॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|51
SK 539
1|4|51
अकथितं च
SK 539
सूत्रच्छेद:
अकथितम् - प्रथमैकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कारके  [1|4|23]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अकथितं च यत् कारकं तत् कर्मसंज्ञं भवति। केन अकथितम्? अपादानादिविशेषकथाभिः। परिगणनं कर्तव्यम् दुहियाचिरुधिप्रच्छिभिक्षिचिञाम् उपयोगनिमित्तम् अपूर्वविधौ। ब्रुविशासिगुणेन च यत् सचते तदकीर्तितम् आचरितं कविना। उपयुज्यते इत्युपयोगः पयःप्रभृति। तस्य निमित्तं गवादि। तस्य उपयुज्यमानपयःप्रभृतिनिमित्तस्य गवादेः कर्मसंज्ञा विधीयते। पाणिना कांस्यपात्र्यां गां दोग्धि पयः। पाण्यादिकम् अप्युपयोगनिमित्तं, तस्य 86 कस्मान् न भवति? न एतदस्ति। विहिता हि तत्र करणादिसंज्ञा। तदर्थम् आह अपूर्वविधौ इति। ब्रुविशासिगुणेन च यत् सचते। ब्रुविशास्योर् गुणः साधनम्, प्रधानं, प्रधानं कर्म, धर्मादिकम्, तेन यत् सम्बध्यते, तदकीर्तितम् आचरितं कविना, तदकथितम् औक्तं सूत्रकारेण। दुहि गां दोग्धि पयः। याचि पौरवं गां याचते। रुधि गामवरुणद्धि व्रजम्। प्रच्छि माणावकं पन्थानं पृच्छति। भिक्षि पौरवम् गां भिक्षते। चिञ् वृक्षमविचिनोति फलानि। ब्रुवि माणवकं धर्मं ब्रूते। शासि माणवकं धर्मम् अनुशास्ति।
`{मुद्रित `काशिकावृत्तौ` तु `अपादानादिविशेषकथाभिः` इत्येवास्ति।}अपादानाधिभिर्विशेषकथाभिः` इति। कारकसामान्यकथाया व्यवच्छेदार्तमेतत्। यदि हि केनाप्यकथितस्य कर्मसंज्ञा स्यात्, तदा माणवकस्य पितरं पन्थानं पृच्छतीत्यत्राकारकस्यापि माणवकस्य कर्मसंज्ञा स्यात्। `परिगणनम्` इति। अनयधातुव्यवच्छेदार्थमेतत्। तेन `दुह प्रपूहरणे` (धातुपाठः-1014) इत्येवमादीनामेव धातूनां प्रयोगेऽकथितस्य कर्मसंज्ञा विधीयते, नान्येषाम्। `उपयुज्यत इत्युपयोगः` इति। कर्मसाधनो घञन्तः।`उपयज्यते` इति। इष्टार्थसिद्धौ व्यापार्यत इत्यर्थ-। `पयःप्रभृति` इति। प्रभृतिशब्दन भिक्षादीनां ग्रहणम्। `तस्य निमित्तं गवादि` इति। आत्राप्यादिशब्देन पौरवादेग्र्रहणम्। `तस्योपर्युज्यमानपयः प्रभृतनिमित्तस्य` इति। उपयुज्यमानञ्च तत् पयः प्रभृति चेति विशेषणसमासं कृत्वना उपयुज्यमानपयः प्रभृतेर्निमित्तमिति षष्ठीसमासः। `गवादेः` इति। आदिशब्देन पौरवादेग्र्रहणम्। ननु च पाण्यादिकमप्युपयोगनिमित्तमिति, तेन विनोपयोगस्य पयसोऽसम्भवात्। आदिशब्देन कांस्यपात्रादेग्र्रहणम्। `विहिता हि तत्र करणादि संज्ञा` इति। आदिशब्देनाधिकरणसंज्ञाया ग्रहणम्। `तदर्थम्` इति। करणादेः कर्मसंज्ञानिवृत्त्यर्थमित्यर्थः। अर्थशब्दस्य निवृत्तिवचन्तवात्। `अपूर्वविधौ` इति। पूर्वग्रहणमत्रान्यविधेरुपलक्षणार्थम्। एतदुक्तं भवति-- यस्यान्यो विधिर्नोक्तस्य कर्मसंज्ञेति। तेन यत्रापि वक्ष्यमाणे हेतुकर्त्तृसंज्ञे इति तत्राप्येषा संज्ञा नभवतीति दोग्धाप्युपयोगस्य निमित्तं तस्य कर्मसंज्ञा