॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|52
SK 540
1|4|52
गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ
SK 540
सूत्रच्छेद:
गति-बुद्धि-प्रत्यवसानार्थ-शब्दकर्म-अकर्मकाणाम् - षष्ठीबहुवचनम् , अ-णि (लुप्तसप्तम्यन्तनिर्देश:) कर्ता - प्रथमैकवचनम् , सः - प्रथमैकवचनम् , णौ - सप्तम्येकवचनम्
अनुवृत्ति:
कर्म  [1|4|49] - प्रथमैकवचनम्
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कारके  [1|4|23]
सम्पूर्णसूत्रम्
गति-बुद्धि-प्रत्यवसानार्थ-शब्दकर्म-अकर्मकाणाम् अ-णि कर्ता स: णौ कर्म
सूत्रार्थ:
गतिक्रिया, बुद्धिक्रिया, भक्षणक्रिया, शब्दकर्मक्रिया तथा अकर्मकक्रिया - एतेषां विषये अप्रयोजक-कर्तुः णिच्-प्रयोगे कर्मकारकं भवति ।
अस्य सूत्रस्य अर्थं ज्ञातुम् आदौ णिच्-प्रयोगस्य विषये किञ्चित् ज्ञातव्यम् । णिच्-प्रयोगे प्रायः कर्ताद्वयं दृश्यते । यथा, "माता पुत्र्या ओदनं पाचयति" - अस्मिन् वाक्ये "माता" तथा "पुत्री" द्वावपि कर्तारौ स्तः । एताभ्याम् यः कर्ता णिच्-प्रयोगस्य कर्ता अस्ति, सः "प्रयोजक-कर्ता" नाम्ना ज्ञायते । यथा, अस्मिन् उदाहरणे "माता" इति प्रयोजककर्ता अस्ति । प्रयोजककर्तुः प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा 2|3|46 इत्यनेन कर्तरि प्रयोगे प्रथमाविभक्तिः भवति । तथा च, मूलधातोः यः कर्ता, सः णिच्-प्रयोगे "प्रयोज्यकर्ता" नाम्ना ज्ञायते, तस्य च कर्तृकरणयोस्तृतीया 2|3|18 इत्यनेन तृतीया विभक्तिः भवति । यथा, अस्मिन् उदाहरणे "पुत्र्या" इति प्रयोज्यकर्ता अस्ति ।

परन्तु, केषाञ्चन धातूनां विषये मूलवाक्यस्य यः कर्ता, सः णिच्-प्रयोगे "कर्मसंज्ञाम्" प्राप्नोति । एतेषाम् आवली अस्मिन् सूत्रे दत्ता अस्ति । क्रमेण पश्यामः -

1. "गति" - या क्रिया "गत्यर्थका" अस्ति (यथा - गम्, चल्, या) - तस्याः विषये शुद्धवाक्यस्य कर्ता णिच्-प्रयोगे कर्मत्वं प्राप्नोति । यथा - देवदत्तः मन्दिरं याति । कृष्णदत्तः "देवदत्तं" मन्दिरं यापयति ।
2. "बुद्धि" - या क्रिया "ज्ञानार्थे / अवगमनार्थे" अस्ति (यथा - ज्ञा, बुध, विद्) - तस्याः विषये शुद्धवाक्यस्य कर्ता णिच्-प्रयोगे कर्मत्वं प्राप्नोति । यथा - देवदत्तः वेदं पठति । गुरुः "देवदत्तं" वेदं पाठयति ।
3. "प्रत्यवसानार्थ" - प्रत्यवसानम् इत्युक्ते भक्षणम् । भक्षणक्रियायाः विषये शुद्धवाक्यस्य कर्ता णिच्-प्रयोगे कर्मत्वं प्राप्नोति । यथा - देवदत्तः ओदनं भुङ्क्ते । माता "देवदत्तम्" ओदनं भोजयति ।
4. शब्दकर्म - सा क्रिया, यस्य कर्मपदं किञ्चन शब्दस्वरूपम् भवति (यथा - श्लोकः, काव्यम्, ग्रन्थः, गीतम् , गद्यम्, पद्यम् - आदयः) - तस्याः विषये शुद्धवाक्यस्य कर्ता णिच्-प्रयोगे कर्मत्वं प्राप्नोति । यथा - रामः वेदम् अधीते । गुरुः "रामम्" वेदम् अध्यापयति ।
5. अकर्मक - यस्याः क्रियायाः कर्मपदं न भवितुं सम्भवति , तस्याः कर्ता णिच्-प्रयोगे कर्मपदं प्राप्नोति । यथा - रामः हसति । माता "रामम्" हासयति ।

एताः क्रियाः विहाय अन्यासां विषये शुद्धवाक्यस्य कर्ता णिच्-प्रयोगे अपि कर्तारूपेण एव अवतिष्ठति, कर्मपदं न प्राप्नोति । यथा - अर्जुनः युद्धं करोति । कृष्णः अर्जुनेन युद्धं कारयति ।

