॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|9
SK 3389
1|4|9
षष्ठीयुक्तश्छन्दसि वा
SK 3389
सूत्रच्छेद:
षष्ठीयुक्तः - प्रथमैकवचनम् , छन्दसि - सप्तम्येकवचनम् , वा - अव्ययम्
अनुवृत्ति:
पतिः  [1|4|8] - प्रथमैकवचनम् , घि  [1|4|7] - प्रथमैकवचनम्
अधिकार:
आकडारात् एका संज्ञा  [1|4|1]
सम्पूर्णसूत्रम्
षष्ठीयुक्त: पति छन्दसि घि वा
सूत्रार्थ:
षष्ठीयुक्तः पति-शब्दः वेदानाम् विषये विकल्पेन घि-संज्ञकः भवति ।
केवल-पति-शब्दस्य पति समास एव 1|4|8 इत्यनेन घि-संज्ञायाः निषेधे प्राप्ते वेदानां विषये यदि अयं शब्दः षष्ठ्यन्त-शब्दस्य अन्वये आगच्छति, तर्हि अस्य विकल्पेन घिसंज्ञा भवति । इत्युक्ते, केवल-पति-शब्दस्य अपि वेदेषु षष्ठ्यन्त-पदेन सह अन्वये सति मुनि-शब्दवत् रूपाणि दृश्यन्ते ।

यथा -
1. (रामरक्षा) - सीतायाः पतये नमः । अत्र पति-शब्दस्य "सीतायाः" अनेन षष्ठी-वाचकेन शब्देन अन्वयः अस्ति, अतः अत्र पति-शब्दस्य घि-संज्ञा भवति, तथा च चतुर्थ्येकवचनम् "पतये" इति रूपं सिद्ध्यति ।
2. (रूद्रनमकम्) - पशूनां पतये नमः । अत्रापि पति-शब्दस्य "पशूनाम्" अनेन षष्ठी-वाचकेन शब्देन अन्वयः अस्ति, अतः अत्र पति-शब्दस्य घि-संज्ञा भवति, तथा च चतुर्थ्येकवचनम् "पतये" इति रूपं सिद्ध्यति ।
3. (रामायणम् - सुन्दरकाण्डम्) - पर्वतः सरितां पतौ । अत्र पति-शब्दस्य "सरिताम्" अनेन षष्ठी-वाचकेन शब्देन अन्वयः अस्ति, अतः अत्र पति-शब्दस्य घि-संज्ञा भवति, तथा च सप्तम्येकवचनस्य "पतौ" इति रूपं सिद्ध्यति ।
4. (वेदोक्तः अङ्गारकमन्त्रः) - क्षेत्रस्य पतिना । अत्र पति-शब्दस्य "क्षेत्रस्य" अनेन षष्ठी-वाचकेन शब्देन अन्वयः अस्ति, अतः अत्र पति-शब्दस्य घि-संज्ञा भवति, तथा च तृतीयैकवचनस्य "पतिना" इति रूपं सिद्ध्यति ।

अनेन सूत्रेण इयम् घि-संज्ञा विकल्पेन दीयते, अतः घि-संज्ञाम् विना अपि रूपाणि वेदेषु दृश्यन्ते । यथा, ब्रह्मपुराणे - "बहुधा पीड्यमानस्तु पितुः पत्या सुदुःखितः" इति उल्लेख अस्ति । अत्र "पितुः" अस्य षष्ठ्यन्तस्य पदस्य पति-शब्देन सह अन्वये सत्यपि तृतीयैकवचनस्य "पत्या" इति रूपम् योजितम् अस्ति । एतत् रूपम् घिसंज्ञायाः अभावे यणादेशं कृत्वा सिद्ध्यति ।

