॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|84
SK 547
1|4|84
अनुर्लक्षणे   🔊
SK 547
सूत्रच्छेद:
अनुः - प्रथमैकवचनम् , लक्षणे - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राग्रीश्वरान्निपाता:  [1|4|56] , कर्मप्रवचनीया:  [1|4|83]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अनुशब्दो लक्षणे ध्योत्ये कर्मप्रवचनीयसंज्ञो भवति। शाकल्यस्य संहितामनु प्रावर्षत्। अनडुद्यज्ञमन्वसिञ्चत्। अगस्त्यमन्वसिञ्चत् प्रजाः। किम् अर्थम् इदम् उच्यते, यावता लक्षनैत्थम् भूताऽख्यान 1|4|90 इति सिद्धैवानोः कर्मप्रवचनीयसंज्ञा? हेत्वर्थं तु वचनम्। हेतुतृतीयां वाधित्वा द्वितीयाऽ एव यथा स्यात्।
`लक्षणाशब्दोऽत्र चिह्ने वर्तते` इति मत्वा कश्चिच्चोदयति-- `किमर्थम्` इत्यादि। इतरस्तु `लक्षणेत्थम्भूताख्यानभागवीप्सासु` 1|4|89 इत्यादौ सूत्रे। तत्र चिह्ने ज्ञापके वत्र्तमानस्य लक्षणशब्दस्य ग्रहणम्, इह तु कारके हेतौ, अतस्तेन न सिध्यतीत्येनाभिप्रायेण तं प्रत्याह-- `हेत्वर्थन्तु वचनम्` इत्यादि। तुशब्दोऽवधारणे-- हेत्वमर्थमेवेति। हेतुशब्दोऽतर् कारकहेतुवचनः, न ज्ञापकहेतुवचनः; अन्यथा ह्रपरिहार एवायं स्यात्। हेतुरर्थो यस्य तत्तथोक्तम्। हेतौ वत्र्तमानस्यानोः कर्मप्रवचनीयसंज्ञा यथा स्यादित्येवमर्थमिदं वचनमित्यर्थः। किमर्थं पुनहतौ वत्र्तमानस्य तस्येयं संज्ञा विधीयत इत्याह-- `हेतौ तृतीयायाम्` इत्यादि। संहिता हि वर्षणस्य हेतुः, अनुहुद्द्यज्ञः सेकस्य, तथा हि-- संहितामनुनिशम्य श्रुत्वा प्रावर्षत्। अवुडुद्यज्ञञ्चानुनिशम्यासिञ्चत्। तत्र यदि हेतावनोरेषा संज्ञा नोच्येत शाकल्यस्य संहितामनु रप्रावर्रषदित्यादौ `हेतौ` 2|3|23 इति तृतीया स्यात्। तस्मात्तां बाधित्वा द्वितीयैव यथा स्यादित्येवमर्थ हेतावियं संज्ञाऽनोर्विधीयते॥
यावतेति। यावताशब्दो निपातो नन्वित्यर्थे। अन्येत्यर्थ इत्यन्ये। लक्षणेत्थभ्भूताख्यानेतिष सिद्धेति। तत्र चावश्यमनोर्ग्रहणं कर्तव्यमिर्त्थभूताख्यानादिषु याथा स्यात्। लक्षणग्रहणं च प्रत्याद्यर्थम्, अतोऽर्थान्तरसंज्ञान्तरसंज्ञान्तरसाधारणत्वातदेवास्तु, इदं तु न कर्तव्यमिति भावः। हेत्वर्थन्त्विति । तु शब्दः पक्षं व्यावर्तयति। हेतुःउ करणम्, अर्थःउ प्रयोजनं प्रयोजकोऽस्य वचनस्येत्यर्थः। ननु च तत्र चात्र च लक्षणग्रहणमेव क्रियते, तद्यदि हेतुर्लक्षणं न भवति, इहापि न गृह्यते, अथ भवति तत्रापि नार्थ एतेन? तत्राह--हेतुतृतीयामिति। सत्यम्; लक्ष्यतेऽनेन तल्लक्षणमु चिह्नं ज्ञापकम्, कारणमपि नियतं कार्यविशेषावगतिहेतुत्वाद् लक्षणं भवत्येव। उक्तं भाष्ये--लक्षणेन हेतुरपि व्याप्तो नावश्यं तदेव लक्षणं येन पुनः पुनर्लक्ष्यते,किं तर्हि? यत्सकृदपि निमितत्वाय कल्पते पदपि लक्षणमिति। किन्तु येन नाप्राप्तिन्यायेन कर्मप्रवचनीययुक्ते द्वितीया षष्ठ।