अस्मिन् विषये कानिचन वार्तिकानि ज्ञातव्यानि -
1. नीवह्योर्न - "नी" तथा "वह्" धातोः विषये शुद्धधातोः कर्ता णिच्-प्रयोगे कर्मत्वं न प्राप्नोति । यथा - देवदत्तः अजं नयति । पिता देवदत्तेन अजं नाययति । अत्र शुद्धधातोः "देवदत्तः" अयम् कर्ता णिच्-प्रयोगे अपि कर्तृसंज्ञां एव प्राप्नोति, तस्य च कर्तृकरणयोस्तृतीया 2|3|18 इत्यनेन तृतीया विभक्तिः भवति ।
2. नियन्तृकर्तृकस्य वहेरनिषेधः - "नियन्ता" इत्युक्ते "सारथिः" (रथं वहति सः) । यदि "वह्" धातोः प्रयोजककर्ता सारथिः अस्ति, तर्हि वह्-धातोः शुद्धकर्तुः कर्मत्वं भवत्येव - तत्र पूर्ववार्तिकेन निर्दिष्टः निषेधः न भवति - इति अस्य वार्तिकस्य अर्थः । यथा - (शुद्धवाक्यम् - ) अश्वाः रथं वहन्ति । (प्रयोजकवाक्यम् - ) सूतः अश्वान् रथं वाहयति ।
3. अदिखाद्योर्न - "अद्" (भक्षणे) तथा "खाद्" (भक्षणे) एतयोः विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । इत्युक्ते, एतयोः विषये शुद्धकर्तुः णिच्-प्रयोगे कर्मत्वं न भवति । यथा - शिशुः फलं खादति । माता शिशुना फलं खादयति ।
4. भक्षेरहिंसार्थस्य न - "भक्ष्" (अदने) अस्य धातोः विषये यदि हिंसाक्रिया न भवति, तर्हि प्रयोज्यकर्ता कर्मत्वं न प्राप्नोति । यथा - बटुः अन्नं भक्षति । पिता बटुना अन्नं भक्षयति । अत्र अन्नस्य हिंसाक्रिया न अपेक्षते, अतः अत्र प्रयोज्यकर्तुः कर्मत्वं न भवति । परन्तु यत्र हिंसाक्रिया अस्ति तत्र तु प्रयोज्यकर्तुः कर्मत्वं भवत्येव । यथा - धेनवः सस्यं भक्षन्ति । गोपालः धेनून् सस्यं भक्षयति । अत्र सस्यानाम् हिंसाम् (नाशं) कृत्वैव भक्षणम् अभिप्रेतम् अस्ति, अतः अत्र प्रयोज्यकर्तुः कर्मत्वं भवति ।
5. जल्पतिप्रभृतीनामुपसङ्ख्यानम् - जल्पति, भाषते, विलपति - एतेषां विषये प्रयोज्यकर्ता णिच्-प्रयोगे कर्मत्वं प्राप्नोति । यथा - पुत्रः धर्मं भाषते । देवदत्तः पुत्रं धर्मं भाषयति । अत्र "धर्म" इति शब्दकर्म नास्ति अतः अस्य गणना "शब्दकर्मकाणाम्" इत्यत्र न भवति । परन्तु अत्रापि प्रयोज्यकर्तुः कर्मत्वम् इष्यते, अतः अस्य वार्तिकस्य निर्माणं कृतम् अस्ति ।
6. दृशेश्च - "दृश्" धातोः विषये प्रयोज्यकर्ता णिच्-प्रयोगे कर्मत्वं प्राप्नोति । यथा - अर्जुनः पश्यति । कृष्णः अर्जुनं दर्शयति ।
7. शब्दायतेर्न - "शब्दाय" इति कश्चन नामधातुः अस्ति । "शब्दं करोति" अस्मिन् अर्थे कर्तुः क्यङ् सलोपश्च 3|1|11 इत्यनेन क्यङ्-प्रत्ययं कृत्वा अस्य धातोः निर्माणं क्रियते । यद्यपि अस्य धातोः कर्म "शब्दम्" इति अस्ति, तथापि अस्य धातोः विषये प्रयोज्यकर्तुः अनेन सूत्रेण प्राप्तं कर्मत्वं अनेन वार्तिकेन निषिध्यते । यथा - देवदत्तः शब्दायते । पिता देवदत्तेन शब्दाययति ।
One-line meaning in English
For verbs indicating motion (गति), knowledge (बुद्धि), eating (भक्षण); for verbs whose action involves a word (शब्दकर्म) ; and for the अकर्मक verbs the कर्ता of the अप्रयोजक sentence becomes कर्म in the प्रयोजक sentence.
