Page loading... Please wait.
1|4|53 - हृक्रोरन्यतरस्याम्
॥ तस्मै पाणिनये नम: ॥
1|4|53
SK 541
हृक्रोरन्यतरस्याम्  
सूत्रच्छेद:
हृक्रोः - षष्ठीद्विवचनम् , अन्यतरस्याम् - अव्ययम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कारके  [1|4|23]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अनि कर्त स णौ इति वर्तते। हरतेः करोतेश्च अण्यन्तयोर् यः कर्ता स ण्यन्तयोरन्यतरस्यां कर्मसंज्ञो भवति। हरति भारं मानवकः, हरयति भारं मानवकं, मानवकेन इति वा। करोति कटं देवदत्तः, कारयति कटं देवदत्तं, देवदत्तेन इति वा। अभिवादिदृशोरात्मनेपद उपसङ्ख्यानम्। अभिवदति गुरुं देवदत्तः, अभिवादयते गुरुं देवदत्तं, देवदत्तेन इति वा। पश्यन्ति भृत्या राजानम्, दर्शयते भृत्यान् राजानम्, भृत्यैः इति वा। आत्मनेपदे इति किम्? दर्शयति चैत्रं मैत्रमपरः। प्राप्तविकल्पत्वाद् द्वितीयैव। अभिवादयति गुरुं माणवकेन पिता। अप्राप्तविकल्पत्वात् तृतीया एव।
गत्यर्थादयो निवृत्ताः। तेनोभयत्र विभाषेयम्। यदा हरतिर्गतौ वत्र्तते, अभ्यवहारे वा, करोतिश्चाकर्मणो भवति तदा प्राप्ते। यदा तु हरतिः स्तेयादौ वत्र्तते, करोतिश्च सकर्मको भवति तवाऽप्राप्ते। `उपसंख्यानम्` इति। प्रतिपादनमित्यर्थः। एतच्च प्रकृतत्वात् तत्रेदं प्रतिपादनम्-- `अकथितञ्च` 1|4|51 इत्यतश्चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः। तेनाभिवादिदृशोरप्यात्मनेपदे कर्मसंज्ञा भविष्यतीति। `अभिवादयते` इति। `णितश्च`(1।3।क74) इत्यात्मनेपदम्। `दर्शयते` इति। अत्रापि `णेरणौ` 1|3|67 इत्यादिना।
गत्यर्थादयो निवृताः तेनोभयत्र विभाषेयम्। यदा हरतिर्गतौ वर्तते-हरति भारं देवदत इति, अभ्यवहारे वा-अभ्यवहरति माणवकमोदनमिति। करोतिश्चाप्यकर्मकः- ओदनस्य पूर्णाः छात्राः विकुर्वत इति, तदा पूर्वेण प्राप्ते। ननु ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति नियमस्यैव विकल्पो युक्तः, गत्यर्थादिष्वेवेति योऽयं नियमः स ठ्हृक्रोरन्यतरस्याम्ऽ इति, ततश्च पक्षे नियमाभावात् गत्याद्यर्थादन्यत्र पक्षे कर्मत्वं पक्षान्तरे च कर्तृ त्वं भवतु, गत्याद्यर्थत्वे तु नित्यवत् कर्मसंज्ञा प्राप्नोति। एवं तर्हि वार्तिककारेण उभयत्रविभाषास्वियं पठिता, तत्सामर्थ्यादनन्तरस्य विधिरिति नाश्रीयते, अविशेषेण हृक्रोर्विकल्पः प्रवर्तते। अभिवादिद्दशोरिति। अभिवादयतेरप्राप्ते विभाषा द्दशेर्बुध्यर्थत्वात् द्दशेः सर्वत्रेति वा प्राप्ते। अभिवादयते इति। ठ्णिचश्चऽ इत्यात्मनेपदम्। परस्मैपदे तु अभिवादयति गुरुं देवदेतेनेति कर्तृ संज्ञैव भवति। दर्शयते इति। कर्मसंज्ञाभावपक्षे कर्मान्तरस्याभावात् ठ्णेरणौऽ इत्यात्मनेपदम्, अन्यत्र तु ठ्णिचश्चऽ इति॥
सिद्धान्तकौमुदी
हृक्रोरणौ यः कर्ता स णौ वा कर्मसंज्ञः स्यात् । हारयति कारयति वा भृत्यं भृत्येन वा कटम् ॥अभिवादिदृशोरात्मनेपदे वेति वाच्यम् (वार्तिकम्) ॥ अभिवादयते दर्शयते देवं भक्तं भक्तेन वा ॥
