॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|65
SK 766
1|4|65
अन्तरपरिग्रहे
SK 766
सूत्रच्छेद:
अन्तः - अव्ययम् , अपरिग्रहे - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राग्रीश्वरान्निपाता:  [1|4|56]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet. It will be updated eventually, but if you would like us to update this sutra on priority, please send a message using the link at the bottom of this page. Thanks!
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अन्तःशब्दो ऽपरिग्रहे ऽर्थे गतिसंज्ञो भवति। परिग्रहः स्वीकरणम्। तदभावे गतिसंज्ञा विधीयते। अन्तर्हत्य। अन्तर्हतम्। यदन्तर्हन्ति। अपरिग्रहे इति किम्? अन्तर्हत्वा भूषिकाम् श्येनो गतः। परिगृह्य गतः इत्यर्थः। अन्तःशब्दस्य अङ्किविधिणत्वेषु उपसर्गसंज्ञा वक्तव्या। अन्तर्धा। अन्तर्धिः। अन्तर्णयति।
अन्तःशब्दोऽयं मध्येऽधिकरणभूते वर्तते; परिग्रहे च। तत्र परिग्रहप्रतिषेधादिरत्र संज्ञा विधीयते।यस्त्वस्य स्वरादिषु पाठः, स परिग्रहेऽप्यव्ययसंज्ञार्थः। `अन्तर्हस्य` इति। मध्ये हत्वेत्यर्थः। `वा ल्यपि` 6|4|38 , इत्यनुनासिकलोपः। वक्तव्य इति व्याख्येय इत्यर्थः। व्याख्यानं तु पूर्वमेव कृतम्। `अन्तर्धा` इति। आतश्चोपसर्ग` 3|3|106 इत्यङ। `अन्तर्द्धिः` इति। `उपसर्गे घोः किः` 3|3|92 इति किप्रत्ययः। `अन्तर्णयति` इति। `उपसर्गादसमासेऽपि` 8|4|14 इति णत्वम्॥
अन्तर्हत्वा, मध्ये हत्वेत्यर्थः। अन्तः शब्दस्येत्यादि। उपसर्गसंज्ञायामेवैतन्नोक्तम्--अन्तः शब्दप्रसङ्गेन वक्ष्यामीति। यदा चोपसर्गसंज्ञोच्यते; तदान्तर्णयतीत्यादिवदन्तर्हण्यात्, अन्तर्हणनमित्यादावपि ठ्हन्तेरत्पूर्वस्यऽ इति णत्वं सिद्धम्। अन्तरयणमित्यत्रापि ठ्कृत्यचःऽ इत्येव सिद्धमिति ठन्तरदेशेऽठयनं चऽ इति सूत्रद्वयमपि देशप्रतिषेधार्थं द्रष्टव्यम्॥
सिद्धान्तकौमुदी
अन्तर्हत्य । मध्ये हत्वेत्यर्थः । अपरिग्रहे किम् । अन्तर्हत्वा गतः । हतं परिगृह्य गत इत्यर्थः ॥
अन्तरपरि। अपरिग्रहे वर्तमानमन्तरित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः। हतं परिगृह्येति। हत्वा गमनं हतमपरिगृह्य परिगृह्य वा भवति। तत्र आद्यमुदाहरणं, द्वितीयं प्रत्युदाहरणमित्यर्थः। अपरिग्रह इति प्रयोगोपाधिरेव, न तु वाच्यकोटिप्रविष्टम्।
हतं परिगृह्यति। हत्वा गमनं द्विधा, हतं त्यच्त्वा परिगृह्य चेति। आद्यमुदाहरणं, द्वितीयं तु प्रत्युदाहरणम्।`अपरिग्रहे`इति च प्रयोगोपाधिः, नतु वाच्यकोटिनिविष्टमिति भावः।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अन्तरपरिग्रहे अन्तःशब्दस्याऽङि्कविधिसमासणत्वेषूपसंख्यानम् ।। 1 ।। अन्तःशब्दस्याङ्किविधिसमासणत्वेषूपसंख्यानं कर्तव्यम् । अङ्-अन्तर्द्धा ।। किविधिः-अन्तर्द्धिः ।। समासः ‐ अन्तर्हत्य ।। णत्वम् ‐ अन्तर्हण्याद्गोभ्यो गाः ।। 65 ।।