॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|6
SK 296
1|4|6
ङिति ह्रस्वश्च
SK 296
सूत्रच्छेद:
ङिति - सप्तम्येकवचनम् , ह्रस्व: - प्रथमैकवचनम् , च - अव्ययम्
अनुवृत्ति:
वा  [1|4|5] - अव्ययम् , आमि  [1|4|5] - सप्तम्येकवचनम् , इयङ्-उवङ्-स्थानौ  [1|4|4] - प्रथमाद्विवचनम् , अस्त्री  [1|4|4] - प्रथमैकवचनम् , यू  [1|4|3] (लुप्तप्रथमान्तनिर्देश:) - प्रथमैकवचनम् , नदी  [1|4|3] - प्रथमैकवचनम् , स्त्र्याख्यौ  [1|4|3] - प्रथमाद्विवचनम्
अधिकार:
आकडारात् एका संज्ञा  [1|4|1]
सम्पूर्णसूत्रम्
इयङ्-उवङ्-स्थानौ यू स्त्र्याख्यौ, ह्रस्व: च, ङिति नदी वा, अस्त्री
सूत्रार्थ:
"स्त्री" शब्दं वर्जयित्वा अन्ये ईकारान्ताः / ऊकारान्ताः इयङ्-स्थानिनः / उवङ्स्थानिनः नित्यस्त्रीलिङ्गशब्दाः तथा ह्रस्व-इकारान्ताः ह्रस्व-उकारान्ताः नित्यस्त्रीलिङ्गशब्दाः ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञकाः भवन्ति ।
अनेन सूत्रेण द्वौ सिद्धान्तौ प्रोच्येते -

1) नित्यस्त्रीलिङ्गवाचिनाम् ईकारान्त/उकारान्तानाम् इयङ्-उवङ्-स्थानीनाम् शब्दानाम् नेयङुवङ्स्थानावस्त्री 1|4|4 इत्यनेन नदीसंज्ञायाः निषेधे प्राप्ते वर्तमानसूत्रेण ङित्-प्रत्यये परे सः निषेधः विकल्प्यते - इत्युक्ते, नदीसंज्ञा विकल्पेन भवति । यथा - श्री, भ्रू, धी - एतादृशानाम् शब्दानाम् ङे, ङसिँ, ङस् , ङिँ प्रत्ययेषु परेषु विकल्पेन नदीसंज्ञा भवति । यथा, "श्री + ङे" इत्यत्र रूपद्वयं सिद्ध्यति -

[नदीसंज्ञां स्वीकृत्य -]
श्री + ङे [चतुर्थ्यैकवचनस्य प्रत्ययः]
→ श्री + आट् + ङे [आण्नद्याः इति आडागमः]
→ श्री + ऐ [आटश्च 6|1|90 इति वृद्धि-एकादेशः]
→ श्र् + इयङ् + ऐ [अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6|4|77 इयङ्-आदेशः]
→ श्रियै

[नदीसंज्ञायाः अभावे -]
श्री + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]
→ श्र् + इयङ् + ए [अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6|4|77 इति इयङ्-आदेशः ]
→ श्रिये

एवमेव भ्रू-शब्दस्य चतुर्थ्यैकवचनस्य द्वे रूपे सिद्ध्यतः - भ्रुवै , भ्रुवे ।

2) ह्रस्व-इकारान्त/उकारान्तानाम् नित्यस्त्रीलिङ्गवाचिनाम् शब्दानाम् नदीसंज्ञायाः अप्राप्तायाः अनेन सूत्रेण ङित्-प्रत्यये परे नदीसंज्ञा विकल्पेन भवति । अतः मति, धेनु एतादृशानाम् शब्दानाम् अपि ङित्-प्रत्यये परे रूपद्वयं जायते -

[नदीसंज्ञां स्वीकृत्य -]
मति + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]
→ मति + आट् + ङे [आण्नद्याः इति आडागमः]
→ मति + ऐ [आटश्च 6|1|90 इति वृद्धि-एकादेशः]
→ मत्यै[इको यणचि 6|1|77 इति यणादेशः]


