॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|57
SK 20
1|4|57
चादयोऽसत्त्वे
SK 20
सूत्रच्छेद:
चादयः - प्रथमाबहुवचनम् , असत्त्वे - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राग्रीश्वरान्निपाता:  [1|4|56]
सम्पूर्णसूत्रम्
च-आदय: असत्वे निपाता:
सूत्रार्थ:
चादिगणे निर्दिष्टाः शब्दाः अद्रव्यवाचिने अर्थे निपातसंज्ञकाः भवन्ति ।
निपातप्रकरणस्य प्रथमम् सूत्रमिदम् । अनेन सूत्रेण "चादिगणे" पाठितानाम् शब्दानाम् "अद्रव्य"वाचिषु अर्थेषु निपातसंज्ञा भवति ।

किम् नाम चादिगणः? "च" इति शब्दात् आरभ्य "वै" इति शब्दयावत् गणपाठे शब्दानां या आवली दीयते, सा एव "चादिगण" ।

किम् नाम "अद्रव्यवाची"? यदि कश्चन शब्दः कस्यचन "पदार्थस्य" निर्देशं करोति, तर्हि सः "द्रव्यवाची" अस्ति इत्युच्यते । "द्रव्य" इत्युक्ते "भौतिकजगतः पदार्थः" । "लिङ्गसङ्ख्यान्वितम् द्रव्यम्" इत्युच्यते । इत्युक्ते, यस्य शब्दस्य लिङ्निर्देशः सङ्ख्यानिर्देशः वा भवितुम् अर्हति, सः शब्दः "द्रव्यवाची" अस्ति इति उच्यते । यदि एतादृशः निर्देशः न भवितुम् अर्हति, तर्हि सः शब्दः अद्रव्यवाची अस्ति इति उच्यते ।

यथा - "शुकम्" इति चादिगणे समाविष्टः एकः शब्दः अस्ति । अस्य अर्थः - "शीघ्रम्" इति । अस्मिन् अर्थे तु अस्य लिङ्गम् सङ्ख्या वा न भवति, अतः अयं शब्दः अस्मिन् अर्थे द्रव्यवाची नास्ति । अतः अस्मिन् अर्थे अस्य शब्दस्य "निपात"संज्ञा भवति । परन्तु "शुकम्" इति "शुक" इति अकारान्त-पुँल्लिगशब्दस्य द्वितीयैकवचनम् अपि भवितुम् अर्हति । अस्मिन् अर्थे तु अयं शब्दः द्रव्यवाची अस्ति । अतः अस्मिन् अर्थे अस्य शब्दस्य निपातसंज्ञा न भवति ।

अन्यद् उदाहरणम् पश्यामः । "पशु" इति अपि चादिगणस्य सदस्यः । अस्य शब्दस्य अर्थद्वयम् विद्यते - "सम्यक्", तथा "जन्तुः" । "जन्तुः" अस्मिन् अर्थे अस्य लिङ्गम् सङ्ख्या वा भवितुम् अर्हति । परन्तु "सम्यक्" अस्मिन् अर्थे अस्य लिङ्गम् सङ्ख्या न भवति । अतः "सम्यक्" अस्मिन् अर्थे अयं शब्दः निपातसंज्ञकः भवति ।

एतादृशम्, चादिगणे पाठिताः शब्दाः "अ-द्रव्य-वाचकेषु अर्थेषु" निपातसंज्ञकाः भवन्ति । निपातसंज्ञायाः प्रयोजनम् अग्रे निपातस्य च 6|3|136, निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् 8|1|30 आदिषु सूत्रेषु दृश्यते ।

चादिगणः अयम् -
च वा ह अह एव एवम् नूनम् शश्वत् युगपत् भूयस् सूपत् कूपत् कुवित् नेत् चेत् चण् कच्चित् यत्र तत्र नह हन्त माकिम् नकिम् आकिम् माङ् नञ् तावत् यावत् त्वा त्वै द्वै रै रे श्रौषट् वौषट् स्वाहा स्वधा ओम् तथा तथाहि खलु किल अथ सुष्ठु स्म अ इ उ ऋ ऌ ए ऐ ओ औ आदह उञ् उकञ् वेलायाम् मात्रायाम् यथा यत् तत् किम् पुरा वधा वध्वा धिक् हाहा हैहै हहे पाट् प्याट् आहो उताहो हो अहो नो नौ अथो ननु मन्ये मिथ्या असि ब्रूहि तु नु इति इव वत् वात् वन बत सम् वशम् शिकम् दिकम् सनुकम् छंवट् छंबट् शङ्के शुकम् खम् सनात् सनुतर् नहिकम् सत्यम् ऋतम् अद्धा इद्धा नोचेत् नचेत् नहि जातु कथम् कुतः कुत्र अव अनु हा हे है आहोस्वित् शम् कम् खम् दिष्ट्या पशु नट् सह आनुषट् आनुषक् अङ्ग फट् ताजक् भाजक् अये अरे वाट् चाटु कुम् खुम् घुम् अम् ईम् सीम् सिम् सि वै । उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः ।
One-line meaning in English
The words included in the चादिगण are called निपात when used in a sense that does not denote an object.
