॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|74
SK 775
1|4|74
साक्षात्प्रभृतीनि च
SK 775
सूत्रच्छेद:
साक्षात्प्रभृतीनि - प्रथमाबहुवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राग्रीश्वरान्निपाता:  [1|4|56]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Menwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
विभाषा कृञि इति वर्तते। साक्षात्प्रभृतीनि शब्दरूपाणि कृञि विभाषा गतिसंज्ञानि भवन्ति। साक्षात्प्रभृतिषु च्व्यर्थवचनम्। साक्षात्कृत्य, साक्षात् कृत्वा। मिथ्याकृत्य, मिथ्या कृत्वा। साक्षात्। मिथ्या। चिन्ता। भद्रा। लोचन। विभाषा। सम्पत्का। आस्था। अमा। श्रद्धा। प्राजर्या। प्राजरुहा। वीजर्या। वीजरुहा। संसर्या। अर्थे। लवणम्। उष्णम्। शीतम्। उदकम्। आर्द्रम्। गतिसंज्ञासंनियोगेन लवणादीनाम् मकारन्तत्वम् निपात्यते। अग्नौ। वशे। विकम्पते। विहसने। प्रहसने। प्रतपने। प्रादुस्। नमस्। आविस्।
`साक्षात्प्रभृतिषु च्व्यर्थवचनम्` इति। च्व्यर्थ उच्यते कथ्यते येन तच्व्यर्थवचम् - च्व्यर्थव्याख्यानम्। एतेनैतदुक्तं भवति-- साक्षात्प्रभृतीनां च्व्यर्थो येन प्रतिपाद्यते अस्मिन् संज्ञाविधौ तच्व्यर्थवचनं कत्र्तव्यमित्यर्थः। किमर्थम्? असाक्षाद्भूतं यदा साक्षात् क्रियते तदा गतिसंज्ञा यथा स्यात्। यदा त्वसाक्षाद्भावो न क्रियते, किन्तु साक्षाद्भूत्सय प्रत्यक्षभावमुपगतस्यैव सतो योऽन्यो विशेषः कश्चित् क्रियते, तदा मा भूदिति। एवं मिथ्याप्रभृतीनाम्। अमिथ्याभूतानां मिथ्याभूतानां यदा क्रियते, तदा यथा स्यात्; अन्यथा मा भूत्। तदेवं व्याख्यानम्-- `ऊर्यादिच्विडाचश्च` 1|4|60 इत्यत्र च्विग्रहणम् `अच्छ गत्यर्थवदेषु` 1|4|68 इत्यतश्चार्थग्रहणमिह मण्डूकप्लुतिन्यायेनानुवत्र्तते। तेन च्व्यर्थे वत्र्तमानानां साक्षात्प्रभृतीनां गतिसंज्ञा विधीयत इति। व्यवस्थितविभाषाविज्ञानाद्वा च्व्यर्थ एव वत्र्तमानानां तेषां संज्ञा भविष्यतीति। च्व्यर्थता चोभयथा सम्भवति-- च्व्यन्तानाम्, अच्व्यन्तानाञ्च। तत्र यदा च्व्यन्तता भवति तदा `ऊर्यादिच्विडाचश्च` 1|4|60 इति नित्यं संज्ञा भवति, अन्यथा त्वनेन गतिसंज्ञा विभाषा भवति; व्यवस्थितविभाषया चास्य सूत्रस्य च्व्यर्थष्वेव प्रवृत्तेः। मकारान्तत्वनिपातनम्। अग्नौ, वशेप्रभृतयो विभक्तिप्रतिरूपकनिपाता द्रष्टव्यः। प्रादुराविः शब्दावूर्यादिषु उरसिमनसिशब्दौ विभक्तिप्रतिरूपकौ निपातौ। `उरसिकृत्य`इति। अभ्युपगम्येत्यर्थः। `मनसिकृत्य` इति। निश्चित्येत्यर्थः॥
