Page loading... Please wait.
1|4|61 - ऊर्यादिच्विडाचश्च
॥ तस्मै पाणिनये नम: ॥
1|4|61
SK 762
ऊर्यादिच्विडाचश्च  
सूत्रच्छेद:
ऊर्यादि-च्वि-डाचः - प्रथमाबहुवचनम् , च - अव्ययम्
अनुवृत्ति:
गतिः  [1|4|60] - प्रथमैकवचनम् , क्रियायोगे  [1|4|59] - सप्तम्येकवचनम्
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राग्रीश्वरान्निपाता:  [1|4|56]
सम्पूर्णसूत्रम्
ऊर्यादि-च्वि-डाच: निपाता: क्रियायोगे गति
सूत्रार्थ:
ऊर्यादिगणस्य शब्दाः, च्वि-प्रत्ययान्तशब्दाः, तथा डाच्-प्रत्ययान्तशब्दाः क्रियायोगे निपातसंज्ञकाः गतिसंज्ञकाः च भवन्ति ।
ऊर्यादिगणः इति किञ्चन गणः । अस्मिन् गणे विद्यमानाः शब्दाः वर्तमानसूत्रेण निपातसंज्ञकाः गतिसंज्ञकाः च भवन्ति । अस्य गणस्य विवरणम् काशिकायाम् द्रष्टुं शक्यते ।

"च्वि" इति कश्चित् तद्धितप्रत्ययः । अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः 5|4|50 इत्यनेन अयम् प्रत्ययः प्रातिपदिकेभ्यः विधीयते । च्वि-प्रत्ययान्तशब्दाः अपि वर्तमानसूत्रेण निपातसंज्ञां गतिसंज्ञां च प्राप्नुवन्ति । यथा - "शुक्ली", "पटू", "स्पष्टी" - आदयः ।

"डाच्" इत्यपि अन्यतमः तद्धितप्रत्ययः । अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् 5|4|57 इत्यनेन अयं प्रत्ययः प्रातिपदिकेभ्यः विधीयते । डाच्-प्रत्ययान्तशब्दानाम् अपि वर्तमानसूत्रेण निपातसंज्ञा गतिसंज्ञा च भवति । यथा - "पटपटा", "दमदमा" - आदयः ।
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
ऊर्यादयः शब्दाः च्व्यन्ता डजन्ताश्च क्रियायोगे गतिसंज्ञा भवन्ति। च्विडाचोः कृभ्वस्तियोगे विधनम्। तत्साहचर्यादूर्यादीनाम् अपि तैरेव योगे गतिसंज्ञा विधीयते। ऊरीउररीशब्दावङ्गीकरने विस्तारे च। ऊरीकृत्य। ऊरीकृतम्। यदुरीकरोति। उररीकृत्य। उररीकृतम्। यदुररीकरोति। पापी। ताली। आत्ताली। वेताली। धूसी। शकला। संशक्ला। ध्वंसकला। भ्रंशकला। एते शकलादयो हिंसायम्। शकलाकृत्य। संशकलाकृत्य। ध्वंसकलाकृत्य। भ्रंशकलाकृत्य। गुलुगुध पीडार्थे गुलुगुधाकृत्य। सुजूःसहार्थे सजूःकृत्य। फलू, फली, विक्ली, आक्ली इति विकारे फलू कृत्य। फली कृत्य। विक्ली कृत्य। आलोओष्टी। करली। केवाली। शेवाली। वर्षाली। मस्मसा। मसमसा। एते हिंसायाम्। वषट्। वौषट्। श्रौषट्। स्वाहा। स्वधा। वन्धा। प्रादुस्। श्रुत्। आविस्। च्व्यन्ताः खल्वपि शुक्लीकृत्य। शुक्लीकृतम्। यच्छुक्लीकरोति। डाच् पटपटाक्रृत्य। पटपटाकृतम्। यत्पटपटकरोति।