काशिकावृत्तिः
अर्थशब्दः प्रत्येकम् अभिसम्बध्यते। गत्यर्थानां बुद्ध्यर्थानां प्रत्यवसानार्थानम् च धातूनां, तथ शब्दकर्मकाणाम् अकर्मकनाम् च अण्यन्तानाम् यः कर्ता, स ण्यन्तानां कर्मसंज्ञो भवति। गच्छति माणवको ग्रामम्, गमयति माणवकं ग्रामम्। याति माणवको ग्रामम्, यापयति माणवकं ग्रामम्। गत्यर्थेषु नीवह्रोः प्रतिषेधो वक्तव्यः। नयति भारम् देवदत्तः, नाययति भारम् देवदत्तेन। वहति भारम् देवदत्तः, वाह्यति भारं देवदत्तेन। वहेरनियन्तृकर्तृकस्य इति वक्तव्यम्। इह प्रैत्षेधो मा भूत्, वहन्ति यवान् बलीवर्दाः, वाहयति यवान् बलीवर्दानिति। बुद्धिः बुध्यते माणवको धर्मम्, बोधयति माणवकं दह्य्मम्। वेत्ति माणवको धर्मम्, वेदयति माणवकं धर्मम्। प्रत्यवसानम् अभ्यवहारः। भुङ्क्ते माणवक ओदनम्, भोजयति माणवकम् ओदनम्। अश्नाति मानवक ओदनम्, आशयति माणवकमोदनम्। आदिखाद्योः प्रतिशेधो वक्तव्यः। अत्ति माणवक ओदनम्, आदयते माणवकेन ओदनम्। खादति माणवकः, खादयति माणवकेन। भक्षेरहिंसार्थस्य प्रतिषेधो वक्तव्यः। भक्षयति पिण्डीं देवदत्तः, भक्षयति पिण्डीं देवदत्तेन इति। अहिंसार्थस्य इति किम्? भक्षयन्ति बलीवर्दाः सस्यम्, भक्षयन्ति बलीवर्दान् सस्यम्। शब्दकर्मणाम् अधीते मानवको वेदम्, अध्यापयति माणवकं वेदम्। पठति माणवको वेदम्। पाठयति माणवकं वेदम्। अकर्मकाणाम् आस्ते देवदत्तः, आसयति देवदत्तम्। शेते देवदत्तः, शाययति देवदत्तम्। एतेषाम् इति किम्? पचत्योदनं देवदत्तः, पाचयत्योदनं देवदत्तेन इति। अण्यन्तानाम् इति किम्? गमयति देवदत्तो यज्ञदत्तम्, तम् अपरः प्रयुङ्क्ते, गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः।
`यापयति` इति। `अर्तिह्यी` 7|3|36 इत्यादिना पुक्।`वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- उत्तरसूत्रे 1|4|53 अन्यतरस्यांग्रहणमुभयोर्योगयोः शेषभूतो विज्ञायते, सा च व्यवस्थितविभाषा; तेन नीवह्रोर्न भविष्यति।`वहेः` इत्यादि। नियच्छति = विशिष्टे विषयेऽवस्थापयतीति नियन्ता सारथिः, अविद्यमानो नियन्ता कत्र्ता यस्य स तथोक्तः, तस्य। `नीवह्योः प्रतिषेधो वक्तव्यः` (वा।62) इति योऽनन्तरोक्तः स वहेरनियन्तृकर्त्तृकस्य भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- तस्यैवान्यतरस्यांग्रहणस्य व्यवस्थितविभाषा त्वान्नियन्तृकर्त्तृकस्य वहेः कर्मसंज्ञा भविष्यतीति।`आदिखाद्योः` इत्यादि। अत्रापि वक्तव्यशब्दस्य पूर्ववदेवार्थः। व्याख्यानमपि पूर्ववदेव कत्र्तव्यम्। `भक्ष्यति पिण्डी देवदत्तः` इति। चुरादिणिच्। `भक्षयति` पिण्डीं देवदत्तेन` इति। हेतुमण्णिच्। `भक्षयति बलीवर्द्दान् शस्यम्` इति। भक्षिरत्र हिंसार्थः। `सर्वे सचेतना भावाः` इत्यस्मिन् दर्शे हिंसितं शस्यमिति शस्यस्य भक्षणेन देवदत्तो हिंसितो भवति। यस्य हि तच्छस्यं तस्य हिंसा गम्यते।`शब्दकर्मणाम्` इति। शब्दग्रहणेनेह पारिभाषिकं कर्म गृह्र।ते, न तु क्रिया। क्रिया ग्रहणे हि कर्म ग्रहणमनर्थकं स्यात्। कारकाधिकारादेव कारकस्य क्रियापेक्षत्वाच्छब्दात्मिकायां क्रियायां वत्र्तमाना धातवो ग्रहीष्यन्त इति, तत् किं कर्मग्रहणेन? यदि तर्हि पारिभाषिकं कर्म गृह्रते, जल्पति देवदत्तो जल्पयति देवदत्तम्, विलपति देवदत्तं कार्षापणमित्यत्र न प्राप्नोति, शब्दादन्यस्य पारिभाषिकस्य कर्मणो विवक्षितत्वात्, नैष दोषः; बुद्ध्यर्थत्वात् भविष्यति। अत्र हि जल्पतिप्रभृतयस्तावच्छब्दसाधने बोधने वत्र्तन्ते। जल्पति देवदत्त इति। वचनेन बोधयतीत्यर्थः। एवमन्यत्रापि। पश्यति कार्षापणमित्यत्र दृशिश्चक्षुः साधने ज्ञाने वत्र्तते। चक्षुषा जानीत इत्यर्थः। तस्माद्बुद्धर्थत्वात् सिद्धम्। `अध्यापयति` इति। `क्रीङजीनां णौ` (6।1॥48) इत्यात्त्वम्। `अर्तिह्यी` 7|3|36 इत्यादिना पुक्। किमर्थं पुनरिदं सूत्रम्, यावता ण्यन्ते धातौ प्रयोजनकव्यापारेण प्रेषणाध्येषणाख्येन व्याप्तुमिष्टतमत्वात् प्रयोज्यस्य `कर्त्तुरीप्सिततमं कर्म` 1|4|49 इत्यनेनैव कर्मसंज्ञा सिद्धा? सत्यम्, नियमार्थं वचनम्-- प्रयोजकव्यापारेण व्याप्यमानस्य यदा कर्मसंज्ञा तदा गत्यर्थादीनामेव,नान्येषामिति॥