ज्ञातव्यम् - अनेन सूत्रेण पति-शब्दस्य घिसंज्ञा केवलं तदा दीयते यदा तस्य अन्वयः षष्ठीवाचकेन शब्देन सह अस्ति । अन्या विभक्तिः अस्ति चेत् वेदेषु अपि घिसंज्ञा न भवति । यथा - "एना पत्या तन्वं सं..." (विवाहसूक्तम् - ऋग्वेदस्य दशममण्डलस्य पञ्चाशीतितमं सूक्तम्) । अत्र पति-शब्दस्य षष्ठीवाचकेन शब्देन सह अन्वयः नास्ति, अतः अत्र पति-शब्दस्य तृतीयैकवचनम् "पत्या" इति भवति, "पतिना" इति न ।
One-line meaning in English
The word पति, when associated with a word of षष्ठी विभक्ति, optionally gets the term घि in वेदा:.
काशिकावृत्तिः
पतिः इति वर्तते। पूर्वेण नियमेन असमासे न प्राप्नोति इति वचनम् आरभ्यते। षष्ठ्यन्तेन युक्तः पतिशब्दः छन्दसि वषये वा घिसंज्ञो भवति। कुलुञ्चानां पतये नमः, कुलुञ्चानां पत्ये नमः। षस्ठीग्रहणं किम्? मया पत्या जरदष्टिर्यथासः। छन्दसि इति किम्? ग्रामस्य पत्ये।
अत्र यदि पतिशब्दः षष्ठीविभक्त्यन्तो घि ज्ञो भवतीत्येषोऽर्थोऽभिमतः स्यात्, तदा युक्तग्रहणमनर्थकं स्यात्; षष्ठीत्यवं ब्राऊयात्। तस्माद्युक्तग्रहणे सति षष्ठन्तशब्दान्तरेण युक्त इत्येषोऽर्थो विज्ञायत इत्यत आह-- `षष्ठन्तेन` इत्यादि। यदि पुनः पतिशब्दस्य षष्ठन्तस्य घिसंज्ञा स्यात्, तदा किं स्यात्? पस्युरित्यत्रैव स्यात्, इह तु न स्यात्-- क्रुञ्चानामपतये नम इति।`मया पत्या` इति। तृतीयायुक्तोऽत्र पतिशब्दः। अस्मदः `मपर्यन्तस्य` 7|2|91 `त्वमावेकवचने` 7|2|97 इति मादेशः। `योऽचि` 7|2|89 इति यकारः॥
षष्ठ।ल्न्तेन शब्देनेति। षष्ठ।ल विभघक्त्या युक्त इति तु न भवति। तथा हि-षष्ठ।लमित्येव ब्रूयाद्, युक्तग्रहणमनर्थकं स्यात्। षष्ठीग्रहणं किमिति। अत्र केचिद्योगस्यावर्जनीयत्वाद्यौक्त इत्येव विशिष्टो योगः प्रत्येष्यत इति मन्यन्ते, वचनमन्तरेण विशेषो दुर्ज्ञान इत्युतरम्। अयमत्र योगविभागः कर्तव्यः-ठ्षष्ठीयुक्तः च्छन्दसिऽ,षष्ठीयुक्तः पतिशब्दः च्छन्दसि घिसञ्ज्ञो भवति; ततो ठ्वाऽ, च्छन्दसीत्येव, यच्च यावच्च शास्त्रे कार्यं तत्सर्वं च्छन्दसि विकल्पेन भवतिः सर्वे विधयश्च्छन्दसि विकल्प्यन्त इत्यर्थः। उभयत्रविभाषा चेयम्, ठ्बहुलं च्छन्दसिऽ इत्यादिकस्त्वस्या एव प्रपञ्चः॥
सिद्धान्तकौमुदी
षष्ठ्यन्तेन युक्तः पतिशब्दश्छन्दसि घिसंज्ञो वा स्यात् । क्षेत्रस्य पतिना वयम् (क्षेत्र॑स्य पति॑ना व॒यम्) । इह वेति योगं विभज्य छन्दसीत्यनुवर्तते । सर्वे विधयश्छन्दसि वैकल्पिकाः । तेन बहुलं छन्दसि--(कौमुदी-3401) इत्यादिरस्यैव प्रपज्ञः । यचि भम् (कौमुदी-231)नभोऽङ्गिरोमनुषां वत्युपसंख्यानम् (वार्तिकम्) ॥ नभसा । तुल्यं नभस्वत् । भत्वाद्रुत्वाभावः अङ्गिरस्वदङ्गिरः (अ॒ङ्गि॒र॒स्वद॑ङ्गिरः) । मनुष्वदग्ने (म॒नु॒ष्वद॑ग्ने) । जनेरुसिः <{उ272}> इति विहित उसिप्रत्ययो मनेरपि बाहुलकात् ॥ ।वृषण्वस्वश्वयोः (वार्तिकम्) ॥ वृषन् वर्षुकं वसु यस्य स वृषण्वसुः । वृषा अश्वो यस्यासौ वृषणश्वः । इहान्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वे सति नलोपः प्राप्तो भत्वाद्वार्यते । अत एव पदान्तस्य (कौमुदी-198) इति णत्वनिषेधोऽपि न । अल्लोपोनः (कौमुदी-234) इत्यल्लोपो न । अनङ्गत्वात् ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
षष्ठीयुक्तश्छन्दसि वा (249) योगविभागः कर्तव्यः । षष्ठीयुक्तश्छन्दसि षष्ठीयुक्तः पतिशब्दश्छन्दसि घिसंज्ञो भवति । ततो वा वा छन्दसि सर्वे विधयो भवन्ति । सुपां व्यत्ययः, तिङां व्यत्ययः, वर्णव्यत्ययः, लिङ्गव्यत्ययः, कालव्यत्ययः, पुरुषव्यत्ययः, आत्मनेपदव्यत्ययः, परस्मैपदव्यत्ययः । सुपां व्यत्ययः-युक्ता मातासीद्धुरि दक्षिणायाः दक्षिणायामिति प्राप्ते। तिङां व्यत्ययः-चषालं ये अश्वयूपाय तक्षति तक्षन्तीति प्राप्ते । वर्णव्यत्ययः-त्रिष्टुभौजः शुभितमुग्रवीरम् सुहितमिति प्राप्ते। लिङ्गव्यत्ययः-मधोर्गृह्णाति मधोस्तृप्ता इवासते मधुन इति प्राप्ते। कालव्यत्ययः-श्वोऽग्नीनाधास्यमानेन श्वः सोमेन यक्ष्यमाणेन श्व आधाता, शवो यष्टेति प्राप्ते। पुरुषव्यत्ययः-अधा स वीरैर्दशभिर्वियूयाः वियूयादिति प्राप्ते। आत्मनेपदव्यत्ययः ‐ ब्रह्मचारिणमिच्छते इच्छतीति प्राप्ते। परस्मैपदव्यत्ययः-प्रतीपमन्य ऊर्मिर्युध्यति अन्वीपमन्य ऊर्मिर्युध्यति युध्यत इति प्राप्ते ।। 9 ।।