काशिकावृत्तिः
चाऽदयो निपातसंज्ञा भवन्ति, न चेत् सत्त्वे वर्तन्ते। प्रसज्यप्रतिषेधो ऽयम्। सत्त्वम् इति द्रव्यम् उच्यते। च। वा। ह। अह। एव। एवम्। नूनम्। शश्वत्। युगपत्। सूपत्। कूपत्। कुवित्। नेत्। चेत्। चण्। कच्चित्। यत्र। नह। हन्त। माकिम्। नकिम्। माङ्। माङो ङकारो विशेषणार्थः, माङि लुङ् 3|3|175 इति। इह न भवति, मा भवतु, म भविष्यति। नञ्। यावत्। तावत्। त्वा। त्वै। द्वै। रै। श्रौषट्। वौषट्। स्वाहा। वषट्। स्वधा। ओम्। किल। तथा। अथ। सु। स्म। अस्मि। अ। इ। उ। ऋ। ल्̥। ए। ऐ। ओ। औ। अम्। तक्। उञ्। उकञ्। वेलायाम्। मात्रायाम्। यथा। यत्। यम्। तत्। किम्। पुरा। अद्धा। धिक्। हाहा। हे। है। प्याट्। पाट्। थाट्। अहो। उताहो। हो। तुम्। तथाहि। खलु। आम्। आहो। अथो। ननु। मन्ये। मिथ्या। असि। ब्रूहि। तु। नु। इति। इव। वत्। चन। बत। इह। शम्। कम्। अनुकम्। नहिकम्। हिकम्। सुकम्। सत्यम्। ऋतम्। श्रद्धा। इद्धा। मुधा। नो चेत्। न चेत्। नहि। जातु। कथम्। कुतः। कुत्र। अव। अनु। हाहौ। हैहा। ईहा। आहोस्वित्। छम्बट्। खम्। दिष्ट्या। पशु। वट्। सह। आनुषक्। अङ्ग। फट्। ताजक्। अये। अरे। चटु। बाट्। कुम्। खुम्। घुम्। हुम्। आईम्। शीम्। सीम्। वै। उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः। उपसर्गप्रतिरूपकाः अवदत्तम् विदत्तं च प्रदतं च अदिकर्मणि। सुदत्तम् अनुदत्तं च निदत्तम् इति चेष्यते। अच उपसर्गात् तः 7|4|47 इति तत्वम् न भवति। दुर्नीतम्। दुर्नयः। दुर्निर्णयः। उपसर्गात् 8|4|14 इति णत्वं न भवति। असत्त्वे इति किम्? पशुर् वै पुरुषः। पशुः पुरोडशः निपातप्रदेशाः स्वराऽदिनिपतम् अव्ययम् 1|1|37 इत्येवम् आदयः।
`असत्त्वे` इति। पर्युदासोऽयं वा स्यात्, प्रसज्यप्रतिषेधो वा? तत्र यद्ययं पर्युदासः स्यात्, तदा सत्त्वादन्यत्र वत्र्तमानाश्चादयो निपातसंज्ञका भवन्तीत्ेयषः सूत्रार्थः स्यात्। ततश्च पशुशब्दस्य चादिपरिपठितस्य जातिव्यवच्छिन्ने द्रव्ये वत्र्तमानस्य निपातसंज्ञा स्यात्। यो हि जातिविशिष्टे द्रव्ये वत्र्तते, स जातिद्रव्यसमुदायात्मकमर्थमाह। यश्चैवंविधोऽर्थः स द्रव्यात् केवलादन्यो भवति। निपातसंज्ञायां सत्यां पशुरिति सविभक्तिकस्य श्रवणं न स्यात्। प्रसज्यप्रतिषेधे त्वेष दोषो न भवति। तत्र हि यत्र द्रव्यगन्धोऽप्यस्ति तत्र सर्वत्र प्रतिषेधेन भवितव्यम्। अस्ति चेह