॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|59
SK 22
1|4|59
उपसर्गाः क्रियायोगे
SK 22
सूत्रच्छेद:
उपसर्गाः - प्रथमाबहुवचनम् , क्रियायोगे - सप्तम्येकवचनम्
अनुवृत्ति:
प्रादयः  [1|4|8] - प्रथमाबहुवचनम्
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राग्रीश्वरान्निपाता:  [1|4|56]
सम्पूर्णसूत्रम्
निपाता: प्रादय: क्रियायाेगे उपसर्गा:
सूत्रार्थ:
प्रादिगणे निर्दिष्टाः शब्दाः (यदा निपातसंज्ञकाः सन्ति, तदा) क्रियायाः योगे उपसर्गसंज्ञकाः अपि भवन्ति ।
किम् नाम प्रादिगणः? - प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप - एते द्वाविंशतिः शब्दाः प्रादिगणे समाविष्टाः सन्ति । एतेषाम् प्रादयः 1|4|58 इत्यनेन अद्रव्यवाचिषु अर्थेषु निपातसंज्ञा भवति । एते निपातसंज्ञकाः शब्दाः यदि धातुना सह प्रयुञ्जते, तर्हि तेषाम् "उपसर्ग" संज्ञा अपि भवति ।

यथा - प्रणमति, पराजयते, अपसरति, संगच्छति, अनुवदति, अवगच्छति, निश्चिनोति, निर्गच्छति, दुश्शास्ति, दुर्योध्यति, विजयते, आगच्छति, नियच्छति, अधिकरोति, अपिदधाति, अतिचरति, सुशोभयति, उत्पतति, अभिवदति, प्रतिददाति, परिपृच्छति, उपेति ।

अत्र कानिचन वार्तिकानि ज्ञातव्यानि -
1. श्रच्छब्दस्य उपसङ्ख्यानम् । इत्युक्ते, "श्रत्" इति शब्दः अपि क्रियायोगे उपसर्गरूपेण स्वीकर्तव्यः । यथा - श्रत् + धा + अङ् [आतश्चोपसर्गे 3|3|106 इति अङ्] → श्रद्धा ।
2. दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः । इत्युक्ते, षत्वे णत्वे च कर्तव्ये दुस्-इत्यस्य, दुर्-इत्यस्य च उपसर्गसंज्ञायाः प्रतिषेधः भवति । यथा -
अ) "दुर् + भू" इत्यस्य लोट्लकारस्य प्रथमपुरुषैकवचनम् "दुर्भवानि" इति भवति । अत्र दुर्-इत्यस्य यदि उपसर्गसंज्ञा अभविष्यत्, तर्हि आनि लोट् 8|4|16 इत्यनेन नकारस्य णत्वम् अभविष्यत् । परन्तु णत्वे कर्तव्ये दुर्-इत्यस्य उपसर्गसंज्ञायाः प्रतिषेधः भवति, अतः अत्र णत्वं न भवति ।
आ) "दुस् + स्था" इत्यस्य लृट्लकारस्य प्रथमपुरुषैकवचनम् "दुःस्थास्यति" इति भवति । अत्र दुस्-इत्यस्य यदि उपसर्गसंज्ञा अभविष्यत्, तर्हि उपसर्गात् सुनोतिसुवति... 8|3|65 इत्यनेन स्था-इत्यस्य सकारस्य षत्वम् अभविष्यत् । परन्तु षत्वे कर्तव्ये दुस्-इत्यस्य उपसर्गसंज्ञायाः प्रतिषेधः भवति, अतः अत्र षत्वं न भवति ।
3. अन्तश्शब्दस्य अङ्किविधिणत्वेषु उपसर्गत्वं वाच्यम् । इत्युक्ते, "अन्तर्" शब्दस्य अङ्विधिकर्तव्ये, "कि"विधिकर्तव्ये, तथा णत्वे कर्तव्ये उपसर्गसंज्ञा भवति । यथा -
अ) अन्तर् + धा (= अन्तर्धा) इत्यत्र आतश्चोपसर्गे 3|1|136 इत्यनेन अङ्-प्रत्ययः भवितुम् अर्हति, यतः अङ्विधिकर्तव्ये अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति ।
आ) अन्तर् + धिः (= अन्तर्धिः) इत्यत्र उपसर्गे घोः किः 3|3|92 इत्यनेन कि (=इ) प्रत्ययः भवति ।
इ) "अन्तर् + भू" अस्य लोट्लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धौ आनि लोट् 8|4|16 इत्यनेन णत्वम् भवितुम् अर्हति ।

ज्ञातव्यम् -
1. प्रादिगणस्य शब्दाः यदा क्रियायोगे प्रयुञ्जते, तदा एव तेषां उपसर्गसंज्ञा भवति । अन्येषु स्थलेषु तेषां उपसर्गसंज्ञा न भवति । यथा - सुयशः, प्रमुखः, संस्कृतम् - एतेषु शब्देषु सु/प्र/सम् एतेषाम् उपसर्गसंज्ञा न भवति ।
2. यद्यपि एतत् सूत्रम् एकसंज्ञाधिकारे अस्ति, तथापि प्रादिगणस्य धातूनाम् क्रियायोगे "उपसर्ग" तथा "निपात" द्वे अपि संज्ञे भवतः, यतः एतत् सूत्रम् निपाताधिकारे अपि आगच्छति ।
One-line meaning in English
The words belonging to the प्रादिगण are called उपसर्ग when used as a निपात along with a verb.