ल एवापवादः। ततश्च लक्षणेत्थंभूतेत्यनोर्लक्षघणे कर्मप्रवचनीयसंज्ञाया अवकाशो यो हेतुर्न भवति-वृक्षमनुविद्योतते, हेतुतृतीयाया अवकाशः- धनेन कुलमिति; हेतुभूते तु लक्षणे उभयप्रसङ्गे परत्वात् तृतीया स्यात्, तामपि बाधित्वा द्वितीयैव यथा स्यात्। पुनः संज्ञाविधाने कक्षान्तरप्राप्तत्वाद् द्वितीयैव तृतीया बाधते। उक्तं च-- हेतुहेतुमतोर्योगपरिच्छेदोऽनुना कृते। आरम्भाद्वाध्यते प्राप्ता तृतीया हेतुलक्षणा॥ इति। ठ्तृतीयार्थऽ इत्यनेन तु पुरस्तादपवादन्यायेन ठ्सहयुक्तेऽप्रधानेऽ इत्यस्यैव बाधः, न हेतुतृतीयाया इति वक्तव्यमेतत्॥
सिद्धान्तकौमुदी
लक्षणे द्योत्येऽनुरुक्तसंज्ञः स्यात् । गत्युपसर्गसंज्ञापवादः ॥
अनुर्लक्षणे - अनुर्लक्षणे । लक्षणे द्योत्ये इति । लक्ष्यलक्षणभावसंबन्धे द्योत्ये इत्यर्थः । उक्तसंज्ञ इति । कर्मप्रवचनीसंज्ञ इत्यर्थः । लक्ष्यते ज्ञायतेऽनेनेति लक्षणम्, तच्च हेतुभूतं विवक्षितम्, नतु वृक्षं प्रति विद्योतते विद्युदितिवच्चिह्नमात्रम्, तथा सतिलक्षणेत्थ॑मित्येव सिद्धेरिति वक्ष्यते । गत्युपसर्गसंज्ञापवाद इति । अनेन क्रियायोगे एव कर्मप्रवचनीयसंज्ञेति सूचितम् । "कर्मप्रवचनीयाः" इति महासंज्ञाकरणसामथ्र्यादन्वर्थत्वम् । कर्मेति क्रियोच्यते, तां प्रोक्तवन्तः कर्मप्रवचनीयाः, भूते कर्तरि बाहुलकादनीयप्र्रत्ययः, ततश्च क्रियामेव न द्योतयन्ति किंतु क्रियानिरूपितसंबन्धविशेषं द्योतयन्ति । एवं च अनुप्रत्यादिषु क्रियानिरूपितसंबन्धस्य द्योत्यत्वेन अन्वयात्तत्र गत्युपसर्गसंज्ञयोः प्राप्तिर्बोध्या ।
अनुर्लक्षणे - गत्युपसर्गसंज्ञापवाद इति । ननुजपमनु प्रावर्ष॑दित्यत्र वृष्ट प्रत्यनोर्योगाऽभावेन क्रियायोगाऽभावादेतयोः संज्ञयोः प्राप्त्यभावात्कथं तदपवादत्वमस्याः सञ्ज्ञाया इति चेत् । अत्राहुः — गम्यमाननिशमनक्रियामपेक्ष्य तयोः प्राप्तिरस्तीति संभावनामात्रेण मूलस्य निर्बाधत्वात् । न चैवं कर्मंत्वादेव द्वितीयासिद्धौ किमनया संज्ञयेति वाच्यम्, जपस्य निशमनप्रयुक्तहेतुत्वाख्यसंबन्धविवक्षायां कर्मत्वाऽभावेन तृतीयायां प्राप्तायां तदारम्भात् । न चैवमपिजपमनु निशम्य देवः प्रावर्षत्इत्यर्थावगमाल्ल्य[बन्त]लोपे पञ्चम्यपवादार्थैवेयं संज्ञाऽस्त्विति वाच्यम् । ल्य[बन्त]लोपे हि कर्मँणि अधिकरणे च पञ्चमी, जपस्य तु कर्मत्वादिना विवक्षाऽभावादिति । परापि हेतौतृतीयेत्यादि । अयं भावः — लक्षणे कर्मप्रवचनीयसंज्ञाया अवकाशो यो न हेतुः — ॒वृक्षमनु विद्योतते विद्यु॑दिति, हेतुतृतीयाया अवकाशोधनेन कुल॑मित्यादि ।