॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|86
SK 550
1|4|86
हीने   🔊
SK 550
सूत्रच्छेद:
हीने - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राग्रीश्वरान्निपाता:  [1|4|56] , कर्मप्रवचनीया:  [1|4|83]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
हीनः इति न्यूनः उच्यते, स च उत्कृष्टापेक्षः। तेन इयम् हीनौत्कृष्टसम्बन्धे संज्ञा विज्ञायते। हीने द्योत्ये अयम् अनुः कर्मप्रवचनीयसंज्ञो भवति। अनु शाकटायनं वैयाकरणाः। अन्वर्जुनं योद्धारः।
`अनुशाकटायनं वैयाकरणाः` इति। शाकटायनमपेक्ष्यान्ये वैयाकरणा हीना इति। अपेक्षयात्र जनितो यः सम्बन्धस्तेन व्यतिरिच्यते शाकटायन इति। ततः षष्ठआं प्राप्तायां तदपवादेन द्वितीया विधीयते। एकयैव विभक्त्योभयस्थोऽपि सम्बन्धो द्योतित इति। तेन सम्बन्ध्यन्तरवाचिनो वैयाकरणशब्दादपरः सम्बन्धिविभक्तिर्न भवति॥
हीनेत्कृष्टसम्बन्धे संज्ञेति। कर्मप्रवचनीयविभक्तिस्तु तेन व्यतिरिच्यमान उत्कृष्ट एव भवति, न हीने, अभिधानाशक्तिस्वाभाव्यात् नोभाभ्यामेकयैव द्वितीयया द्विष्ठस्यापि सम्बन्धस्याभिधानात् षष्ठीत्॥
सिद्धान्तकौमुदी
हीने द्योत्येऽनुः प्राग्वत् । अनु हरिं सुराः । हरेर्हीना इत्यर्थः ॥
हीने - हीने । हीने द्योत्ये इति । निकर्षे द्योत्ये इत्यर्थः । हीन इति भावे क्तः । "ओ हाक् त्यागे" इति धातोरोदित्त्वात्ओदितश्चे॑ति निष्ठानत्वम् । अनुः प्राग्वदिति । क्रमप्रवचनीयसंज्ञ इत्यर्थः । अनु हरिं सुरा इति । अत्र निकृष्टभावोऽनुद्योत्या द्वितीयार्थः । तदाह — हरेर्हीना इत्यर्थ इति । हरेरिति षष्ठी प्रतियोगितायाम्, हरिप्रतियोगिकनिकर्षवन्त इत्यर्थः ।
हीने - हीने । उत्कृष्टादेव द्वितीया न त्वपकृष्टात्, शक्तिस्वभावदित्याशयेनोदाहरति — अनु हरिमिति । उपोऽधिके च । चकारेण हीने इत्यनुकृष्यते, तदाह — अधिके हीने चेति । अधिके संज्ञाविधानं न द्वितीयार्थमित्याह — सप्तमी वक्ष्यत इति ।यस्मादधिक॑मित्यनेनेति भावः । तस्मिन्नपि सूत्रेकर्मप्रवचनीययुक्ते॑इत्यनुवृत्तेरधिके संज्ञाविधान मावश्यकमेवेति ज्ञेयम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!