द्रव्यगन्धः। पशुत्वजात्याश्रितस्य द्रव्यस्यापि पशुशब्देनाभिधानात्। तस्मात् प्रसज्यप्रतिषेध एवायं युक्त इत्यालोच्याह-- `प्रसज्यप्रतिषेधोऽयम्` इति। क्व तर्हि वत्र्तमानः पशुशब्दोऽसत्त्ववचनो भवति? यत्र वृत्तौ निपातसंज्ञां लभते दृश्यर्थे-- यथा, लोधं नयन्ति पशु मन्यमाना इति। अत्र दृश्यर्थेन पशुशब्देन मननं विविष्यते। दर्शनमेतन्मननम्, सम्यग्ज्ञानमित्यर्थः। सत्त्वशब्दोऽयमिह सत्तायां वत्र्तत इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्त्तुमाह-- `सत्त्वमिति च द्रव्यमुच्यते` इति। चशब्दोऽवधारणे। द्रव्यमेव न सत्तेत्यर्थः। यदि ह्रत्र सत्तवशब्देन सत्तोच्यते, प्रतिषेधोऽनर्थकः स्यात्? न हि चादिषु मध्ये शब्दः सत्तावाची कश्चिदस्ति। तस्मादद्रव्यमेवोच्यते। इदं तर्हि सर्वनामप्रत्यवमर्शयोग्यो योऽर्थस्तद्द्रव्यमिति। तथा चोक्तम्-- वस्तूपलक्षमं यत्र सर्वनाम प्रयुज्यते।द्रव्यमित्यच्यते सोऽर्थो भेद्यत्वेन विवक्षितः॥ इति।भेद्यत्वेन विशेष्यत्वेनेत्यर्थः। अत एवावसीदति यत्र गुणो विशेषणभावेनेति सत्त्त्वं तद्द्रव्यमुच्यते।`चण्` इति पठते। तस्य णकारो विशेषार्थः `निपातैर्यद्यदिहन्तकुविन्नेकच्चेण्कच्चिद्यत्रयुक्तम्` 8|1|30 इति, स तु चेच्छब्दस्यार्थे वत्र्तते।यत्र` इति पठते। तस्य `तद्धितश्चासर्वविभक्तिः` 1|1|37 इत्यव्ययसंज्ञा सिद्धैव। `निपातैर्यद्यदिहन्तः` 8|1|30 इति विशेणणार्थ निपात संबोध्यते। असति निपातत्वे `त्रैङ पालने` (धातुपाठः-965) यं त्रायत इति यत्र इत्यस्य `आतोऽनुपसर्गे कः` 3|2|3 इति कप्रत्ययस्य ग्रहणं स्यात्। `नञ्` इति पठते; नञो ञकारः `नलोपोः नञः` 6|3|72 इति विशेषणार्थः। `नलोपो नञ्` इत्युच्यमाने पामनपुत्र इत्यत्रापि स्यात्, यदि तत्र `अलुगुत्तरपदे` 6|3|1 इत्युत्तरपदग्रहण पूर्पपदं नशब्देन विशेष्यते-- नान्तस्य पूर्वपदस्येति। अथ तु पूर्वपदेन विशेष्यते-- (सेए इन् ओथेर् तेक्ष्त्)पगे नो।206)उत्तरसंज्ञीत्तरसूत्रे कृता संज्ञोपसर्गसंज्ञा। तस्या विशेषणं व्यवच्छेदः प्रादिभ्योऽन्यस्माद्वयावर्तनमुत्तरसंज्ञा मा भूत्` इति। एकयोगे हि सति यथा प्रादीनामुपसर्गसंज्ञा भवति तथा चादीनामपि स्यात्। अतः प्रादीनामेवोपसर्गसंज्ञा यथा स्याच्चादीनां मा भूदित्येवमर्थं पृथग्योगः क्रियते। `पराः सेनाः` इति। सेनायाः द्रव्यत्वात् तत्र वत्र्तमानस्य पराशब्दस्येह ग्रहणं न भवति। परा उत्कृष्टाः परदेशस्थिता वा। यत्र त्वेकवचनं पठते-- परा सेनेति, तत्र रूपोदाहरणं वेदितव्यम्। द्विवचनबहुवचनयोस्तु निपातत्वादव्ययसंज्ञायां सत्यां विभक्तेर्लुक्स्यात्॥