काशिकावृत्तिः
प्राऽदयः क्रियायोगे उपसर्गसंज्ञा भवन्ति। प्रणयति। परिणयति। प्रणायकः। परिणायकः। क्रियायोगे इति किम्? प्रगतो नायको ऽस्माद् देशात्, प्रनायको देशः। मरुच्छाब्दस्य च उपसङ्ख्यानम् कर्तव्यम्। मरुद्भिर् दत्तो मरुतः। संज्ञाविधानसामर्थ्यादनजन्तत्वे ऽपि अच उपसर्गात् तः 7|4|47 इति तत्त्वं भवति। श्रच्छब्दस्य उपसङ्ख्यानम्। आतश्चौपसर्गे 3|3|106 इति अङ् भवति श्रद्धा। उपसर्ग. प्रदेशाः उपसर्गे घोः किः 3|3|93 इत्येवम् आदयः।
`प्रणयति` इति। प्रशब्दस्योपसर्गत्वात् `उपसर्गादसमासेऽपि णोपदेशस्य` 8|4|14 इति णत्वम्। `प्रनायको देशः` इति। अत्रनयनक्रियया प्रशब्दस्य योगो नास्तीत्युपसर्गसंज्ञा न भवति। ननु चात्रापि गमिक्रियया योगोऽस्त्येवेति स्यादेव तस्योपसर्गसंज्ञा, नेतदस्ति; क्रियायोगग्रहणं ह्रेवमनर्थकं स्यात्। कथम्? प्रादीनां क्रियायोगाव्यभिचारात्; तस्मात् क्रियायोगग्रहणसामथ्र्याद्यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्ुयपसर्गसंज्ञका भवन्ति, नान्यं प्रति। न चेह नयनक्रियया युक्तः प्रशब्दः, किं तर्हि? गमिक्रिययेति नयतिं प्रत्युपसर्गसंज्ञको न भवति।`मरुच्छब्दस्योपसंख्यानम्` इति। तत्वविधाविति। शेषः; अन्यथा हि `निपाता आद्युदात्ताः` (फि।सू।4।80) `उपसर्गाश्चाभिवर्जम्` (फि।सू।4।81) इत्याद्युदात्तत्वमपि स्यात्। अन्तोदात्तश्चेष्यते मरुच्छब्दः। उपसंख्यानशब्दस्य प्रतिपादनमर्थः; मरुच्छब्दस्योपसर्गसंज्ञायाः प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्-- `उपसर्गाः` इति योगविभागः क्रियते। अत्र च `प्रादयः` इति नाभिसम्बध्यते। तेन मरुच्छब्दस्य तत्वविधावुपसर्गसंज्ञा भवतीति। अत एव योगविभागात् श्रच्छब्दस्याङविधावन्तः शब्दस्याङ्गिविधिणत्वेषूपसर्गसंज्ञा भवतीति वेदितव्यम्। योगविभागस्येदं लिङ्गम् `प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः` 5|2|100 , `तिरोऽन्तर्धौ` 1|4|70 इति च निर्देशः। ततः `क्रियायोगे` इति द्वितीयो योगः। अत्र च `प्रादयः` इति सम्बध्यते। किमर्थमिदम्? पूर्वेणैव सिद्धमिति पूर्वयोगस्यासर्वविषयत्वाज्ञापनार्थम्, तेन नातिप्रसङगः। प्रादीनामक्रियायोग उपसर्गसंज्ञा मा भूदित्येवमर्थञ्च। `मरुत्तः` इति। `अच उपसर्गात्तः` 7|4|47 इति क्तप्रत्यये कृते द्वितकारनिर्देशाद्दवातेः सर्वादेशः। ननु चसत्यामुपसर्गसंज्ञयां करुच्छब्दस्यानजन्तत्वात् तत्वेन न भवितव्यमित्यत आह-- `संज्ञाविधान सामथ्र्यात्` इत्यादि। यथा ह्रुपसरज इत्यत्र डित्करणसामथ्र्यादभस्यापि टिलोपो भवति, तथेहाप्यनजन्तादपि तत्वं भविष्यति; अन्यथा हीदं वचनमपार्थकं स्यात्। मरुच्छब्दस्योपसर्गसंज्ञाया अन्यकार्याभावादिति भावः।`श्रच्छब्दस्योपसंख्यानम्` इति। अत्राप्युपसंख्यानशब्दस्य स एवार्थः। प्रतिपादनमपि तदेव। ननु च भिदादिपाठादेव हि श्रद्धेति सिद्धम्;तत्कथं तत्सिद्धये श्रच्छब्दस्योपसर्गसंज्ञा क्रियते? एवं मन्यते- अनार्षस्तत्र पाठ इति॥बाल-मनोरमाप्रादयः 23, 1.4.59 प्रादयः। असत्त्व इत्यनुवर्तते, निपाता इति च। तदाह--अद्रव्येति। तथेति। निपातसंज्ञका इत्यर्थः।बाल-मनोरमाउपसर्गाः क्रियायोगे 24, 1.4.59