न भवति। सूत्रेऽपि `अकथितम्` इति कथमनिवृत्तपरायां चोदनायां भूतकालो न विवक्ष्यते; उपलक्षणत्वात्। तेन योऽपि कथयिष्यमाणो हेतुकर्त्तृसंज्ञाभ्याम्, तस्यापि कर्मसंज्ञा न भवतीत्युक्तं भवति। ब्राउविशासिगुणेन` इति। कः पुनर्गुण इत्याह-- `साधनम्` इति। साधनं हि क्रियया उपकारकम्। यच्चोपकारकं तदुपकार्यम् प्रधानमपेक्ष्य गुणो भवति। कतरत् पुनः साधनमित्याह-- `प्रधानं कर्म` इति। किं पुनस्तदित्याह-- `धर्मादिकम्` इति। आदिशब्देन पत्त्यादेग्र्रहणम्। प्रधानत्वन्तु धर्मादेस्तदर्थत्वाच्छिष्यादिप्रवृत्तेः। `सम्बध्यते` इति सचत इत्यस्यार्थकथनम्। तथा हि-- `षच समवाये` (धातुपाठः-997) इति पठते, समवायश्च सम्बन्ध एव। सचते = तेन गुणेन सम्बन्धमुपैति। यच्च तेन सम्बन्धमुषैति तत्तेन सम्बध्यते। `उक्तम्` इति आचरितमित्यस्य विवरणम्। सूत्राकारेणेत्येतदपि `कविना` इत्यस्य।`गां दोग्धि पयः` इति। `दुह प्रपूरणे` (धातुपाठः-1014) आदादिकः। `दादेर्धातोर्घः` 8|2|32 , `झषस्तथोर्धोऽधः` 8|2|40 , `झलां जश् झशि` 8|4|52 इति जश्त्वम्। ननु चात्र विहिताऽपादान संज्ञा, अस्ति ह्रत्रापायः-- गोः दुहेः क्षरणार्थत्वात्, क्षरति गौओः क्षीरम्, तद्गोर्दोग्धा क्षारयति, एवञ्च तत् क्षार्यमाणं ततोऽपक्रामतीति स्पष्ट एवापायः, ततो नेदमुदाहरणमुपपद्यते? नैतदेवम्; सत्यपि ह्रपाये नात्र गोरवधित्वं विवक्षितम्, किं तर्हि? क्षीरं प्रति निमित्तभावमात्रम्। यद्येवम्, गोः कारकत्वं न स्यात्, यथा -- वृक्षस्य पर्णं पततीत्यत्र वृक्षस्य न; क्षरणक्रियां प्रति निमित्तभावेनाविवक्षितत्वात्, नैतत्; अवधित्वं ह्रत्र गोर्न विवक्षितम्। क्षरणं प्रति निमित्तभावस्तु विवक्षित एव। वृक्षस्य पर्णं पततीत्यत्र तु पतनं प्रति वृक्षस्य निमित्तभावमात्रमपि न विवक्षितम्, न केवलमवधिभाव इत्यसमानम्। `पौरवं गां याचते` इति। ननु चात्र कथितापादानादिसंज्ञा , अस्ति ह्रसौ। पौरवाद्गामादत्त इति अस्त्येववापायः? नैतदस्ति; न हि याचनादेवापायो भवति , किं तर्हि? अवरोधनक्रियां प्रति निमित्तबावमात्रम्। अस्याञ्चावस्थायां वा विवक्ष्यते; न चैतदिह विवक्षितम्, हेतुना गामवस्थापयतीत्ययमत्रार्थो वेदितव्यः, न तु क्वावस्थापयतीत्येतदिह चिन्त्यत एव। `माणवकं पन्थानं पृच्छति` इति। `प्रच्छ ज्ञीप्सायाम्` (धातुपाठः- 1413), तुदादिः, ग्रहिज्यादिसूत्रेण 6|1|16 सम्प्रसारणम्। ननु च कथितात्रापादानसंज्ञा, अस्ति ह्रत्रापायः-- सहि तस्मादुपदेशमादित्सते, नैतदस्ति; न हि प्रश्नमात्रेणापायो भवति, किं तर्हि? पृष्टः सन् यद्यसावाचष्टे तदापायेन युज्यते। सत्यप्यपाये नात्र माणवकोऽवधिभावेन विवक्षितः, किं तर्हि? प्रश्नक्रियां प्रति निमित्तभावमात्रेण।