न चेत्सत्वे वर्तते इति। सत्वे चेद् वर्तते तदा संज्ञा न भवतीत्यर्थस्तदाह--प्रसज्यप्रतिषेधोऽयमिति। अथ पर्युदासे को दोषः? पशुशब्देऽत्र पठ।ल्ते सा जातिविशिष्टे द्रव्ये वर्तते, तस्य निपातत्वं स्यात्, जातिद्रव्यसमुदायरूपो ह्यर्थः केवलादन्यो भवति; तथा प्रादय इत्यत्र विप्रातीति विप्रः, ठातश्चोपसर्गेऽ इति कः। अत्र प्रशब्दः क्रियाविशिष्टे द्रव्ये वर्तते। तत्र क्रियाद्रव्यसमुदायस्य द्रव्यादन्यत्वान्निपात्वान्निपातत्वे सत्यव्ययसंज्ञायां तदन्तविधेरभ्युपगमात् विप्रशब्दस्याव्ययसंज्ञा स्यात्, प्रसज्यप्रतिषेधे तु यत्र द्रव्यगन्धस्तत्र सर्वत्र प्रतिषेधो भवति। क्व तर्हि वर्तमानः पशुशब्देऽसत्ववचनो भवति? द्दश्यर्थे, लोधं नयन्ति पशु मन्यमाना इत्यत्र द्दश्यर्थेन मननं विशेष्यते--दर्शनमेतन्मननम्, सम्यक् मन्यमाना इत्यर्थः। सत्वशब्दोऽयं सतो भावः सत्वमिति सताजातिवचनो गृह्यत इति भ्रान्तिमपनयति--सत्वमिति च द्रव्यमुच्यते इति। इदं तदिति सर्वनामपरामर्शयोग्यं वस्तु द्रव्यमुच्यते। उक्तञ्च-- वस्तुपलक्षणं यत्र सर्वनाम प्रयुज्यते। द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः॥ इति। स्वार्थेनेति शेषः। सिद्धरूपो योऽर्थः स्वार्थेन विशेष्यतया विवक्षितस्तद् द्रव्यमित्यर्थः। उक्तं च-- स्वार्थस्त यत्र विश्रान्तिर्वाच्यं द्रव्यं तदुच्यते। इति। एवं च कृत्वा--सीदति, निविशते यत्र जात्यादिकं शब्दप्रवृत्तिनिमितं विशेषणभावेनेति सत्वं द्रव्यम्। सदेरौणादिकस्त्वप्रक्ययः ठ्ताभ्यामान्यत्रोणादयःऽ इत्यधिकरणसाधनः। चणिति पठ।ल्ते, स चेदर्थे वर्तते, णकारश्चण्कच्चिद्यत्रयुक्तमिति विशेषणार्थः। नञो ञकारः ठ्नलोपो नञःऽ इति विशेषणार्थः। नलोपो नस्येत्युच्यमाने वामनपुत्रः- अत्रापि प्राप्नोति? पाक्षिक एष दोषः; ठलुगुतरपदेऽ इति वर्तते, तत्र यदोतरपदेनाक्षिप्तं पूर्वपदं नस्य विशेषणम्, तदा पूर्वपदभूतस्य नस्य लोप इत्युच्यमाने नैवात्र प्राप्नोति, नशब्देन पूर्वपदे विशेष्यमाणे तदन्तविधिसद्भावादत्रापि स्यात्। अथास्मिन्पक्षे ठ्नञःऽ इत्युच्यमानेऽपि स्त्रैणपुत्र इत्यत्र नञः कस्मान्न भवति? अतुल्यत्वात्प्रत्ययस्य ञकारो वृद्धिस्वरयोश्चरितार्थः, निपातस्य त्वचरितार्थः। तथेति पठ।