`च्व्यन्ता डाजन्ताश्च` इति। ननु च पदसंज्ञायामन्तग्रहणेन ज्ञापितम्--`अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति` (पु।प।वृ।81) इति; अतश्च्विडाचोरेव गतिसंज्ञया भवितव्यम्, तत् किमुच्यते-- च्व्यन्ता डाजन्ताश्चेति? एवं मन्यते-- `क्रियायोगे` 1|4|58 इति वत्र्तते, न च प्रत्ययमात्रस्य क्रियायोगः सम्भवति। तस्मात् क्रियायोगानुवृत्तिसमाथ्र्यात् तदन्तस्यैव संज्ञा विज्ञायत इति भवत्येव तदन्तस्य संज्ञा। सा तु विशेषानुपादानाद्धातुमात्रेण योगे प्राप्नोतीत्यत आह-- `च्विडाचोः` इत्यादि। अभूततद्भावे कृभ्वस्तियोगे 5|4|50 च्विर्विहितः। `अव्यक्तानुकरणात्` 5|4|57 इत्यादावपि सूत्रे कृभ्वस्तियोगस्यानुवृत्तेर्डाजिपि तत्रैव विहितः। तेन च्विडाचोस्तावद्धात्वन्तरेण योगासम्भवात् कृभ्वस्तियोगे गतिसंज्ञाविधानम्। अतस्तत्साहचर्यादूर्यादीनामपि तैरेव योगे विधीयते। ऊर्यादिभ्यश्च्व्यर्थस्याप्रतीतेर्न प्रतिपादयितुमाह-- `उरी, उररी` इत्यादि। श्रौषञडादीनां स्वधापर्यन्तानां चादिषु पाठादक्रियायोगेऽपि निपातसंज्ञा भवति। आविस्शब्दः साक्षात्प्रभृतिषु पठते। तेन तस्य `विभाषा कृञि` 1|4|71 इति करोतियोगे विभाषा गतिसंज्ञ#आ। `शुक्लीकृत्य` इति। `अस्य च्वौ` 7|4|32 इतीत्त्वम्। `पटपटाकृत्य` इति। `वा क्यषः` 1|3|90 इत्यत्र पटपटाशब्दो व्युत्पादितः॥
च्व्यन्ता डाजन्ताश्चेति। यद्यपि पदसंज्ञायामन्तग्रहणेन ठ्संज्ञाविधौ प्रतययग्रहणे तदन्तविधिर्नास्तिऽ इति ज्ञापितम्, तथापिठ्क्रियायोगेऽ इत्यनुवृतेस्तदन्तग्रहणमिति भावः। न हि प्रत्ययमात्रस्य क्रियायोगः सम्भवति, स्वार्थिकत्वेन स्वयमनर्थकत्वात्, च्वेरश्रावित्वाच्च। कृभ्वस्तियोग इति। न केवलम्, संज्ञाप्रयोगोऽप्यन्यत्र भवति, न हि भवति उरीसंपद्यते इति, श्रौषडादीनां स्वाहापर्यन्तानां चादिषु पाठाद् अक्रियायोगेऽपि निपातत्वम्। आविःशब्दस्य साक्षात्प्रभृतिषु पाठात् कृञो योगे विकल्पः, कृभ्वस्तियोगे त्वनेन नित्यम्। कथं तर्हि ठाविश्चक्षुषोऽभवदसाविव रागःऽ, ठभवन् युगपद्विलोलजिह्वा युगलीढोभयसृक्कधारमाविः इति? स्वतन्त्रा कवयः। शुक्लीकृत्येति। ठस्य च्वौऽ इतीत्वम्। पटपटाशब्दः ठ्वा क्यषःऽ इत्यत्र व्युत्पादितः॥
सिद्धान्तकौमुदी
एते क्रियायोगे गतिसंज्ञा स्युः । ऊरीकृत्य । उररीकृत्य । शुक्लीकृत्य । पटपटाकृत्य ॥ । कारिकाशब्दस्योपसंख्यानम् ॥ कारिका क्रिया कारिकाकृत्य ॥
ऊर्यादिच्विडाचश्च - ऊर्यादिच्वि । च्वि-डाचौ प्रत्ययौ । ऊरीकृत्येति । ऊरीत्यव्ययमङ्गीकारे, तस्य कृत्वेत्यनेन गतिसमासः । समासेऽनञ्पूर्वे क्त्वो ल्यप् । शुक्लीकृत्येति । अशुक्लं शुक्लं कृत्वेत्यर्थः । "कृभ्वस्तियोगे" इत्यभूततद्भावे च्विः । गतिसमासे सति क्त्वो ल्यप्,वेरपृक्तस्ये॑ति वलोपः । "अस्य च्वौ" इति ईत्त्वम् । पटपटाकृत्येति । "पटपटा" इति शब्दं कृत्वेत्यर्थः ।अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् इति पटच्छब्दाड्डाचि द्वित्वम्, टिलोपः ।