`पौरवं गां भिक्षते` इति। `भिक्ष याच्ञायाम्` (धातुपाठः-606) अनुदात्तेत्। अत किमर्थ याचिभिक्ष्योद्र्वयोरुपादानम्, यावताऽनयोरर्थभेदो नास्ति? न चेयं संज्ञा श्बदाश्रया, किं तर्हि? अथश्रिया। तथा हि- याचिना समानार्थस्यान्यस्यापि ग्रहणं भवति-- देवदत्तं शतं प्रार्थयते, देवदत्तं शतं मृगयत इति। तस्मात् सत्यपि शब्देभेदे न युक्तं तयोः पृथग्ग्रहणम्। एवं तर्हि याचिरत्रानुनये वत्र्तते-- तन क्रुद्धं याचते, अविनीतं याचत इति, तदर्थं पृथग्ग्रहणं स्यात्।`वृक्षमवचिनोति फलानि` इति। ननु चात्र विहिताऽपादानसंज्ञा तथा हि-- वृक्षात् फलान्यादत इत्यपायोऽत्रार्थः,नैतदस्ति; न ह्रत्र वृक्षोऽवधित्वन विवक्षितः। किन्तर्हि? फलावचयनस्य हेतुभावमात्रेण। वृक्षेण हेतुना फलावचयनं करोत्यर्थः। तस्य वृक्षस्य हेतुभावः किमवधिभूतस्य? अधिकरणभूतस्य वा? इत्येवमादिका चिन्ता न कृता।एवं `माणवकं धर्मं ब्राऊते, माणवकं धर्ममनुशास्ति` इति। `ब्राऊञ् व्यक्तायां वाचि` (धातुपाठः-1044), `शासु अनुशिष्टौ` (धातुपाठः-1075) अदादी। ननु च कथितात्र सम्प्रदानसंज्ञा, अस्ति ह्रत्र सम्प्रदानत्वम्, सम्प्रदेयेन धर्मेणाभिप्रेयमाणत्वात्, नैतदस्ति; ददातिकर्मणाभिप्रेयमाणस्य सम्प्रदानसंज्ञा विहिता, न चात्र धर्मो ददातिकर्म; ब्राउविशास्योरदानार्थत्वात्। अथापि दानार्थता स्यात्? एवमपि माणवेकन निमित्तेन धर्मं ददातीत्ययमर्थः स्यात्। माणवकस्य सम्प्रदानत्वनाविवक्षितत्वात्; धर्मदाननिमित्तत्वेन विवक्षितत्वात्।ब्राउविशासिगुणेन चेति चकारोऽनुक्तसमुच्चयार्थः। तेन नयतिप्रभृतीनां प्रयोगेऽप्यकथितस्य कर्मसंज्ञेष्यते।तथा चोक्तम्--नीवह्रोहरतेश्चैव गत्यर्थानां तथैव च।द्विकर्मकेषु ग्रहणं द्रष्टव्यमिति निश्चयः॥ इति।अत्रापि श्लोके चकारो जयतिप्रभृतीनां प्रयोगेऽकथितस्य समुच्चयार्थः। किमुदाहरणम्? अजां नयति ग्रामं देवदत्तः। अजां वहति ग्रामं देवदत्तः। अजां हरति ग्रामं देवदत्तः। शतं जयति देवदत्तं यज्ञदत्तः। शतं गर्गान् दण्डयतीति। ननु चोभयेषामपि `कर्त्तुरीप्सिततमं कर्म` 1|4|49 इत्यनेनैव कर्मसंज्ञा सिद्धा। यदि तह्र्रजादीनामीप्सिततमत्वं विवक्ष्यते, न ग्रामादीनाम्, तदा कथं कर्मसंज्ञा? तथापि `तथायुक्तम्` 1|4|50 इत्यनेन सिद्धा। यदा तर्हि ग्रामादीनामीप्सितत्वं प्रकर्षरहितं विवक्ष्यते, तदा न सिद्ध्यति। अकर्मकाणाञ्च धातूनां कालभावाध्नगन्तव्यदेशानां कर्मसंज्ञेष्यते। तथा चोक्तम्--कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्रकर्मणाम्।दशाश्चाकर्मकाणाञ्च कर्मसंज्ञा भवन्ति च॥इति वक्तव्यम् (म।भा।1।336) इति।तस्मात् तदर्थोऽनुक्तसमुच्चयार्थश्चकारः कृतः कालः -- मासमास्ते मासं स्वपितीति। भावः-- गोदोहमास्ते, गोदोहं कस्वपितीति। अध्वा गन्तव्यः-- क्रोशमास्ते, क्रोशं स्वपितीति। अध्वा चासौ गन्तव्यश्चेति विशेषमसमासः। `कडाराः कर्मधारय` 2|2|38 इति विशेष्यस्य पूर्वनिपातः। देशः कुरूनास्ते, कुरून् स्वपितीति। सर्वं एते कालादयोऽकथिताः; पूर्वविधेः कस्यचिद्प्रवृत्तत्वात्॥
