`पुरस्कृत्य` इति। पूर्वस्माद्देशागत इत्यस्मिन्नर्थे `पूर्वाधरावराणामसि पुरधवश्चैषाम्`
5|3|39 इत्यसिप्रत्ययः पूर्वशब्दस्य च पुरादेशः। `तद्धितश्चासर्वविभक्तिः`
1|1|37 इत्यव्ययसंज्ञा विसर्जनीयस्थानिकस्य सकारस्योपचार इत्येषा संज्ञा पूर्वाचार्यप्रणीता। `नमस्पुरसोर्गत्योः`
8|3|40 इति सकारः।`पूः पुरौ, पुरः कृत्वा गतः` इति। पुरः कृत्वेतीदं प्रत्युदाहरण्। पूः परावित्येतयोस्तूपन्यसस्तत्साहचर्येण पुरःशब्दस्यानव्ययत्वप्रदर्शनार्थः। `पृ? पालनपूरणयोः` (धातुपाठः-1489), `भ्राजभ्रास`
3|2|177 इत्यादिना। क्विप्। `उदोष्ठपूर्वस्य`
7|1|102 इत्युक्तम्, रपरत्वञ्च। गतिसंज्ञाया अभावादिह समासादि कार्यं न भवति। `नमस्पुरसोर्गत्योः`
8|3|40 इति विसर्जनीयस्य सकारोऽपि न भवति। ननु च यद्यत्र गतिसंज्ञा स्यात् गतिसमासे कृते सुपो निवृत्त्या भवितव्यम्, तदा पुर इति रूपं न स्यात्; असति तस्मिन् संज्ञाऽपि निवत्र्तते, नैतदस्ति; यद्यपि विभक्तौ निवृत्तायां पुर इति रूपं न स्यात्, नैवं संज्ञा निवत्र्तते; एकदेशविकृतस्यानन्यत्वात् (व्या।प।16)॥