गमयति माण वकं ग्राममिति। कथमत्र ग्रामस्य कर्मत्वम्, यावता कर्तुरीप्सिततमं कर्मेत्युच्यते,न च संप्रति माणवकः कर्ता; अनेन कर्मसंज्ञकत्वात्। तत्र यथा माषेष्वश्वं बध्नातीत्यत्र वस्तुतो बक्षणेनेप्सिततमानामपि माषाणां कर्मसंज्ञा न भवति, तत्कस्य हेतोः? अश्वस्य संप्रत्यकर्तृत्वात्, तद्वदत्रापि न प्राप्नोति; मा भूण्णिच्युत्पन्ने माणवकः कर्ता, प्राक्तदुत्पतेः प्रकृत्यर्थे कर्ता भवति, तदानीमेव च ग्रामस्याभिसम्बन्धः ग्रामकर्मण्यसौ गमने प्रेष्यते--ग्रामं गच्छेति। अतो यस्यामवस्थायां ग्रामस्य कर्मत्वं न तस्यां माणवकस्य कर्मत्वम्, यस्यां च ण्यन्तावस्थायां माणवकस्य कर्मत्वं न तस्यां ग्रामस्य कर्मत्वम्; पूर्वप्रवृतत्वाद्। माषेष्वश्वमित्यत्र तु नैवं संभवति। यापयतीति। ठ्या प्रापणेऽ इत्यत्र प्राप्त्या गतिर्लक्ष्यतैति यातिर्गत्यर्थः। नीवह्यएरिति। नन्वेतयोर्गतिफलं प्रापणमर्थो न गतिः, ठ्न गतिहिंसार्थेभ्यःऽ इत्यत्र च भाष्यम्--न ठ्वहिर्गत्यर्थःऽ इति, सत्यम्; गुणभावेनापि गतिः प्रतीयत इति मत्वा प्रतिषेध उक्तः। वहेरनियन्तृकस्येति। वक्ष्यामीति चोपक्षेपः। वाहयति बलीवर्दान्यवानित्यत्राणौ बलीवर्दाः कर्तारः, ण्यन्ते तु नियन्ता सारथिः कर्ताः, तत्र प्रतिषेधप्रतिषेधाद्विधिरेव भवति। बुध्यर्थग्रहणेन ज्ञानमात्रवाचिनामेव ग्रहणम्, न तु तद्विशेषवाचिनां स्मरत्यादीनामित्याहुः। वृतावपि तथैवोदाहृतम्। आदिखाद्योरिति। अपर आह--सर्वमेव प्रत्यवसानकार्यमदेर्न भवति, नावश्यमियमेव कर्मसंज्ञेति ठ्निगरणचलनार्थेभ्यश्चऽ इति पदमपि न भवति, इदमेकमिष्यते--ठ्क्तेऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यःऽ--इदमेषां जग्धमिति। भक्षेरिति। गत्यर्थादिषु प्रायेण हेतुमण्णिच एव संभवाद् हेतुमण्णिचो विधिरिति प्रतिषेधोऽपि प्रत्यासतेस्तस्यैव न्याय्य इति चुरादिणिजन्तोऽप्यण्यन्तएवेति भक्षेः प्राप्तिः। भक्षयति बलीवर्दान् सस्यमिति। क्षेत्रस्थानां यवानां भक्ष्यमाणानां हिसा भवति, तस्यामवस्थायां कैश्चिच्चैतन्याभ्युपगमात्। स्वामिनो वा हिसा द्रष्यव्या। इह कर्मशब्देन क्वचित्क्रिया गृह्यते, यथा--ठ्कर्तरि कर्मव्यतीहारेऽ इति, क्वचित् साधनकर्मा--ठ्वेः शब्दकर्मणःऽ इति, इह शब्दक्रियाणामिति चेत्? ठ्ह्वयत्यादीनां प्रतिषेधःऽ--ह्वयति पुत्रं देवदतः, ह्वापयति पुत्रं देवदतेन; क्रन्दति पुत्रं देवदतः, क्रन्दयति पुत्रं देवदतेन; शब्दायते देवदतः, शब्दाययते देवदतेन। अकर्मकत्वादथात्र प्रसङ्गः, शब्दलक्षणकस्य कर्मणोऽन्तर्भावात् कर्मान्तरायोगाच्च। ठ्श्रृणोतेश्चोपसङ्ख्यानम्ऽ --अशब्दक्रियत्वात् श्रृणोति श्लोकं देवदतः, श्रावयति श्लोकं देवदतम्; न च बुध्यर्थत्वादत्र सिद्धिः, चेतत्यादयो हि ज्ञानमात्रवचना बुध्यर्थाः। अस्तु तर्हि साधनकर्मणो ग्रहणम्, शब्दकर्मण इति चेत्? जल्पतिप्रभृतीनामुपसंख्यानम्, जल्पति पुत्रं देवदतः, जल्पयति पुत्रं देवदतम्; विलपति पुत्रं देवदतः, विलापयति पुत्रं देवदतम्; आभाषते पुत्रं देवदतः आभाषयति पुत्रं देवदतम्। द्दशेः सर्वत्र, यद्यपि क्रियाग्रहणम् अथापि साधनग्रहणम्, अथाप्युभयग्रहणम्-सर्वथा