नित्यमाम्रेडिते डाची॑ति तकारपकारयो पकार एकादेशः । गतिसमासे क्त्वो ल्यप् । कारिकाशब्दस्योपसङ्ख्यानमिति । "गतिसंज्ञाया" इति शेषः । कारिकाशब्दं व्याचष्टे — कारिका क्रियेति ।स्त्रियां क्ति॑नित्यधिकारे धात्वर्थनिर्देशे ण्वुल् । कारिकाकृत्येति । क्रियां कृत्वेत्यर्थः । द्वितीयान्तस्य गतिसमासे क्त्वो ल्यप्, सुब्लुक् । कारिकाशब्दोऽत्र न कत्र्रीवाची, न श्लोकवाची च, व्याख्यानात् ।
ऊर्यादिच्विडाचश्च - ऊर्यादिच्विडाचश्च ।उपसर्गाः क्रियायोगो॑इत्यतोऽनुवर्तनादाह — क्रियायोग इति । च्विडाचौ कृभ्वस्तियोगे विहितौ, तत्साहचर्यादूर्यादीनामपि तत्रैव गतिसंज्ञा । तेनेह न — -ऊरी पक्त्वा । माधवादिग्रन्थे तु आविःप्रादुः शब्दौ मुक्त्वा अन्येषां कतोतिनैव योगे गतिसंज्ञे॑ति स्थितम् । तथैवोदाहरति — ऊराकृत्येति । एतच्च मनोरमानुसारेणोक्तम् । वस्तुतस्तु ऊरीभूयेति भाष्योदाहरणाद्दिङ्भात्रमुदाहरति, ऊरीकृत्येत्यवतरितुं युक्तम् । संज्ञाफलं समासः, तत्फलं च ल्बिति बोध्यम् । ऊरी उररी — एतावङ्गीकारे । आविः शब्दस्य तु साक्षात्प्रभृतिषु पाठात्कृञो योगे गतिसंज्ञाविकल्पः, कृम्भस्तियोगे त्वनेन नित्यमिति बोध्यम् । कथं तर्हिवारुणीमदविशङ्कमथाविश्चक्षुषो भवदसाविव रागः॑इति माघ इति चेत् । अत्राहुः — ॒ते प्राग्धातोः॑इति सूत्रस्य प्रयोगनियमार्थत्वपक्षे प्रकृतेऽनुपपत्तवपि संज्ञानियमार्थत्वपक्षे दोषलेशोऽपि नास्तीति.शुक्लीति ।कुम्भस्तियोगे संपद्यकर्तरि च्विः॑ ।अस्य च्वौ॑इतीकारः । पटपटाकृत्येति ।डाचि बहुलं द्वे भवतः॑इति पटच्छब्दस्य द्वित्वम् ।अव्यक्तानुकरणाद् व्द्यजवराद्र्धादि॑ति तकारपकारयोः पकार एकादेशः । निपातसंज्ञायाः समावेशार्थः [सूत्रे]चकारः । तेन ऊरीकृतमित्यत्रगतिरनन्तरः॑इति पूर्वपदप्रकृतिस्वरे क्रियमाणे निपातप्रयुक्तमाद्युदात्तत्वं भवति ।कारिकाशब्दस्योपसंख्यानम् । कारिकेति । भावेपर्यायार्हणे॑ति ण्वुच् । तदाह — क्रियेति ।क्रियायोगे॑इत्यनेन कारिकाशब्दस्य विशेषणाच्छ्लोकवाचौ कारिकाशब्दोऽत्र न गृह्रत इति भावः । क्रियशब्दस्याऽत्र मर्यादास्थितिरर्थः । यत्न इत्यन्ये ।
लघुसिद्धान्तकौमुदी
ऊर्यादयश्च्व्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञाः स्युः। ऊरीकृत्य। शुक्लीकृत्य। पटपटाकृत्य। सुपुरुषः॥ (प्रादयो गताद्यर्थे प्रथमया)। प्रगत आचार्यः प्राचार्यः। (अत्यादयः क्रान्ताद्यर्थे द्वितीयया)। अतिक्रान्तो मालामिति विग्रहे -।
महाभाष्यम्
ऊर्यादिच्विडाचश्च कृभ्वस्तियोग।। 1 ।। कृभ्वस्तियोग इति वक्तव्यम् । इहैव यथा स्यात् ‐ ऊरीकृत्य उरीभूय । इह मा भूत् ‐ ऊरी पक्त्वा ।। तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । क्रियायोग इत्यनुवर्तते । न चाऽन्यया क्रिययोर्यादिच्विडाचां योगोऽस्ति ।। 60 ।।