अकथितशब्दोऽयमस्त्यप्रधाने रूढः, तद्यथा--अकथितोऽहमस्मिन् ग्रामे, अप्रधानभूत इति गम्यते। अस्ति च क्रियाशब्दोऽकीर्तितपर्यायः। ठ्कथ वाक्यप्रवन्धेऽ, चुरादावदन्तः पठ।ल्ते, तत्र पूर्वस्य ग्रहणे ठ्पाणिना कांसपात्र्यां दोग्धि पयःऽ इत्यत्र पाणिकांसपात्र्योरपि स्यात्। करणाधिकरणसंज्ञयोस्तु पचत्यादिरवकाशः, न हि तत्रास्य प्रसङ्गः; ठ्दुहियाचिऽ इति परिगणनात्, अतो द्वितीयस्य ग्रहणम्, तदाह--केनाकथितम्? अपदानादिभिर्विशेषकथाभिरिति। किमत्र प्रमाणं तदाह--केनेति। करणनिर्देशः। रूढिशब्देषु हि व्युत्पत्यर्थमेव क्रियोपादीयते; न तत्र करणादि सम्बध्यते, न हि गच्छतीति गौरित्यत्र केनेति प्रश्नो रथेनेति प्रतिवचनं वा भवति। इह ठ्कारकेऽ इत्यनुवर्तनात् सत्येव कारकत्वेऽकथितस्य संज्ञया भाव्यमिति सामर्थ्याद्विशेषकथाभिरित्युक्तम्। परिगणनं कम धर्मादीति। तस्य तु प्राधान्यं तदर्थत्वात् प्रवृतेः। सम्बध्यत इति। सचत इत्यस्यार्थकथनमेतत्,ठ्षच समवायेऽ स्वरितेत्। केचितु परस्मैपदिभिः सह धातुमेनं पठन्ति ठ्षच सवायेऽठ्रप लप व्यक्तायां वाचिऽ इति। तत्राहुः-ठ्षचसेवनेऽ इत्यस्यानुदातेतोऽनेकार्थत्वात्समवाये प्रवृत्तिरिति, सम्बध्नातेश्च कर्मव्यापारे सचिर्वर्तत इति कर्तृपदस्य कर्मपदेनार्थकथनं नानुपपन्नम्, यथा--राध्यत्योदन इत्यस्य पच्यत इति। उक्तमिति। आचरितमित्यस्य विवरणम्। सूत्रकारेणेति। कविशब्दो मेधाविमात्रवचनोऽपि प्रकरणात् सूत्रकारे प्रयुक्त इति दर्शयति। गां दोग्धि पय इति। ननु चात्रायमर्थः- गौः पयस्त्यजति, दोग्धा गवा पयस्त्याजयतीति; तत्र प्रयोजकव्यापारेणाप्यमानत्वात् सिद्धा गोः कर्मसंज्ञा। न च वाच्यम्--ठ्प्रयोजकव्यापारेणाप्यमानस्य यदि भवति गत्यर्थादिष्वेवेत्युतरसूत्रे नियमादत्र न प्राप्नोपि, यथा--पचन्तं देवदतं प्रयुङ्क्ते, पाचयति देवदतेनेत्यत्रऽ इति;ण्यन्तष्वेव स नियमः, अयं तु प्रकृत्यन्तः, नैतदस्ति; यथा ण्यन्तेषु धातुषु क्रियाविशिष्टस्य प्रयुक्तिः प्रतीयते--गमयतीति, नैवमत्र विष्क्रियस्यापि गवादेर्दोहननयनादिषु विनियोगात्। तथा ह्यदुहानापि गौर्दुह्यते, अगच्छन्तो भारादयः शिरसा नीयन्ते, तस्माद्देग्धीत्येकस्या एव क्रियायाः श्रवणाद् गोपयसोर्भेदेन कर्मत्वं न भवति। णिचि तु सति प्रकृत्यंशस्य प्रत्ययांशस्य च भेदेन द्वे वाच्ये इति कर्मभेदोपपतिः। गमयति ग्रामं देवदतमिति। यदा तु दुहेः क्षरणमर्थः-क्षरति गोः क्षीरम्, क्षीरं क्षारयति देवदत इति, तदा यद्यपि गोरपायेऽवधिभावो विद्यते; तथाप्यविवक्षिते तस्मिन्निमितत्वमात्रापेक्षायामुदाहरणोपपतिः। एवं चावधित्वविवक्षायामपादानसंज्ञायां भवत्येव--गेर्दुह्यते पय इति। यदा तु पयस्येव विशेषणं गौः, तदा षष्ठी--गोः पयो दोग्धीति। पौरवं गां याचते इति। पुरोरपत्यं पौरवः। ननु विहितात्रापादानसंज्ञा पौरवादसौ गामादते, न याचनादेव तत आदते, याचितोऽसौ यदि ददाति तत आदते, ननु मा नामादिताऽऽदित्सते तावत्, तदपि न; यतः स्वभावपरिचिच्छित्सुरनादित्समानोऽपि याचते। गामवरुणद्धि व्रजमिति। ननु च गां