरिदमुच्यते ? कर्मप्रवचनीयसंज्ञा यथा स्यात्, गत्युपसर्गसंज्ञे मा भूतामिति । नैतदस्ति प्रयोजनम् । यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवतो न च वृक्षादीन्प्रति क्रियायोगः । इदं तर्हि प्रयोजनम्, द्वितीया यथा स्यात् ‐ कर्मप्रवचनीययुक्ते द्वितीया 2|3|8 इति । वृक्षं प्रति विद्योतते वृक्षमनु विद्योतते इति ।। 90 ।।