द्दशेरुपसंख्यानम्। पश्यति रूपतर्क कार्षापणम्, दर्शयति रूपतर्क्ंअ कार्षापणम्। यदा चायंद्दशिः चक्षुः साधनके ज्ञानविशेषे वर्तते तदेतद्वक्तव्यम्; ज्ञानमात्रवचनत्वे तु बुध्यर्थत्वादेव सिद्धम्; तदेवमुभयोरपि पक्षयोर्द्दोषान्तं भाष्यं नान्यतरः पक्षो निरणायि। वृत्तिकारस्तु ये शब्दक्रियाः शब्दसाधनकर्माणश्च तानविवादसिद्धानुदाहरतिवचनेन बोधयतीत्यर्थः। एमन्यत्रापि। तत्र बुद्ध्यर्थत्वादेव सिद्धम्। यद्यप्यन्या बुद्धिरन्या बोधना, उपसर्जनीभूतापि तावद्बुद्धिरस्तीति बुद्धर्थत्वमस्त्येव, उपसर्जनीभूतोऽपि च गत्यादिरर्थो गृह्यते, अन्यथा गमयतीत्यादीनामगत्यर्थत्वादेवाप्रसङ्गादणिग्रहणमनर्थकं स्यादिति, अस्तु चेतनविषये, एवमचेतनविषये कथम्? यः कंचिज्जल्पति तमन्यो जल्पयति, न ह्यत्र प्रबोधनाप्यस्ति। अकर्मकाणामिति। कालभावाध्वगन्तव्यदेशव्यतिरिक्तकर्मरहितानामित्यर्थोऽत्र ग्राह्यः, अन्यथा मासमास्ते देवदतः, मासमासयति देवदतम्, गोदोहमासयति, क्रोशमासयति, कुरूनासयतीत्यत्र न स्यात्; कालादिकर्मणा सकर्मकत्वात्। एवं ठ्लः कर्मणि चऽ इत्यादावपि यत्राकर्मकग्रहणं तत्र सर्वत्र द्रष्टव्यम्, तेन मासमास्यते देवदतेनत्यादौ भावे लादयः सिद्धा भवन्ति। उक्तञ्च--सिद्धं तु कालकर्मणाकर्मकत्वद्वचनादिति। कालग्रहणमुपलक्षणम्। वत्करणात्स्वाश्रयमपि भवति--मास आस्यते देवदतेन--मासकर्मणि लो भवति। स तर्ह्यकर्मकवचनाद् भावे वक्तव्यः? न वक्तव्यः; अकर्मकाणामित्युच्यते, न च कालादिभिः केचिदकर्मकाः। कालादिभिरप्यकर्मकाः यदा ते न विवक्ष्यन्ते, तद्यथा--शेते देवदतो न भुङ्क्ते इति। नाप्यविवक्षितकर्माणोऽकर्मकाः, किं तर्हि? येऽत्यन्ताविद्यमानकर्माणो धातवोऽकर्मकाः, नार्थाः। यस्य धातोः स्वरूपावधिकमकर्मकत्वम्, न च कालादिकर्मकाः, नार्थाः। यस्य धातोः स्वरूपावधिकमकर्मकत्वम्, न च कालादिकर्मणा स्वरूपावधिकमकर्मकत्वं कस्यापि सम्भवतीति सामर्थ्यातद्व्यतिरिक्तेन कर्मणाऽकर्मकत्वं विज्ञायते। किमर्थं पुनरिदमुच्यते, यावता स्वव्यापारे स्वतन्त्रस्यापि प्रयोज्यस्य प्रयोजकव्यापारे विवक्षिते तेन प्रधानभूतेनाप्यमानत्वाद् अन्तरङ्गत्वेन पूर्वप्रवृतामपि कर्तृ संज्ञां बाधित्वा कर्मसंज्ञा भविष्यतीति? एवं तर्हि सिद्धे सत्यारम्भो नियमार्थः-प्रयोजकव्यापारेणाप्यमानस्य यदि भवति गन्यर्थादीनामेव, नान्येषामिति। तेन पाचयत्योदनं देवदतो यज्ञदतेनेत्यत्र पूर्वं प्रवृताया एव कर्तृ संज्ञाया अवस्थानात् कर्तरि तृतिया भवति। उक्तं च-- गुणक्रियायां स्वातन्त्र्यात्प्रेषणे कर्मतां गतः। नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते॥ इति। कर्तुः स्वधर्मार्तृतीया। अथ कथम्-- अयचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक। इति? स्वतन्त्राः कवयः। यद्वा--सुतां प्रति किञ्चिदुद्वाहविषये ग्राहयितुं बोधयितुं न शशाकेत्येवं व्याख्येयम्; तत्र बुध्यर्थत्वात् सिद्धम्॥
सिद्धान्तकौमुदी
गत्याद्यर्थानां शब्दकर्मणामकर्मकाणां चाणौ यः कर्ता स णौ कर्म स्यात् ॥ शत्रूनगमयत्स्वर्गं वेदार्थं स्वानवेदयत् । आशयच्चामृतं देवान्वेदमध्यापयद्विधिम् ॥ 1 ॥ आसयत्सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः ॥गतीत्यादि किम् ? पाचयत्योदनं देवदत्तेन । अण्यन्तानां किम् ? गमयति देवदत्तो यज्ञदत्तं तमपरः प्रयुङ्क्ते गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः ॥ ।नीवह्योर्न (वार्तिकम्) ॥ नाययति वाहयति वा भारं भृत्येन ॥नियन्तृकर्तृकस्य वहेरनिषेधः (वार्तिकम्) ॥ वाहयति रथं वाहान् सूतः ॥ ।आदिखाद्योर्न (वार्तिकम्) ॥ आदयति खादयति वा अन्नं बटुना ॥भक्षेरहिंसार्थस्य न (वार्तिकम्) ॥ भक्षयत्यन्नं बटुना । अहिंसार्थस्य किम् ? भक्षयति बलीवर्दान् सस्यम् ॥जल्पतिप्रभृतीनामुपसङ्ख्यानम् (वार्तिकम्) ॥ जल्पयति भाषयति वा धर्मं पुत्रं देवदत्तः ॥ ।दृशेश्च (वार्तिकम्) ॥ दर्शयति हरिं भक्तान् । सूत्रे ज्ञानसामान्यार्थानामेव ग्रहणं न तु तद्विशे0षार्थनामित्यनेन ज्ञाप्यते । तेन स्मरति जिघ्रतीत्यादीनां न । स्मारयति घ्रापयति वा देवदत्तेन ॥शब्दायतेर्न (वार्तिकम्) ॥ शब्दाययति देवदत्तेन । धात्वर्थसङ्गृहीतकर्मत्वेनाकर्मकत्वात्प्राप्तिः । येषां देशकालादिभिन्नं कर्म न संभवति तेऽत्राकर्मकाः । न त्वविवक्षितकर्माणोऽपि । तेन मासमासयति देवदत्तमित्यादौ कर्मत्वं भवत्येव । देवदत्तेन पाचयतीत्यादौ तु न ॥
गतिबुद्धि। गतिश्च बुद्धिश्च प्रत्यवसानं च तानीति द्वन्द्वः। प्रत्यवसानं-भक्षणम्। गतिबुद्धिप्रत्यवसानानि अर्थो येषामिति विग्रहः। शब्दः कर्म येषां ते शब्दकर्मणः, तेषामिति बहुव्रीहिः। अविद्यमान कर्म येषां ते अकर्मकाः। उभयत्रापि कर्मशब्दः कारकपरः। गतिबुद्धिप्रत्यवसानार्थाश्च शब्दकर्माणश्च अकर्मकाश्च तेषामिति द्वन्द्वः। अणौ कर्ता-अणिकर्ता। यच्छब्दोऽध्याहार्यः। तदाह--हत्याद्यर्थानामित्यादिना। णौ अनुत्वपन्ने सति शुद्धधातुवाच्यां क्रियां प्रति यः कर्ता स ण्यन्ताधातुवाच्यां प्रयोजकव्यापारात्मिकां क्रियां प्रति कर्मसंज्ञकः स्यादित्यर्थः। क्रमेणोदाहरति--शत्रूनिति। `शत्रूनगमयत् स्वर्ग`मिति गत्यर्थकस्योदाहरणम्। शत्रवो युद्धे मृताः स्वर्गमगच्छन्, तान् यः शस्त्रवातेनाऽगमयत् स्वर्गं, स श्रीहरिर्मे गतिरित्यत्रान्वयः। अत्र गमेरण्यन्तावस्थायां शत्रवो गमनक्रियां प्रति कर्तारः, स्वर्गस्तु कर्म। ण्यन्तावस्थायां तु णिज्वाच्यां प्रयोजकव्यापारात्मिकां शस्त्रघातक्रियां प्रति घातयिता हरिः कर्ता। शत्रवस्तु कर्म। शस्त्रघातजन्या या क्रिया स्वर्गप्राप्तिस्तदाश्रयत्वात्। एवंच हरिः प्रयोजककर्ता, शत्रवस्तु प्रयोज्यकर्तारः। प्रयोजककर्तुर्हरेः शाब्दं प्राधान्यम्, अन्यानधीनत्वलक्षणं चार्थप्राधान्यमस्ति। शत्रूणां तु अन्याधीनस्वर्गप्राप्तिकर्तृत्वं प्रयोकधीनत्वाद्गुणभूतमेव। सेषित्वलक्षणमार्थप्राधान्यं तु प्रयोज्यशत्रुगतकर्तृत्वस्यैव, प्रयोजकव्यापास्य प्रयोज्यस्वर्गप्राप्त्यर्थत्वादिति स्थितिः। तत्रान्यानधीनत्वलक्षणस्यार्थप्राधान्यस्य शाब्दप्राधान्यस्य च प्रयोजकव्यापारे सत्त्वात्तदनुरोधि शत्रुगतं कर्मत्वं `कर्तुरीप्सिततम`मित्येव सिद्धम्। अतो नियमार्थमिदं सूत्रे `णिजर्थनाऽऽप्यमानस्य प्रयोज्यकर्तुर्यदि कर्मत्वं भवति तर्हि गत्यर्थादीनामेवे`ति। तेन `पाचयति देवदत्तेन` इत्यादौ प्रयोज्यकर्तुर्न कर्मत्वं, किंतु कर्तृत्वमेव। तदेतत् `हेतुमिति चे`ति सूत्रे भाष्यकैयटयोः स्पष्टम्। उक्तं च हरिणा--`गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां गतः। नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते।` इति स्वधर्मेणेति। तृतीययेत्यर्थः। एवंच स्वर्गकर्मकं शत्रुनिष्ठं यद्गमनं तदनुकूलो यन्निष्ठो व्यापारः स श्रीहरिर्मे गतिरिति वाक्यार्थः। एवमग्नेऽप्यूह्यम्। वेदार्थं स्वानवेदयदिति। बुद्ध्यर्थधातोर#उदाहरणम्। स्वशब्द आत्मीयपरः। स्वे=स्वकीयाविधिप्रमुखा वेदार्थमविदुः, तान् हरिर्वेदार्थमवेदयदित्यर्थः। अत्र स्वेषां प्रयोज्कर्त्तृ?णां कर्मत्वम्। आशयच्चामृतं देवानिति। प्रत्यवसानार्थस्य उदाहरणम्। देवा अमृतमाश्नन्, तान् हरिराशयदित्यर्थः। वेदमध्यापयद्विधिमिति। शब्दकर्मण उदाहरणमेतत्। विधिर्ब्राहृआ वेदमधीतवान्, तं हरिरध्यापयदित्यर्थः। अत्र प्रयोज्यकर्तुर्विधेः कर्मत्वम्। आसयत्सलिले पृथ्वीमिति। अकर्मकस्योदाहरणम्। सलिले पृथ्वी आस्त, तां हरिरासयदित्यर्थः। अत्र पृथिव्याः प्रयोज्यकर्त्र्याः कर्मत्वम्। यः स मे श्रीहरिर्गतिरिति प्रतिवाक्यमन्वयः।
