Page loading... Please wait.
1|4|76 - मध्येपदेनिवचने च
॥ तस्मै पाणिनये नमः ॥
1|4|76
SK 777
मध्येपदेनिवचने च   🔊
सूत्रच्छेदः
मध्ये (लुप्तप्रथमान्तनिर्देशः) पदे (लुप्तप्रथमान्तनिर्देशः) निवचने (लुप्तप्रथमान्तनिर्देशः)(अव्ययम्)
अनुवृत्तिः
-
अधिकारः
आकडारात् एका संज्ञा  1|4|1 प्राग्रीश्वरान्निपाताः  1|4|56
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
विभाषा कृञि इति वर्तते। चकारातनत्याधाने इति च। मद्ये पदे निवचने इत्येते शब्दा अनत्याधाने विभाषा कृञि गतिसज्ञा भवन्ति। मद्येकृत्य, मध्ये कृत्वा। पदेकृत्य, पदे कृत्वा। निवचनम् वचनाभावः। निवचनेकृत्य, निवचने कृत्वा। वाचम् नियम्य इत्यर्थः अनत्याधाने इत्येव, हस्तितः पदे कृत्वा शिरः शेते।
`मध्ये पदे` इति। सप्तम्यन्तप्रतिरूपकौ। `निवचने` इति। अर्थाभावेऽव्ययीभावः; नितृणं निवुसमिति यथा। `निवचनेकृत्य` इति। उच्चारणसामथ्र्यात् सप्तम्याः समासेऽप्यलुग् भवति। एवमुत्तरत्र॥
मघ्ये पदे निवचने च ॥ अविभक्तिको निर्देशः, मध्येपदेशब्दौ निपातौ। निवचनं वचनाभाव इति। तत्र निपातनादेकारान्तत्वं न पुनरेषा सप्तमी। वाचं नियम्येति। व्याख्यानान्निपातनं चाविशेषेण, न तु संज्ञासन्नियुक्तं निवचने कृत्वेति उदाहृतत्वादित्याहुः॥
सिद्धान्तकौमुदी
एते कृञि वा गतिसंज्ञाः स्युरनत्याधाने । मध्येकृत्य । मध्ये कृत्वा । पदेकृत्य । पदे कृत्वा । निवचनेकृत्य । निवचने कृत्वा । वाचं नियम्येत्यर्थः ॥
मध्येपदेनिवचने च - मध्येकृत्येति । गतिसमासे क्त्वो ल्यप् । मद्यं कृत्वेत्यर्थः । पदेकृत्येति । गतिसमासे क्त्वो ल्यप् । पदं कृत्वेत्यर्थः । निवचनेकृत्येति । वचनाऽभावं कृत्वेत्यर्थः । तदाह — वाचं नियम्येत्यर्थ इति । वचनस्याभावो निवचनम् । अर्थाभावेऽव्ययीभाव इति भावः ।
मध्येपदेनिवचने च - मध्ये पदे ।विभाषाकृञी॑ति वर्तते, चकारादनत्याधाने॑इति च । एषामनत्याधानरूपार्थविशेषे एदन्तत्वमविशेषएण निपात्यते, न तु गतिसंज्ञासंनियोगेन । अनत्याधाने किम् । पदे कृत्वा शिरो नमति । वाचं नियम्येति । निवचनं हि वचनाऽभावः । अर्थाऽभावेऽव्ययीभावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.