[नदीसंज्ञायाः अभावे मति-शब्दस्य शेषो घ्यसखि 1|4|7 इत्यनेन घि-संज्ञा भवति । अतः -]
मति + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]
→ मते + ए [घेर्ङिति 7|3|111 इति अङ्गस्य गुणः ]
→ मतये [एचोऽयवायावः 6|1|78 इति अयादेशः]

एवमेव धेनु-शब्दस्य चतुर्थ्यैकवचनस्य द्वे रूपे सिद्ध्यतः - धेनवे, धेन्वै ।

विशेषः - ह्रस्व-इकारान्तशब्दानाम् ह्रस्व-उकारान्तशब्दानाम् च शेषो घ्यसखि 1|4|7 इत्यनेन नित्यं घि-संज्ञा भवति । ङित्-प्रत्यये परे एतेषां नदीसंज्ञा विकल्पेन विधीयते । यत्र नदीसंज्ञा भवति, तत्र एकसंज्ञाधिकारस्य कारणात् घिसंज्ञायाः निषेधः अपि भवति इति स्मर्तव्यम् । कस्यापि शब्दस्य समानकाले घि-संज्ञा तथा नदी-संज्ञा न भवितुम् अर्हति, अतः नदीसंज्ञायाः विधानमेव धिसंज्ञायाः निषेधम् अपि कारयति ।