ल्ते, सोऽव्युत्पन्नः समुच्चये वर्तते, तस्य तु थालन्तस्य लित्स्वरेणाद्यौदातत्वं सिद्धम्। अव्ययत्वमपि ठ्तद्धितश्चसर्वविभक्तिःऽ इत्येव सिद्धम्। नन्वव्युत्पन्नस्यापि विभक्तप्रतिरूपका इत्येव सिद्धम्, सत्यम्; प्रपञ्चार्थः पाठः। एवं वेलायाम्, मात्रायामित्यादेरपि। स्वरप्रतिरूपका इति। ऋति ऋ वा वचनमित्यादयः, तेषां निपातसंज्ञाविधानद्वारेण सद्भाव एव प्रतिपाद्यते, न पुनरेषां निपातत्वे किञ्चित्प्रयोजनमस्तीति॥
सिद्धान्तकौमुदी
अद्रव्यार्थाश्चादयो निपातसंज्ञाः स्युः ॥
चादयोऽसत्त्वे। च आदिर्येषां ते चादयो गणपाठसिद्धाः। निपाता इत्यधिकृतम्। `सत्त्व`शब्देन द्रव्यमुच्यते। `द्रव्यासुव्यवसायेषु सत्त्वम्` इत्यमरः। लिङ्गसङ्ख्याकारकान्वितं द्रव्यम्। चाद्यर्थाः समुच्चयादयो यदा चादिभिर्गम्यन्ते, तदा लिङ्गद्यन्विता न भवन्ति, यदा समुच्चयादिशब्दगम्यास्तदा लिङ्गद्यन्विताः, शब्दस्वाभाव्यात्। न सत्त्वम् असत्त्वम् = अद्रव्यं। तत्र वाचकतया विद्यमानाश्चादयो निपातसंज्ञकाः स्युरित्यर्थः। तदाह--अद्रव्यार्था इति। असत्त्वे किम् ? छागः पशुः। चादौ पठितस्यापि पशुशब्दस्य अत्र द्रव्यवाचित्वान्न निपातत्वम्। इह तु स्यादेव-पुष्टं पशु मन्यते। इह पशु इति सम्यगर्थे।
चादयः। अद्रव्यार्थाः किम् ?, पशुः। लिङ्गसङ्ख्यान्वितं द्रव्यम्। इह तु स्यादेव-`लोधं नयन्ति पशु मन्यमानाः`। `पशु` इति सम्यगर्थे।
लघुसिद्धान्तकौमुदी
अद्रव्यार्थाश्चादयो निपाताः स्युः॥
महाभाष्यम्
चादयोऽसत्त्वे अयं सत्त्वशब्दोऽस्त्येव द्रव्यपदार्थकः ‐ तद्यथा, ‐ सत्त्वमयं ब्राह्मणः, सत्त्वमियं ब्राह्मणीति । अस्ति क्रियापदार्थकः ‐ सद्भावः सत्त्वमिति । कस्येदं ग्रहणम् ? द्रव्यपदार्थकस्य । कुत एतत् ? एवं च कृत्वा विधिश्च सिद्धो भवति, प्रतिषेधश्च । किं पुनरयं पर्युदासो ‐ यदन्यत्सत्त्ववचनादिति, आहोस्वित्प्रसज्याऽयं प्रतिषेधः ‐ सत्त्ववचने नेति ? किं चातः ? यदि पर्युदासो विप्र इत्यत्रापि प्राप्नोति । क्रियाद्रव्यवचनोऽयं संघातः, द्रव्यादन्यश्च विधिनाऽऽश्रीयते । अस्ति च प्रादिभिः सामान्यमिति कृत्वा तदन्तविधिना निपातसंज्ञा प्राप्नोति । अथ प्रसज्यप्रतिषेधो न दोषो भवति ।। यथा न दोषस्तस्थास्तु ।। 57 ।।