क्रियायोगे इति तृतीया, निपातनात् समासः, ठ्कर्तृ करणे कृताऽ इति बहुलवचनाद्वा। यद्वा--क्रियया करणभूतया प्रादीनां धातुभिर्योगात् करणे तृतीयया एव समासः। प्रणयतीति। ठुपसर्गादसमासेऽपि इति णत्वम्। प्रनायक इति। नन्वत्रापि गमिक्रियायोगोऽस्त्येव, सत्यम्; प्रादयः पुनरेवमात्मकाः, यदुत श्रुतायां क्रियायां तामेव विशिंषन्ति, अश्रुतायां तु ससाधनां क्रियामाक्षिपन्ति। तत्र क्रियायोगग्रहणसामर्थ्याद् यत्क्रियायुक्ताः प्रादयस्तं प्रत्युपसर्गसंज्ञा भवतीत्ययमर्थो भवति। अत्र च यत्क्रियायुक्तः प्रादिः स गमिर्न प्रयुज्यते, यश्च प्रयुज्यते न तत्क्रियायुक्त इति नास्ति णत्वप्रसङ्गः। मरुच्छब्दस्येति। उपसर्गसंज्ञैवेष्यते, न निपातसंज्ञा। तस्यां हि सत्यां निपाताद्यौदातत्वम्ठ्तृतीया कर्मणिऽ इति पूर्वपदप्रकृतिस्वरेण स्यात्, अन्तोदातश्च मरुतशब्द इष्यते। ननूपसर्गसंज्ञायामपि ठुपसर्गाश्चाभिवर्जम्ऽ इत्याद्यौदातत्वं स्यादेव, न; नानेनापूर्वमाद्यौदातत्वं विधीयते, किं तर्हि? ठ्निपाताःऽ इत्येव सिद्धेऽथेः प्रतिषेधार्थमेतत्। किं च निपातसंज्ञायामव्ययसंज्ञा स्यात्। अथ ठुपसर्गे धोः किःऽठातश्चोपसर्गेऽ इत्येतौ विधी कस्मान्न भवतः? अनभिधानात्। मरुत इति। मरुच्छब्दतकारस्य ठनचि चऽ इति द्विर्वचने ठ्झरो झरिऽ इति मध्यमस्य मध्यमयोर्मध्यमानां वा लोपे त्रैरूप्यं भवति, कथं पुनरत्र तत्वम्, यावतायमनजन्त इत्यत आह--संज्ञाविधानसामर्थ्यादिति। उक्तः प्रयोजनान्तराभावः। एवं तु मरुन्नयतीति तकारव्यवायेऽपि णत्वं प्राप्रोति तस्मातत्वविधावेवेष्यते। श्रच्छब्दस्येति। अङ्विधावेवेष्यते, किप्रत्ययो हि न भवति, तदाह--आतश्चोपसर्गे इति। भिदादिपाठात् ठ्प्रज्ञाश्रद्धार्चाऽ इति निपातनाद्वा सिद्धम्॥
सिद्धान्तकौमुदी
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्युः। प्र परा अप सम् अनु अव निस् निर दुस् दुर वि आङ् नि अधि अपि अति सु उत् अभि प्रति पर उपि - एते प्रादयः॥
महाभाष्यम्
उपसर्गाः क्रियायोगे प्रादय इति योगविभागः निपातसंज्ञार्थः, एकयोगे हि निपातसंज्ञाभावः।। 1 ।। प्रादय इति योगविभागः कर्तव्यः । प्रादयोऽसत्त्ववचना निपातसंज्ञा भवन्ति । तत उपसर्गाः क्रियायोगे इति ।। किमर्थो योगविभागः ? निपातसंज्ञाऽर्थः ।। 2 ।। निपातसंज्ञा यथा स्यात् । एकयोगे हि निपातसंज्ञाऽभावः ।। 3 ।। एकयोगे हि सति निपातसंज्ञाया अभावः स्यात् । यस्मिन्नेव विशेषे, गत्युपसर्गकर्मप्रवचनीयसंज्ञास्तस्मिन्नेव विशेषे निपातसंज्ञा स्यात् । मरुच्छब्दस्योपसंख्यानम् ।। 4 ।। मरुच्छशब्दस्योपसंख्यानं कर्तव्यम् । मरुद्दत्तो मरुतः । अच उपसर्गाद् 7|4|47 इति तत्वं यथा स्यात् । श्रच्छब्दस्योपसंख्यानम् ।। 5 ।। श्रच्छब्दस्योपसंख्यानं कर्तव्यम् । श्रद्धा । ।। 58।।