गतिबुद्धि। प्रत्यवसानं-भक्षणम्। शब्दकर्मणामिति। शब्दः कर्म कारकं येषां तेषामित्यर्थः। कर्मशब्दो ह्यत्र कारकपरः, न तु `कर्तरि कर्मव्यतिहारे`इत्यत्रेव क्रियापरः, कृत्रिमे कार्यसम्प्रत्ययात्, कर्मग्रहणसामर्थ्याच्च। अन्यथा हि `गतिवुद्धिप्रत्यवसानशब्दार्थाऽकर्मकाणाम्`इत्येव ब्राऊयात्। अणौ यः कर्तेति। अनुपत्पन्ने णिचि--शुद्ध धातुवाच्यां क्रियां प्रतिः यः कर्ता स ण्यन्तधातुवाच्यां क्रियां प्रति कर्मसञ्ज्ञः स्यादित्यर्थः। नियमार्थमेतत्सूत्रमिति प्राञ्चः। `णिजर्थेनाऽऽप्यमानस्य यदि भवति तर्हि गत्यर्थादीनामेव कर्तु`रिति। तेन पाचयति देवदत्तो यज्ञदत्तेनेत्यत्र प्रयोज्ये कर्तरि प्रकृत्यर्थं प्रति कर्तृत्वस्यैव निरपवादत्वेनाऽवस्तानात्तृतीय सिध्यति। उक्तं च--`गुणिक्रियायां स्वातन्त्र्यात्प्रेषणे कर्मतां गतः। नियमात्कर्मसञ्ज्ञायाः स्वधर्मेणाभिधीयते` इति। कर्तुः स्वधर्मेण--तृतीययेत्यर्थः। ननु णिजर्थं प्रति कर्तृत्वं बाधित्वा प्रकृत्यर्थं प्रति कर्तृत्वं परत्वादेव सिद्धम्, अन्तरङ्गत्वाच्च। स्वकारकविशिष्टा हि क्रिया णिजर्थेन सम्बध्यते, हेतुमति णिज्विधानात्। कर्तृप्रयोजकस्य हेतुत्वात्। अतएव उपजीव्याऽपि कर्तृसञ्ज्ञा। एवञ्च---`परत्वादन्तरङ्गत्वादुपजीव्यतयाऽपि च। प्रयोज्यस्यास्तु कर्तृत्वं गत्यादेर्विधितोचिता`। यद्यपि विधिपक्षेऽपि लक्ष्यं निर्बाधमेव, तथापि नियमसूत्रमिदमिति प्राचां ग्रन्थो विरुध्यत इति चेत्। अत्राहुः--णिजर्थस्य शाब्दं प्राधान्यं पुरस्कृत्य प्रधानानुरोधिन्याः कर्मसञ्ज्ञायाः प्राबल्याद्विप्रतिषेध एव नास्तीति परत्वात्कर्तृत्वसिद्धिरित्येतन्न सङ्गच्छते। अन्तरङ्गत्वेपजीव्यत्वे अपि प्रधानं प्रति प्राबल्यं न प्रयोजयतः, ततश्च नियमार्थत्वेक्तिः प्राचां निर्बाधैवेति। गत्यादिण्यन्तान्क्रमेणोदाहरति--शत्रूनिति। शत्रवः स्वर्गमगच्छन्, तान् श्रीहरिः स्वर्गमगमयदिति--गमेरण्यन्तावस्थायां शत्रवः कर्तारस्ते ण्यन्तावस्थायां कर्म अभवन्। स्वकर्मकं शत्रुनिष्ठं यद्गमनं तदनुकूलो यन्निष्टो व्यापारः स श्रीहरिर्मे गतिरिति वाक्यार्थः। एवमग्रेऽप्यूह्यम्। वेदार्थमिति। स्वे=स्वकीया वेदार्थमविदुः, तान् श्रीहरिवेदार्थमवेदयत्। तथा देवा अमृतम् आश्रन्, तानाशयत्। विधिः वेदमध्यैत, तं ब्राहृआणं वेदमध्यापयत्--अपाठयत्। सलिले पृथ्वी आस्त, तां यो हरिरासयत्स्थापयतिस्म स हरिर्मे गतिरित्यन्वयः। ननु शत्रूण#आमनेन कर्मत्वे कृते कर्मण ईप्सिततमः स्वार्गो, न तु कर्तुरिति कर्तुरीप्सिततमत्वाऽभावात्स्बर्गस्य कर्मत्वं न स्यात्। अत्र केचित्---`गतिबुद्धि---`इति कर्मत्वस्य बहिरङ्गत्वेन ततः पूर्वमेव धात्वर्थव्यापारप्रयुक्तं कर्मत्वं स्वर्गस्य निर्वाधमित्यदोष इति। अन्येतु---`कर्तुरीप्सिततमम्---`इत्यत्र कर्तृग्रहणं स्वतन्त्रस्योपलक्षणम्। स्वातन्त्रे सङ्केतितस्य कर्तृ पदस्य तत्रैव लक्षणा न सङ्गच्छते, एकस्यैकस्मिन्नेवार्थे शक्तिलक्षणोभयाभ्युपगस्य शास्त्रकाराऽसम्मतत्वादिति वाच्यम्, सञ्ज्ञान्तरानुपहितस्वतन्त्रे सङ्केतितस्य सञ्ज्ञान्तरोपहितानुपहितसाधारणे स्वतन्त्रे लक्षणाभ्युपगमे बाधकाऽभावात्। अतएव जिधातोर्जये शक्तिः, प्रकृष्यजये लक्षणा। `शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा`इति। तेन प्रजयतीत्यत्र प्रशब्दो द्योतकः, प्रकृष्टजयस्तु जिधातोरेवार्थ इति नैयायिकोक्तिः सङ्गच्छते। नापि कर्तृपदस्य स्वतन्त्रलक्षणायां प्रमाणाऽभावः शङ्क्यः। `प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्। अप्रधाने दुहादीनाम्` इत्युक्त्वा `ण्यन्ते कर्तुश्च कर्मणः`इतिवदतो भाष्यकारस्यैव प्रमाणत्वात्। न हि लक्षणां विना णिजन्तानां द्विकर्मकता लभ्यते, येन `ण्यन्ते क्रतुः`इति वचनं सावकाशं स्यादित्याहुः।