व्रजं प्रवेशयतीत्ययमत्रार्थः, ततश्च सिद्धं व्रजस्य कर्मत्वम्? अथ व्रजे गामवस्थापयतीत्यर्थः, तर्हि कथितात्राधिकरणसंज्ञा; यदा तर्ह्यवरोधनक्रियां प्रति निमितत्वमात्रं विवक्ष्यते न कर्मत्वं नाधिकरणत्वं तदेदमुदाहरणम्। व्रजेन हेतुनाऽवस्थापयतीत्यर्थः। माणवकं पन्थानं पृच्छतीति। ठ्प्रच्छ ज्ञीप्सायाम्ऽ, तुदादिः, ग्रहिज्यादिना संप्रसारणम्। ननु च कथितात्रापादानसंज्ञा, स हि तस्मादुपदेशमादते न प्रश्नमात्रादादते, पृष्टोऽसौ यद्यौपदिशति तत आदते। मा नामादिता, आदित्सते तावत् तदपि न, अनादित्समानोऽपि स्वभावपरिज्ञानाया पृच्छति। भिक्षिर्याचिवद्व्याख्येयः। किमर्थं पुनर्याचिभिक्ष्योरुभयोरुपादानम्, न ह्यनयोरर्थे भेदोऽस्ति, अर्थाश्रया चेयं संज्ञा, न दुह्यादिस्वरूपाश्रया। समानार्थेऽपि हि गृह्यते--देवदतं शतं प्रार्थयत इति? उच्यते, अननुयार्थस्य याचतेर्ग्रहणार्थम्। तेनाविनीतं विनयं याचते, क्रुद्धं प्रसादं याचत इत्यत्रापि भवति। सकृदुपातस्य चोरभयरूपानुपपतेः भिक्षिरपि गृहीतः। वृक्षमवचिनोति फलनीति। यद्यप्यवचिन्वद् वृक्षान् फलमादते इत्यपादानसंज्ञाया अयं विषयः, तथापि यदा वृक्षो नावधित्वेन विवक्ष्यते निमितरूपेणैव तु विवक्ष्यते, तदेदमुदाहरणम्। ब्रूतेऽनुशास्तीति। ठ्ब्रूञ् व्यक्तायां वाचिऽ ठ्शासु अनुशिष्टौऽ, अदादी, यद्यद्यप्यत्र धर्मेण वचनानुशासनकर्मणा माणवकस्याभिप्रेयमाणत्वम्, तथापि ददातिकर्माभावात्संज्ञाया अप्रसङ्गः। ये तु तत्र ददातिकर्मणेति नाश्रयन्ति, तेषामपि निमितत्वमात्रं विवक्षितं नाभिप्रेयमाणत्वमित्युदाहरणोपपतिः॥ अथान्येऽपि द्विकर्मकाः- नीवह्यएर्हरतेश्चापि गत्यर्थानां तथैव च। द्विकर्मकेषु ग्रहणं द्रष्टव्यमिति निश्चयः॥ ठ्गत्यर्थानाम्ऽ इत्युतरसूत्रोपलक्षणम्। नी--अजां नयति ग्रामम्। वहिवहति भारं ग्रामम्। हरति--भारं हरति ग्रामम्। चकारेण जयत्यादयः समुच्चीयन्ते--शतं जयति देवदतम्, शतं मुष्णाति देवदतम्, शतं दण्डयति देवदतम्, कर्षति ग्रामं शाखाम्। इदं विचार्यते--द्विकर्मकेभ्यो धातुभ्यः कर्मणि लादय उत्पद्यमानाः किमीप्सिततमे कर्मणि प्रधाने उत्पद्यन्ते? आहोस्विदनेन यस्य कर्मत्वं तस्मिन् गुणकर्मणीति? तत्रोक्तम्-- प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्। अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः॥ इति॥ अयमर्थः- ये द्विकर्मका धातवस्तेषां प्रधाने कर्मणीप्सिततमे वाच्ये लादीनाहुःउलादयो भवन्तीत्याहुः। लादयःउलकृत्यक्तखलर्थाः। प्रधानाप्रधानयोर्भिन्नकक्षयोर्युगपदभिधानासंभवे प्रधानस्यैवाभिधानं न्याय्यम्, प्रधानत्वादेवेति भावः। नी--नीयते ग्राममजा, नेया, नीता, सुनया। वहि--उह्यते भारो ग्रामम्, वोढव्यः, ऊढः, सुवहः। हृञ्--ह्रियते भारो ग्रामम्, हर्तव्यः, हृतः, सुहरः। कृष्--कृष्यते शाखा ग्रामम्, क्रष्टव्या, कृष्टा, सुकर्षा। अप्रधाने दुहादीनामिति। अत्र दण्डिप्रभृतयोऽपि गृह्यन्ते, न