ज्ञातव्यम् - स्त्री-शब्दस्य यू स्त्र्याख्यौ नदी 1|4|3 इत्यनेन नदीसंज्ञा भवति, तथा नेयङुवङ्स्थानावस्त्री 1|4|4 इत्यनेन तस्य निषेधः अपि न भवति । वर्तमानसूत्रे अपि "अ-स्त्री" इत्यस्य अपि अनुवृत्तिः क्रियते, अतः वर्तमानसूत्रेण अपि ङित्-प्रत्यये परे स्त्री-शब्दस्य नदीसंज्ञा न विकल्प्यते । अतः ङित्-प्रत्यये परे अपि स्त्री-शब्दस्य नदीसंज्ञा नित्या एव वर्तते इत्यर्थः । अतः "स्त्री + ङे → स्त्रियै" इत्येव रूपं सिद्ध्यति ।
One-line meaning in English
Except for the word "स्त्री", any other word which is eligible for getting an इयङ्-आदेश or an उवङ्-आदेश, and any ह्रस्व-इकारान्त/हस्व-उकारान्त word optionally gets the term नदी in presence of a ङित् प्रत्यय.
काशिकावृत्तिः
दीर्घस्य नदीसंज्ञा विहिता, ह्रस्वस्य न प्राप्नोति, इयङुवङ्स्थानयोश्च प्रतिषिद्धा। तस्मान् ङिति व विधीयते। ङिति परतो ह्रस्वश्च य्वोः सम्बन्धी यः स्त्र्याख्यः, स्त्र्याख्यौ इयङुवङ्स्थानौ च यू वा नदी संज्ञौ भवतः। कृत्यै, कृतये। धेन्वै, धेनवे। श्रियै, श्रिये। भ्रुवै, भ्रुवे। अस्त्री इत्येव, स्त्रियै। स्त्र्याख्यौ इत्येव, अग्नये। वाय्वे। भनवे।
यद्यत्र ह्यस्वविशेषणार्थ `यू` इति नानुवत्र्तते इति नानुवत्र्तते, तदेहापि स्यात्-- मात्रे दुहित्र इति; तस्मात् तदिहानुवत्र्तते। अनुवत्र्तमानमपि यदि प्रथमान्तमनुवर्तते, तदा प्रथमान्तयोह्र्यस्वत्वं प्रति विशेषणविशेष्यभावो नोपपद्यते। तस्मात् तदिहार्थात् षष्ठन्तमुपजायत इत्यत आह-- `ह्यस्वश्च य्वोः सम्बन्धी` इति। कः पुनस्तयोः सम्बन्धी ह्यस्वः? यस्तयोह्र्यस्वः सवर्णः; तेन सामथ्र्यादिकारोकारयोग्र्रहणम्, न हि ताभ्यामन्यो ह्यस्व ईदुतोः सवर्णः सम्भवति। `कृत्यै, कृतये` इति। यदा नदीसंज्ञा तदा पूर्ववदाट्, अन्यथा तु `शेषो ध्यसखि` 1|4|7 इति धिसंज्ञकत्वात् `घेर्ङिति` 7|3|111 गुणः। अत्रापि यत्र विभक्तिसम्बन्धिनः शब्दरूपस्यावयवः स्त्र्याख्यस्तत्र पूर्वोक्तया रीत्या नदीसंज्ञा न प्राप्नोति-- अतिकृतये ब्राआहृणाय, अतिश्रियेति॥
यद्यत्र ह्रस्वविशेषणार्थम् ठ्यूऽ इति नानुवर्त्यत, तदेहापिस्याद्--मात्रे दुहित्रे इति, तस्मातदिहानुवर्तते। नन्वेवमपि विशेषणं न प्रकल्पतेयू ह्रस्वाविति; यदि यू, न ह्रस्वौ; अथ ह्रस्वौ, न यू;यू ह्रस्वौ चेति विप्रतिषिद्धम्; आहायं यू ह्रस्वाविति, तत एवं विज्ञास्यामः- य्वोः ह्रस्वाविति, कौ च य्वोः ह्रस्वौ सवर्णौ ? तदाह--ह्रस्वश्च य्वोः सम्बन्धी यः स्त्र्याख्य इति। अत्रापि समुदायधर्मस्यावयव आरोपाद् ह्रस्वयोः स्त्र्याख्यत्वम्, तदन्तविशेषणं वा। इयवणुङ्स्थानौ च यू इति। नन्वेकं ठ्यूऽ ग्रहणमनुवर्तते, तच्च ह्रस्वविशेषण एवोपक्षीणम्, तत्कथं पुनः ठ्यूऽ इति लभ्यते ? उच्यते; चकारोऽत्र क्रियते, स संज्ञिनः समुच्चयार्थः, इयणुवङ्स्थानाविति प्रकृतं य्वोरेव च तत्स्थानत्वमित्यर्थाद् ठ्यूऽ इति लभ्यते। स्वरितत्वादनुवृतं तु ठ्यूऽ इत्येतद् ह्रस्वविशेषणमिति न कश्चिद्दोषः॥
सिद्धान्तकौमुदी
इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ ह्रस्वौ च इ-उवर्णौ स्त्रियां वा नदीसंज्ञौ स्तो ङिति परे । आण् नद्याः (कौमुदी-268) । मत्यै । मतये । मत्याः । मत्याः । मतेः । मतेः । नदीत्वपक्षे औदिति ङेरौत्त्वे प्राप्ते ॥
