॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|83
SK 546
1|4|83
कर्मप्रवचनीयाः   🔊
SK 546
सूत्रच्छेद:
कर्मप्रवचनीयाः - प्रथमाबहुवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राग्रीश्वरान्निपाता:  [1|4|56] , कर्मप्रवचनीया:  [1|4|83]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
कर्मप्रवचनीयाः इत्यधिकारो विदितव्यः। यानित ऊर्ध्वम् अनुक्रमिष्यामः कर्मप्रवचनीय. संज्ञास्ते वेदितव्याः अधिरीश्वरे 1|3|97 इति यावद् वक्ष्यति। कर्मप्रवचनीयप्रदेशाः कर्मप्रवचनीययुक्ते द्वितीया 2|3|8 इत्येवम् आदयः।
`कर्मप्रवचीयाः` इति वक्ष्यमाणानां संज्ञिनां बहुत्वाद्बहुवचनेन निर्देशः। महत्याः संज्ञायाः करणस्यैतत्प्रयोजनमन्वर्थसंज्ञा यथा विज्ञायेत-- कर्म प्रोक्तवन्तः कर्मप्रवचीया इति। भूते `कृत्यल्युटो बहुलम्` 3|3|113 इति कत्र्तर्यनीयर्। कर्मशब्दः क्रियावचनः। के च कर्म प्रोक्तवन्तः? ये सम्प्रति क्रियां न त्वाहुः। तदेवमन्वर्थसंज्ञाकरणद्वारेण ये क्रियां द्योतितवन्तः, न तु प्रोक्तवन्तः? येत सम्प्रति क्रियां न त्वाहुः। तदेवमन्वर्थसंज्ञाकरणद्वारेण ये क्रियां द्योतितवन्तः, न तु सम्प्रति द्योतयन्ति, ते कर्मप्रवचनीयसंज्ञा भवन्तीत्युक्तं भवति। यदि सम्प्रतति न क्रियां द्योतयन्ति, किन्तर्हि? सम्बन्धविशेषम्। यथा शाकल्यस्य संहितामनुप्रावर्षखदित्यत्र हि निशमनक्रियया संहिताप्रवर्षणयोर्यः सम्बन्ध उपजनितो हेतुहेतुमद्भावलक्षणः, तमनुशब्दो द्योतयति। कर्मप्रवचनीयसंज्ञायां सत्याम् `कर्मप्रवचनीययुक्ते द्वितीया` 2|3|8 इति द्वितीया भवति॥
वक्ष्यामाणानां संज्ञिनां बहुत्वाद्वहुवचनम्, यथा--निपाताः, कृत्या इति। क्वचितु सामान्यविवक्षयैकवचनम्, ठ्गतिश्चऽ,ठ्प्रत्ययःऽठ्कृत्ऽ इति। महासंज्ञाकरणमन्वर्थसंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम्--कर्मौक्रियां प्रोक्तवन्तः कर्मप्रवचनीया इति। भूते ठ्कृत्यल्युटो बहुलम्ऽ इति कर्तरि कृत्यः। के च कर्म प्रोक्तवन्तः? ये प्रयुज्यमाने क्रियापदे--ठनुभूयते कम्बलःऽ इत्यादौ क्रियाविशेषं द्योतितवन्तः, न संप्रति क्रियाविशेषं द्योतयन्ति, किं तर्हि? सम्बन्धविशेषम्, तद्यथा--शाकल्यस्य संहितामनुप्रावर्षदिति। न ह्यत्रानुरनुभूयते इत्यादाविव क्रियाविशेषं द्योतयति, क्रियापदाभावात्; नापि षष्ठीवत्सम्बन्धमाचष्टे--संहितामिति; द्वितीयायास्तदर्थत्वात्। नापि क्रियापदमाक्षिपति, यथा--प्रादेशं विपरिलिखतीति, विशब्दो विमानक्रियां प्रादेशं विमाय परिलिखतीति । तथा हि--सति प्रादेशमितिवत् कारकविभक्तिप्रसङ्गः, शेषसम्बन्धस्य वा प्रतीतिप्रसङ्गः। तदेवमनुः संहिताप्रवर्षणयोर्यः शेषसम्बन्धो द्वितीयाभिहितस्तं विशेषेऽवस्थापयति। हेतुहेतुमद्भावेन रूपेण विशिष्टक्रियाजनितत्वेन वा सम्बन्धस्य तत्संनिधौ सम्प्रत्ययात् संहितामनुनिशम्य प्रावर्षदिति। उक्तं च-- क्रियाया द्योतको नायं न सम्बन्धस्य वाचकः। नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः॥ इति। क्वचितु प्रवृत्तिनिमिताभावेऽपि वचनसामर्थ्यादियं संज्ञा प्रवर्तते, यथा--ठ्सुः पूजायाम्ऽ ठतिरतिक्रमणे च इति॥
सिद्धान्तकौमुदी
इत्यधिकृत्य ॥
कर्मप्रवचनीयाः - कर्मप्रवचनीयाः । इत्यधिकृत्येति ।प्राग्रीस्वरान्निपाताः॑ इति पर्यन्तमिति बोध्यम् ।
कर्मप्रवचनीयाः - कर्मप्रवचनीयाः । इत्यधिकृत्येति । रूआरात्प्रागिति बोध्यम् । गुरुसंज्ञाकरणमन्वर्थत्वाय । कर्म क्रियां प्रोक्तवन्तः कर्मप्रवचनीयाः । बाहुलकाद्भूते कर्तर्यनीयर् । तेन संप्रति क्रियां न द्योतयन्तीति लभ्यते । तथा च हरिः — ॒क्रियाया द्योतको नाऽयं सम्बन्खस्य न वाचकः । नापि क्रियापदाक्षेपी, सम्बन्धस्य तु भेदकः॑इति । तथाहिजपमनु प्रावर्ष॑दित्यत्र अनुना न क्रियाविशेषो द्योत्यते,अनुभूयते सुख॑मित्यदौ यथा । नापि षष्ठएव सम्बन्ध उच्यते, द्वितीययैवो तस्योक्तत्वात् । नापिप्रादेशं विपरिलिखति॑विमाय परिलिखतीत्यत्र विशब्देन मानक्रियेव क्रियान्तरमाक्षिप्यते, कारकविभक्तिप्रसङ्गात् । किं तु जपसम्बन्धि वर्षणमिति द्वितीययावगतः सम्बन्धो लक्ष्यलक्षणभाव एवेत्यवगमात्सम्बन्ध एवानुना विशेषेऽवस्थाप्यते । क्विचित्तु क्रियागतविशेषद्योतकेऽपि इयं संज्ञा वचनात्प्रवर्तते ।सुःपूजायाम्॒अतिरतिक्रमणे च ॑इति यथा । उक्तसंज्ञ इति । कर्मप्रवचनीयसंज्ञ इत्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
कर्मप्रवचनीयाः किमर्थं महती संज्ञा क्रियते ? अन्वर्थसंज्ञा यथा विज्ञायेत-कर्म प्रोक्तवन्तः कर्मप्रवचनीया इति । के पुनः कर्म प्रोक्तवन्तः ? ये संप्रति क्रियां नाहुः । के च संप्रति क्रियां नाहुः ? येऽप्रयुज्यमानस्य क्रियामाहुस्ते कर्मप्रवचनीयाः ।। 83 ।।