साक्षात्प्रभृतिष्विति। असाक्षाद्भूतं यदा साक्षात्क्रियते तदा यथा स्यात् यदा यतु साक्षाद्भूतमेव रूपान्तरेण क्रियते तदा मा भूदित्येवमर्थम्। मिथ्याप्रभृतिष्वपि द्रष्यव्यम्। एतच्चान्तरङ्गत्वाल्लभ्यते, तथा हि--साक्षात्कृतमित्युक्ते श्रुतस्य तस्यैव रूपस्य करणं प्रतीयते, न त्वश्रुतरूपान्तरस्य। नन्वसत्यामपि प्रकृतिविवक्षायां तस्यैव रूपस्य करणं प्रतीयते, अथ च च्व्यर्थवृत्तिता नास्ति, तस्माच्च्व्यर्थग्रहणमेव कर्तव्यम्। अथ च्व्यन्तेष्वपि साक्षादादिषु अयं विकल्पः कस्मान्न भवति? अस्तु, अनेन मुक्ते पुनः प्रसङ्गविज्ञानाद् ठूर्यादिच्विडाचश्चऽ इत्येषा भविष्यति? नैवं शक्यम्, यदेतल्लवणादीनां मकारान्तत्वनिपातनं तदपि च्व्यन्तेषु स्यात्। एवं लवणादीनां मान्ता लवणादय आदेशाः करिष्यन्ते, तत्र यद्येकदेशविकृतस्यानन्यत्वाल्ल्लवाणीशब्दस्यापि पक्षे लवणमादशः क्रियते न कश्चिद् दोषः; त्रैशब्द्यं हि नः साध्यम्--लवणंकृत्य, लवणं कृत्वा, लवणीकृत्येति, तच्चैवं सिद्धम्। वृत्तिकारस्तु ठ्मकारान्तत्वं निपात्यतेऽ इति वदति, स मन्यते--च्व्यन्तेषु पूर्वविप्रतिषेधेन नित्या संज्ञा भवति, विकल्पेन तु सन्नियुक्तं मान्तत्वं निपातनमिति। अग्नौ, वशेप्रभृतयो विभक्तिप्रतिरूपका निपाताः, प्रादुराविशब्दयोरूर्यादित्वात् प्राप्ते विभाषा॥
सिद्धान्तकौमुदी
कृञि वा गतिसंज्ञानि स्युः ॥ ।च्व्यर्थ इति वाच्यम् (वार्तिकम्) ॥ साक्षात्कृत्य । साक्षात्कृत्वा । लवणंकृत्य । लवणं कृत्वा । मान्तत्वं निपातनात् ॥
साक्षात्प्रभृतीनि च। शेषपूरणेन सूत्रं व्याचष्टे--कृञि वेति। साक्षादित्यव्ययम्।
साक्षात्कृत्येति। असाक्षाद्भूतं यथा साक्षाद्भवति तथा कृत्वेत्यर्थः। च्व्यन्तेषु तु पूर्वविप्रतिषेधात् `ऊर्यादिच्विडाचश्चे`ति नित्यैव गतिसंज्ञा। तेन लवणीकृत्येत्यत्र मान्तत्वं न भवति। तद्धि पाक्षिकं। गतिसंज्ञासंनियोगेनेह गणे निपातनात्। भाष्यकृता `लवणशब्दस्य लवणीशब्दस्य वा विकल्पेन लवणशब्द आदिश्यते तस्य च संज्ञाविकल्प`इत्युक्तम्। उभयथापि त्रैरूप्यं निर्बाधम्।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
साक्षात्प्रभृतीनि च साक्षात्प्रभृतिषु च्व्यर्थवचनम् ।। 1 ।। साक्षात्प्रभृतिषु च्व्यर्थवचनं कर्तव्यम् । असाक्षात्साक्षात्कृत्वा साक्षात्कृत्य । यदा हि साक्षादेव सत्किंचित् क्रियते तदा मा भूदिति । मकारान्तत्वं च गतिसंज्ञासंनियुक्तम् ।। 2 ।। मकारान्तत्वं च गतिसंज्ञासंनियोगेन वक्तव्यम् । लवणंकृत्य । तत्र च च्विप्रतिषेधः ।। 3 ।। तत्र च च्व्यन्तस्य प्रतिषेधो वक्तव्यः । लवणीकृत्य । न वा पूर्वेण कृतत्वात् ।। 4 ।। न वा वक्तव्यम् । किं कारणम् ? पूर्वेण कृतत्वात् । अस्त्वनेन विभाषा, पूर्वेण नित्या भविष्यति। । इदं तर्हि प्रयोजनम् ‐ मकारान्तत्वं च गतिसंज्ञासन्नियुक्तमित्युक्तं तच्च्व्यन्तस्य मा भूदिति । एतदपि नास्ति प्रयोजनम् । लवणशब्दस्याऽयं विभाषा लवणं शब्द आदेशः क्रियते । यदि च लवणीशब्दस्याऽपि विभाषा लवणंशब्द आदेशो भवति न किंचिद् दुष्यति । त्रैशब्द्यं चेह साध्यम्, तच्चैवं सति सिद्धं भवतीति ।। 74 ।।