तु दुहियाचीति श्लोकपठिता एव। एतेषां दुहादीनामप्रधाने कर्मण्याख्येये लादीनाहुः । एतदपि न्यायसिद्धम्; यतः पयोऽर्थी पूर्वं गवि प्रवर्तते, अतः शूद्धस्य दुहेर्गवाभिसम्बन्धः, गोदोहेन तु पयस इत्यन्तरङ्गत्वादकथितकर्मणस्तत्रैव लादयो भवन्ति। एवं सर्वत्र। दुहि--गौर्दुह्यते पयः, दोह्या, दुग्धा, सुदोहा। याचि--पौरवो गां याच्यते, याच्यः, याचितः, सुयाचः। रुधि--व्रजोऽवरुध्यते गाम्, अवरोध्यः, अवरुद्धः,स्ववरोधः। प्रच्छि--माणवकः पन्थानं पृच्छयते, प्रष्टव्यः, पृष्टः, सुप्रच्छः। भिक्षि--पौरवो गां भिक्ष्यते, भिक्षितव्यः, भिक्षितः, सुभिक्षः। चिञ्--वृक्षोऽवचीयते फलानि, अवचेतव्यः, अवचितः, स्ववचयः। ब्रूञ्--उच्यते माणवको धर्मम्, वक्तव्यः, उक्तः, सुवचः। शामु--अनुशिष्यते माणवको धर्मम्, अनुशासितव्यः, अनुशिष्टः, स्वनुशासः। दण्डि--गर्गाः शतं दण्ड।ल्न्ते, दश्ड्याः, दण्डिताः, सुदण्डाः। जि-शतं जीयते देवदतः, जेतव्यः, जितः, सुजयः। मुषि--मुष्यते देवदतः शतम्, मोषितव्यः, मुषितः, सुमोषः। ण्यन्ते कर्तुश्च कर्मण इति। अभिधान इति शेषः। अण्यन्तावस्थायां कर्तुर्ण्यन्तावस्थायां कर्मणः सतोऽभिधाने लादीनाहुरित्यर्थः। एतदुक्तं भवति-ये गत्यर्थादयोऽण्यन्तावस्थायामपि सकर्मका ण्यन्तावस्थायामुतरसूत्रेण द्विकर्मका जाताः, तेषु ण्यन्तावस्थायां यदुतरसूत्रेणोपजातं कर्म तत्र लादयो भवन्तीत्यर्थः। गमयति ग्रामं देवदतम्, गम्यते ग्रामं देवदतः, गमयितव्यः, गमितः; सुगमः। बुध्यर्थः- बोध्यते माणवको धर्मम्, बोधयितव्यः, बोधितः, सुबोधः। प्रत्यवसानार्थः- भोज्यते माणवक ओदनम्, भोजयितव्यः, भोजितः, सुभोजः। शब्दकर्म-पाठ।ल्ते माणवको वेदम्, पाठयितव्यः, पाठितः, सुपाठः। अकर्मकः- आस्यते माणवको मासम्, आसयितव्यः, आसितः, स्वासः। बुद्धिप्रत्यवसानार्थशब्दकर्मकेषु गुणकर्मणि लादय इति मतान्तरम्। बोध्यते माणवकं धर्मः, भोज्यते माणवकमोदनः, पाठ।ल्ते माणवकं वेद इत्यादि। तदयमत्र निर्णयः- नीवहिहृकृषिभ्यः प्रधानकर्मणि लादयः; तत्सम्बन्धस्य पूर्वभावित्वात्। दुह्यादिभ्यो जिदण्डमुषिभ्यश्चाप्रधाने; तत्सम्बन्धस्यानन्तरङ्गत्वात्। बुद्धिप्रत्यवसानार्थशब्दकर्मकेषु गुणकर्मणि प्रधाने वा यथेष्टम्; गत्यर्थाकर्मकयोः हृक्रोश्च ण्यन्तयोः प्रयोज्ये कर्मणीति। प्रयोज्यस्य च प्राधान्येनाभिधीयमानाप्रयोजकव्यापारेणाप्यमानत्वात् प्राधान्यम्। गुणभूतप्रयोज्यव्यापारकर्मणस्तु गुणभाव आर्थन न्ययेन प्रयोज्यव्यापारप्राधान्यम्, तदर्थत्वात् प्रयोजकव्यापारस्य। तत्प्राधान्याच्च तत्कर्मणोऽपि प्राधान्यमित्यन्ये। सर्वथा लादयः प्रयोज्यकर्मणीति स्थितम्। अकर्मकाणां च धातूनां कालभावाध्वगन्तव्यदेशाः कर्मसंज्ञका इष्यन्ते। उक्तं च--ठ्कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्, देशश्चाकर्मकाणां तु कर्मसंज्ञो भवतीति वक्तव्यम्ऽ इति। अध्वगन्तव्येति--गन्तव्योऽध्वा, अध्वा