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ शब्दकर्मेति कथमिदं विज्ञायते ‐ शब्दो येषां क्रियेति, आहोस्वि-च्छब्दो येषां कर्मेति ? कश्चात्र विशेषः ? शब्दकर्मनिर्देशे शब्दक्रियाणामिति चेद् ह्वयत्यादीनां प्रतिषेधः ।। 1 ।। शब्दकर्मनिर्देशे शब्दक्रियाणामिति चेद् ह्वयत्यादीनां प्रतिषेधो वक्तव्यः । के पुर्नह्वयत्यादयः ? ह्वयति क्रन्दति शब्दायते ।। ह्वयति देवदत्तः । ह्वाययति देवदत्तेन ।। क्रन्दति देवदत्तः । क्रन्दयति देवदत्तेन ।। शब्दायते देवदत्तः । शब्दाययति देवदत्तेनेति । शृणोत्यादीनामुपसंख्यानमशब्दक्रियत्वात् ।। 2 ।। शृणोत्यादीनां चोपसंख्यानं कर्तव्यम् । के पुनः शृणोत्यादयः ? शृणोति विजानाति उपलभ्यते ।। शृणोति देवदत्तः । श्रावयति देवदत्तम् ।। विजानाति देवदत्तः । विज्ञापयति देवदत्तम् ।। उपलभते देवदत्तः । उपलम्भयति देवदत्तम् । किं पुनः कारणं न सिध्यति ? अशब्दक्रियत्वात् । अस्तु तर्हि ‐ शब्दो येषां कर्मेति । शब्दकर्मण इति चेज्जल्पतिप्रभृतीनामुपसंख्यानम् ।। 3 ।। शब्दकर्मण इति चेज्जल्पतिप्रभृतीनामुपसंख्यानं कर्तव्यम् । के पुनर्जल्पतिप्रभृतयः ? जल्पति विलपति आभाषते ।। जल्पति देवदत्तः । जल्पयति देवदत्तम् ।। विलपति देवदत्तः । विलापयति देवदत्तम् ।। आभाषते देवदत्तः । आभाषयति देवदत्तम् । दृशेः सर्वत्र ।। 4 ।। दृशेः सर्वत्रोपसंख्यानं कर्तव्यम् । पश्यति रूपतर्कः कार्षापणम् । दर्शयति रूपतर्कं कार्षापणम् । अदिखादिनीवहीनां प्रतिषेधः ।। 5 ।। अदिखादिनीवहीनां प्रतिषेधो वक्तव्यः ।। अत्ति देवदत्तः । आदयते देवदत्तेन ।। अपर आह ‐ सर्वमेव प्रत्यवसानकार्यमदेर्न भवतीति वक्तव्यं परस्मैपदमपि। । इदमेकमिष्यते ‐ क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसनार्थेभ्यः 3|4|76 । इदमेषां जग्धम् ।। खादि ‐ खादति देवदत्तः । खादयति देवदत्तेन ।। नी-नयति देवदत्तः । नाययति देवदत्तेन । वहेरनियन्तृकर्तृकस्य ।। 6 ।। वहेरनियन्तृकर्तकस्येति वक्तव्यम् । वहति भारं देवदत्तः । वाहयति भारं देवदत्तेन ।। अनियन्तृकर्तृकस्येति किमर्थम् ? वहन्ति बलीवर्दाः यवान् । वाहयति बलीवर्दान् यवान् । भक्षेरहिंसार्थस्य ।। 7 ।। भक्षेरहिंसार्थस्येति वक्तव्यम् । भक्षयति पिण्डीं देवदत्तः । भक्षयति पिण्डीं देवदत्तेन ।। अहिंसार्थस्येति किमर्थम् ? भक्षयन्ति यवान्बलीवर्दाः । भक्षयति बलीवर्दान् यवान् । अकर्मकग्रहणे कालकर्मणामुपसंख्यानम् ।। 8 ।। अकर्मकग्रहणे कालकर्मणामुपसंख्यानं कर्तव्यम् ।। मासमास्ते देवदत्तः । मासमासयति देवदत्तम् । मासं शेते देवदत्तः । मासं शाययति देवदत्तम् । सिद्धं तु कालकर्मणामकर्मकवद्वचनात् ।। 9 ।। सिद्धमेतत् । कथम् ? कालकर्मका अकर्मकवद्भवन्तीति वक्तव्यम् ।। तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । अकर्मकाणामित्युच्यते न च केचित्कदाचित्कालभावाध्वभिरकर्मकाः । तं एवं विज्ञास्यामः क्वचिद्येऽकर्मका इति ।। अथवा येन कर्मणा सकर्मकाश्चाऽकर्मकाश्च भवन्ति तेनाऽकर्मकाणाम्, न चैतेन कर्मणा कश्चिदप्यकर्मकः ।। अथवा यत्कर्म भवति, न च भवति, तेनाऽकर्मकाणाम् । न चैतत्कर्म क्वचिदपि न भवति ।। 52 ।।