हृक्रोरन्यतरस्याम् - ह्मक्रो । हा च का च ह्मकरौ, तयोरिति विग्रहः । हारयति कारयति वेति । हरति करोति वा कटं भृत्यः, तं प्रेरयतीत्यर्थः । अत्र प्रयोज्यकर्तुर्भृत्यस्य कर्मत्वविकल्पः । ह्मक्रोर्गत्यर्थादिष्वनन्तर्भावादप्राप्ते विभाषेयम् । ह्मक्रोरर्थान्तरे तु प्राप्तविभाषा ।अब्यवहारयति सैन्धवान्सैन्धवैर्वा,॑विकारयति सैन्धवान्सैन्धवैर्वा॑ । अत्र अब्यबहरतेर्भक्षणार्थत्वाद्विकारयतेरकर्मकत्वाच्च प्राप्तिः ।अभिवादीति । हेतुमण्ण्यन्तस्याभिपूर्वकवदधातोर्दृशिप्रकृतिकण्यन्तस्य चात्मनेपदिनोऽणौ कर्ता णौकर्म वेत्यर्थः । अभिवादयते इति । अभिवदति=नमस्करोति देवं भक्तः, तं गुरुः प्रेरयतीत्यर्थः । कर्तृगामिति फलेणिचश्चे॑त्यात्मनेपदम् । अत्र भक्तस्य प्रयोज्यकर्तुः कर्मत्वविकल्पः । अप्राप्तविभाषेयम् । परसमैपदे तु अभिवादयति देवं भक्तेनेत्येव । पश्यति देवं भक्तः, तं गुरुः प्रेरयति, दर्शयते देवं भक्तं भक्तेन वा ।गतिबुद्धी॑त्यत्र बुद्धिग्रहणेन ज्ञानसामान्यवाचिन एव ग्रहणमित्युक्तम्, तथापिदृशेश्चे॑ति नित्यं प्राप्ते विकल्पः ।
हृक्रोरन्यतरस्याम् - ह्यकोः । हा च कता च ह्मकारौ, तयोरिति विग्रहः । हुश्च कुश्च ह्मक्रोरिति वा । प्रथमान्तेन, परिनिष्ठितचविभक्त्या वा विग्रहो इति सिद्धान्तात् ।गतिबुद्धी॑त्यादीह नानुवर्तते । तेन उभयत्रविभाषेयम् । अभ्यवपूर्वस्य हरतेर्भक्षणार्थकत्वाद्विकारार्थस्य करोतेश्चाऽकर्मकत्वात्गतिबुद्धि॑इत्यादिना अणौ कर्तुर्णौ कर्मत्वे प्राप्ते, अर्थान्तरे चाऽनयोः सकर्मकत्वादप्राप्तेऽस्यारम्भात् । अप्राप्तावुदाहरणमाह — -हारयतीति । हरति करोति वा कटं भृत्य इत्यण्यन्तावस्थायां भृत्यः कर्ता, स एव ण्यन्तावस्थायां कर्माऽभूत् । प्राप्ते तूदाहरणम् — तृणमभ्यवहारयति सैन्धवान्, तृणमभ्यवहारयति सैन्धवैः । विकारयति सैन्धवान्, विकारयति सैन्धवैरिति बोध्यम् । ननु यदिगतिबुद्धी॑त्यादिरिह नानुवर्तेत तदैतदेवं स्यात्, तत्रैव मानं न पश्याम इति चेन्मैवं,न वेति विभाषा॑इति सूत्रे उभयत्रविभाषासु भाष्यकृताऽस्यापि सूत्रस्य गणितत्वेनोक्तशङ्काया अनवतारात् ।अभिवादिदृशोरात्मनेपदे वेति वाच्यम् । अभिवादीति ।वद सन्देशवचने॑ चुरादिराधृषीयः । अभिपूर्वकत्वान्नमस्कारार्थता । अभिवादयतेरप्राप्तौ, दृशेस्तु प्राप्तावयं विकल्पः । अभिवदति देवं भक्तस्तं प्रेरयत्यन्यः — अभिवादयते ।णिचश्चे॑त्यात्मनेपदम् । परस्मैपदे तु अभिवादयति देवं भक्तेनेत्येव । तथा पश्यति देवं भक्तः, दर्शयते देवं भक्तमित्यादि ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
हृक्रोरन्यतरस्याम् हृक्रोर्वावचनेऽभिवादिदृशोरात्मनेपद उपसंख्यानम् ।। 1 ।। हृक्रोर्वावचनेऽभिवादिदृशोरात्मनेपद उपसंख्यानं कर्तव्यम् । अभिवदति गुरुं देवदत्तः । अभिवादयते गुरुं देवदत्तेन । अभिवादयते गुरुं देवदत्तम् ।। पश्यन्ति भृत्या राजानम् । दर्शयते भृत्यै राजा । दर्शयते भृत्यान् राजा ।। कथं चाऽत्राऽऽत्मनेपदम् ? एकस्य णेरणौ 1|3|67 इति, अपरस्य णिचश्च 1|3|74 इति ।। 53 ।।