गन्तव्यः, कडारादिष्वध्वशब्दे द्रष्टव्यः। गन्तव्यत्वेन प्रसिद्धस्य नियतपरिमाणस्य क्रोशादेर्ग्रहणार्थं गन्तव्यग्रहणम्, तेनाध्वानं स्वपितीति न भवति। ननु च ठ्कालाध्वनोःऽ इति सिद्धा द्वितीया, किं कर्मसंज्ञया? देशस्य तावद्वक्तव्या। कालाध्वनोरपि लादिविधानार्थ कर्मत्वमेषितव्यम्। आस्यते मासः, आसितः, आसितव्यः,स्वासः। एवं शय्यते क्रोश इत्यादि। भावः- गोदोहमास्ते। यावता कालेन गौर्दुह्यते तावन्तं कालमास्त इत्यर्थः। गोदोहादीनां मासादिवत् कालत्वेनाप्रसिद्धत्वाद्भावस्य पृथग् ग्रहणम्। देशः- कुरून् स्वपिति, कुरवः सुप्यन्त इत्यादि। ठ्कालाध्वनोरत्यन्तसंयोगेऽ इति तु सूत्रमक्रियात्यन्तसयोगार्थम्--मासं गुडधानाः, सर्वरात्रं कल्याणी, क्रोशं कुटिला नदीति। न तर्हि वक्तव्यम्--कालाभावाध्वगन्तव्या इति? न वक्तव्यम्, नात्रासिरासनमात्रे वर्तते, किं तु तत्पूर्वके व्यापने वर्तते--मासमास्ते । कोऽर्थः? मासमासनएन व्याप्नोतीति। एवं वदेमधीते, मासं वेदाध्ययनेन व्याप्नोतीत्यर्थः। अथ ठ्कर्तृ कर्मणोः कृतिऽ इति षष्ठी द्विकर्मकेषु किं प्रधाने कर्मणि भवति? आहोस्विद् गुणे भवति? आहोस्विदुभयोः? उभयोरिति प्राप्तं द्वितीयावद्भाष्यकारवचनातु गुणकर्मणि विकल्पेन षष्ठी। प्रधानकर्मणि नित्या--नेताऽश्वस्य स्त्रुघ्नमिति वा। इहाकथितं कर्मेत्येतावदस्तु, मास्तु पूर्वसूत्रद्वयम्, तद्विषयस्याप्यकथीतत्वात्, सत्यम्; नटस्य श्रृणोतीत्यत्र मा भूदिति दुह्यादिपरिगणनमवश्यं कर्तव्यम्, तस्मिंश्च क्रियमाणे ओदनं पचति, वृक्षमूलान्युपसर्पतीत्यत्र न स्यादिति पूर्वमपि योगद्वयमारभ्यत इति॥
सिद्धान्तकौमुदी
अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात् ॥ दुह्याच्पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम् । कर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्वहाम् ॥ दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णां कर्मणा यद्युज्यते तदेवाकथितं कर्मेति परिगणनं कर्तव्यमित्यर्थः । गां दोग्धि पयः । बलिं याचते वसुधाम् । अविनीतं विनयं याचते । तण्डुलानोदनं पचति । गर्गान् शतं दण्डयति । व्रजमवरुणद्धि गाम् । माणवकं पन्थानं पृच्छति । वृक्षमवचिनोति फलानि । माणवकं धर्मं ब्रूते शास्ति वा । शतं जयति देवदत्तम् । सुधां क्षीरनिधिं मथ्नाति । देवदत्तं शतं मुष्णाति । ग्राममजां नयति हरति कर्षति वहति वा । अर्थनिबन्धनेयं संज्ञा । बलिं भिक्षते वसुधाम् । माणवकं धर्मं भाषते अभिधत्ते वक्तीत्यादि । कारकं किम् ? माणवकस्य पितरं पन्थानं पृच्छति ॥अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम् (वार्तिकम्) ॥ कुरून् स्वपिति । मासमास्ते । गोदोहमास्ते । क्रोशमास्ते ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