जपमनु प्रावर्ष॑दित्यत्र तु देतुभूते लक्षणे परत्वात्तृतीया स्यात्तां बाधित्वाअनुर्लक्षणे॑इति पुनः संज्ञाविधानसामथ्र्याद्द्वितीयैव भवतीति । न चतृतीयार्थे॑इति सूत्रेणेह गतार्थता शङ्क्या, तस्य पुरस्तादपवादन्यायेनसहयुक्तेऽप्रधाने॑इत्येतावन्मात्रबाधकत्वात् । समाथ्र्यादिति । अत एव हेतुत्वपर्यन्तमपि शाब्दबोधे विषय इति स्वीक्रियते इति भावः । नदीमन्विति । द्वितीयायाः संम्बन्धोऽर्थः, षष्ठपवादत्वादेतद्द्वितीयायाः । स चेह संबन्धः साहित्यरूप एवेत्यनुना द्योत्यते ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अनुर्लक्षणे किमर्थमिदमुच्यते ? कर्मप्रवचनीयसंज्ञा यथा स्यात्, गत्युपसर्गसंज्ञे मा भूतामिति । किं च स्यात् ? शाकल्यस्य संहितामनु प्रावर्षत् ‐ गतिर्गतौ 8|1|70 इति निघातः प्रसज्येत । यद्येवं वेरपि कर्मप्रवचनीयसंज्ञा वक्तव्या । वेरपि निघातो नेष्यते-प्रादेशं विपरिलिखति । अस्त्यत्र विशेषः । नाऽत्र वेर्लिखिं प्रति क्रियायोगः । किं तर्हि ? अप्रयुज्यमानम्-प्रादेशं विमाय परिलिखतीति । यद्येवमनोरपि कर्मप्रवचनीयसंज्ञया नार्थः । अनोरपि हि न वृषिं प्रति क्रियायोगः । किं तर्हि ? अप्रयुज्यमानम् ‐ शाकल्येन सुकृतां संहितामनुनिशम्य देवः प्रावर्षत् । इदं तर्हि प्रयोजनं, द्वितीया यथा स्यात् ‐ कर्मप्रवचनीययुक्ते द्वितीया 2|3|8 इति ।। अत उत्तरं पठति ‐ अनुर्लक्षणेवचनानर्थक्यं सामान्यकृतत्वात् ।। 1 ।। अनुर्लक्षणेवचनमनर्थकम् । किं कारणम् ? सामान्यकृतत्वात् । सामान्येनैवात्र कर्मप्रवचनीयसंज्ञा भविष्यति लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः 1|4|90 इति । हेत्वर्थं तु वचनम् ।। 2 ।। हेत्वर्थमिदं वक्तव्यम् । हेतुः शाकल्यस्य संहिता वर्षस्य, न लक्षणम् । किं वक्तव्यमेतत् ? नहि कथमनुच्यमानं गंस्यते ? लक्षणं हि नाम स भवति येन पुनः पुनर्लक्ष्यते, न यः सकृदपि निमित्तत्वाय कल्पते । सकृच्चाऽसौ शाकल्येन सुकृतां संहितामनुनिशम्य देवः प्रावर्षत् । स तर्हि तथा निर्देशः कर्तव्योऽनुर्हेताविति ।। अथेदानीं लक्षणेन हेतुरपि व्याप्तो नार्थोऽनेन । लक्षणेन हेतुरपि व्याप्तः । न ह्यवश्यं तदेव लक्षणं भवत-येन पुनः पुनर्लक्ष्यते । किं तर्हि ? यत्सकृदपि निमित्तत्वाय कल्पते तदपि लक्षणं भवति । तद्यथा, ‐ अपि भवान्कमण्डलुपाणिं छात्रमद्राक्षीदिति । सकृदसौ कमण्डलुपाणिश्छात्रो दृष्टस्तस्य तदेव लक्षणं भवति । एतदेव तर्हि प्रयोजनम् ‐ द्वितीया यथा स्यात्, कर्मप्रवचनीययुक्ते द्वितीयेति । एतदपि नास्ति प्रयोजनम् । सिद्धाऽत्र द्वितीया कर्मप्रवचनीययुक्ते इत्येव । न सिध्यति । परत्वाद्धेत्वाश्रया तृतीया प्राप्नोति। ।। 84 ।।