॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|87
SK 551
1|4|87
उपोऽधिके च   🔊
SK 551
सूत्रच्छेद:
उपः - प्रथमैकवचनम् , अधिके - सप्तम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राग्रीश्वरान्निपाता:  [1|4|56] , कर्मप्रवचनीया:  [1|4|83]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
उपशब्दः अधिके हीने च द्योत्ये कर्मप्रवचनीयसंज्ञो भवति। उप खार्यं द्रोणः। उप निष्के कार्षापणम्। हीने उप शाकटायनं वैयाकरणाः।
अधिकध्यारूढमुच्यते। न चानधिकेन विनाधिकं सम्भवति। तेनाधिके सम्बन्धेऽध्यारूढक्रियाजनिते संज्ञेयं विज्ञायते। चकारद्धीने च। `उपखार्यां द्रोणः` इति। खार्या द्रोणोऽधिक इत्यर्थः। `यस्मादधिकम्` 2|3|9 इत्यादिना सप्तमी। तयैव सम्बन्धस्याभिहितत्वात् द्रोणशब्दात् `कर्मप्रवचनीययुक्ते द्वितीया` 2|3|8 इति द्वितीया न भवति॥
अत्राप्यधिकिना विनाधिकस्यासम्भावद् अधिकाधिकिसम्बन्धे संज्ञा विधीयते। विभक्तिरप्यधिकिन एव भवति, नाधिकात्। उपखार्यो द्रोण इति। खारशब्दो गौरादिः, खारी तावदस्ति, अधिकोऽपि तस्यां द्रोणोऽस्तीत्यर्थः। ठ्यस्मादधिकम्ऽ इति सप्तमी॥ अपपरी वर्जने॥ प्रकृतेन वाक्ये प्रतिपाद्यमानेनेत्यर्थः। परिपरित्रिगर्तेभ्य इति ठ्पञ्चम्यपाङ्परिभिःऽ इति पञ्चमी, ठ्परेर्वर्जनेऽ इति द्विर्वचनम्, कर्मप्रवचनीयेन पञ्चमीसहितेन द्योतितेऽपि वर्जने भवति, उभयोरपि विधानसामर्थ्यात्। परिषिञ्चतीति। परिः सर्वतो भावे, अत्रास्याः संज्ञाया अभावाद् उपसर्गत्वे सति ठुपसर्गात्सुनोतिऽ इति षत्वं भवति, ठ्शे मुचादीनाम्ऽ इति नुम्॥
सिद्धान्तकौमुदी
अधिके हीने च द्योत्ये उपेत्यव्ययं प्राक्संज्ञं स्यात् । अधिके सप्तमी वक्ष्यते । हीने उप हरिं सुराः ॥
उपोऽधिके च - उपोऽधिके च । चकारात् "हीने" इति समुच्चीयते । तदाह-अधिके हीने चेति । आधिक्ये निकर्षे चेत्यर्थः । प्राक्संज्ञमिति । प्रागुक्तकर्मप्रवचनीयसंज्ञकमित्यर्थः । अधिके संज्ञाविधानं न द्वितीयार्थमित्याह-अधिके सप्तमी वक्ष्यत इतियस्मादधिक॑मित्यनेन कर्मप्रवचनीयसंज्ञाकार्यं सप्तमी वक्ष्यते इत्यर्थः । हीने इति । "उदाहरणं वक्ष्यते" इति शेषः । उप हरिं सुरा इति । हरेर्हीना इत्यर्थः ।
उपोऽधिके च - उपहरिमिति । पूर्ववदुत्कष्टादेव द्वितीया ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!