इदन्तत्वाद्यूस्त्र्याख्याविति नदीत्वेऽप्राप्ते ङित्सु तद्विकल्पं दर्शयितुमाह--ङिति ह्रस्वश्च। अत्र चकाराद्वाक्यद्वयं, तथा हि `यूस्त्र्याख्यौ नदी`त्यनुवर्तते। ईश्च ऊश्च यू। `दीर्घाज्जसि चे`ति पूर्वसवर्णदीर्घनिषेधाऽभावश्छान्दसः। स्त्रियमेवाचक्षाते स्त्र्याख्यौ। नित्यस्त्रीलिङ्गाविति यावत्। `नेयङ्वङ्स्थानावस्त्री`ति सूत्रं नञ्वर्जमनुवर्तते। इयङुवङोः स्थानं स्थितिर्ययोस्ताविति विग्रहः। इयङुवङ्प्राप्तियोग्यावित्यर्थः। `वामी`त्यतो `वे`त्यनुवर्तते। ततश्च `इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ नदीसंज्ञौ वा स्तो ङिति परे` इति वाक्यमेकं संपद्यते। पुनरपि `यू` इत्यनुवर्तते। इश्च उश्च यू। `ह्रस्व` इति तत्र प्रत्येकमन्वेति। स्त्र्याख्याविति चानुवर्तते। तस्य च स्त्रीलिङ्गावित्येतावदेव विवक्षितं, नतु नित्यस्त्रीलिङ्गवीदूतौ नदीसंज्ञौ वा स्तो ङिति परे` इति वाक्यमेकं संपद्यते। पुनरपि `यू` इत्यनुवर्तते। इश्च उश्च यू। `ह्रस्व` इति तत्र प्रत्येकमन्वेति। स्त्र्याख्याविति चानुवर्तते। तस्य च स्त्रीलिङ्गावित्येतावदेव विवक्षितं, नतु नित्यस्त्रीलिङ्गाविति , व्याख्यानात्। `वामी`त्यतो वेति चानुवर्तते। ततश्च `स्त्रीलिङ्गौह्रस्वौ चेवर्णोवर्णौ नदीसंज्ञौ वा स्तो ङिति परे` इति वाक्यमेकं संपद्यते।तदाह--इयङुवङ्स्थानाविति। द्वितीयवाक्येऽपि स्त्रीलिङ्गे नित्यत्वविशेषणे तु इष्वशन्यरणिप्रभृतीनामुभयलिङ्गानां, पटुमृदुप्रभृतीना त्रिलिङ्गानां च ङिति नदीत्वविकल्पो न स्यादिति बोध्यम्। तत्र ह्रस्वयोकप्राप्ते दीर्घयोस्तु `नेयङुवङ्स्थाना`विति निषेधादप्राप्ते नदीत्वे विभाषेयम्। नदीत्वपक्षे आह--आण्नद्या इति। मति-ए इति स्थिते आटि वृद्धौ यणि च सिद्धं रूपमाह--मत्यै इति। मतये इति। नदीत्वाऽभावपक्षे `शेषो घ्यसखी`ति घित्वाद्धेर्ङितीति गुणेऽयादेशे हरिशब्दवद्रूपम्। नदीत्वपक्षे ङसिङसोरटि वृद्धिराकारः, यण्। मत्याः। नदीत्वाऽभावे-मतेः। आमि नदीत्वाभावेऽपि हस्वान्तत्वान्नुटि दीर्घः। मतीनाम्। ङौ विशेषमाह--नदीत्वपक्षे इति। नदीत्वपक्षे घित्वाऽभावात् `अच्च घेः` इत्यत्वसंनियोगशिष्टमौत्वं न भवति। किंतु ङेरामिति प्राप्तं, तद्बाधित्वा औदिति केवलमौत्वे परत्वात्प्राप्ते सतीत्यर्थः।
ङिति ह्रस्वश्च। `वामी`ति सूत्राद्वेत्यनुवर्तते। अप्राप्तविभेषेयं। ह्रस्वयोरप्राप्तावितरयोस्तु `नेयङुवाङ्स्थाना`विति निषेधप्राप्तावारम्भात्। इहे`इयङुवङ्स्थानौ``स्त्रीशब्दभिन्नौ``नित्यस्त्रीलिङ्गा`विति त्रीणि ईदुतोर्विशेषणानि, ह्रस्वयोस्तु `स्त्रिया`मित्येव विशेषणं, नत्तु नित्यस्त्रीत्वपर्यन्तम्, अन्यथा इष्वशनिप्रभ-तीनामुभयलिङ्गानां पटुमृदुप्रभृतीनां सर्वलिङ्गानां च स्त्रीत्वेऽपि नदीत्वं न स्यात्। कैयटमते हि तेषां नित्यस्त्रीत्वाऽभावात्, ह्रस्वांशे नित्यग्रहमव्यावर्त्त्याऽलाभाच्च। अतएवाऽऽख्याग्रहणं विहाय स्त्रीशब्दमात्रं निष्कृष्य संबध्यते, तदेतदाह----ह्रस्वौ च इउवर्णो स्त्रियामिति।
लघुसिद्धान्तकौमुदी
इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ, ह्रस्वौ चेवर्णोवर्णौ, स्त्रियां वा नदीसंज्ञौ स्तो ङिति। मत्यै, मतये। मत्याः 2। मतेः 2॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!