अकथितञ्च। केनाऽकथितमित्याकाङ्क्षायामाह---अपादानादिविशेषैरिति। अपादानं सम्प्रदानम् अधिकरणं कर्म करणं कर्ता हेतुरित्येतैर्विशेषैरित्यर्थः। अविवक्षितमिति। अपादानादिविशेषविवक्षायां तु--गोर्दोग्धि पयः। बलेर्याचते वसुधाम्। व्रजेऽवरुणद्धि गाम्--इत्येवं पञ्चम्यादय एव भवन्तीति भावः। एतेन `पाणिना कांस्यापात्र्यां दोग्धी`त्यत्र करणाधिकरणयोरतिप्रसङ्गः। तयोस्तु दण्डेन करोति, कटे तिष्ठतीत्यादिरवाकाशो दुहादिपरिगणना`दित्याक्षेपो निरस्तः। करणाधिकरणसञ्ज्ञयोरिह विवक्षितत्वात्। यदि तु सूत्रेऽकथितशब्दोऽप्रधानपर्यया न त्वनुक्तपर्यय इत्यभ्युपगम्येत, तदा स्यादेवाऽयमाक्षेपो न त्वन्यथा। कारकमिति। ततश्च `ब्राआहृणस्य पुत्रपृच्छती`त्यत्र नातिप्रसङ्गः। दुह्याजिति। `दण्ड दण्जनिपातने`चुरादिः। इह तु दण्डिग्र्रहणार्थो न तु निग्रहार्थः। प्रच्छीत्यागन्तुकेनेकारेण निर्देशो न त्विका, `ग्रहिज्ये`ति सम्प्रसारणप्रसङ्गात्। कर्मुयुगिति। कर्मणा युज्यते कर्मयुक्। `सत्सूद्विषे`त्यादिना क्विपे। कर्मणा यद्युज्यत इति। मुख्यकर्मणा सह क्रियया सम्बध्यमानं कारकमेवाऽपादानादिविसेषैरकथितं सत्कर्मसञ्ज्ञक भवतीत्यर्थः। एतेन दुहादीनां द्विकर्मकत्वं स्फोरितम्। अन्ये त्वाहुः---`कर्मयु`गित्यत्र कर्मशब्देन क्रियोच्यत इति। तेन क्रियान्वयीत्यर्थः। परिगणनमिति। तेन `नटस्य श्रणोति गाथा`मित्यादौ नातिप्रसङ्ग इति भावः। इह हि गाथाकर्मकं नटसम्बन्धि श्रवणं वाक्यार्थः। तेन क्रियान्वयित्वान्नटस्य कारकत्वमस्त्येव। गां दोग्धीति। पयःकर्मकं गोसम्बन्धि दोहनमर्थः। पयोऽत्र मुख्यं कर्म, कर्तुरूप्सिततमत्वात्। गौस्तु पयसो निमित्ततामात्रेणोपात्ता, न तु वस्तुसताऽप्यवधिभावेनेत्यपादानसञ्ज्ञाया अप्रवृत्तेरनेन कर्मसञ्ज्ञिका भवति। तदुक्तं हरदत्तेन---`यद्यपि गोरवधिभावो विद्यते, तथाप्यविवक्षिते तस्मिन्निमित्त मात्रविवक्षायामुदाहरणोपपत्ति`रिति। एतेनाऽवधित्वविवक्षायां गोरिति पञ्चम्येवेति स्पष्टम्। यदा तु गौरित्येतत्पयसा सम्बध्यते तदा गोशब्दात्षष्ठ�एव भवतीत्यपि बोध्यम। यत्तु प्राचा--दुह्याच्यर्थरुधिप्रच्छिचिब्राऊशासुजिकर्मयुक्। नीह्मकृष्मन्थवह्दण्डग्रहमुष्पचिकर्मभाक्`इति पठितं, तत्र ग्रहेः पाठोऽप्रामाणिकः। इतरेषां तु द्विकर्मकत्वं यद्यपि प्रामाणिकं, तथापि सन्दर्भाऽशुद्धिः। तथाहि दुह्यादीन्न्यादीश्च द्वैराश्येन पठित्वा भावकर्मप्रकियाशेषे `लकृत्यक्तखलर्थाः किं द्विकर्मकेभ्यो मुख्ये कर्मणि स्युर्गौणे वा`इत्याशङ्कायां स्वयमेव पठितं---` न्यादयो ण्यन्तनिष्कर्मगत्यर्था मुख्यकर्मणि। प्रत्ययं यान्ति दुह्यादिर्गौणेऽन्ये तु यथारुचि`इति। एवञ्च दण्डिमन्थिभ्यामपि मुख्ये स्यात्। न चेष्टापत्तिः। `गर्गाः शतं दण्ड�न्ता`मिति भाष्यविरोधात्। शतं ह्यत्र प्रधानां न तु गर्गाः, `अर्थिनश्च राजानो हिरण्येन भवन्ति`इति वाक्यशेषात्। दण्डिरत्र ग्रहणार्थो न तु निग्रहार्थ इत्युक्तम्। अतएवाऽत्र समुदाये वाक्यपरिसमाप्तिः, गुणानुरोधेन प्रधानवृत्तेरसम्भवात्। तथा मन्थेरपि प्रधाने स्यात्, इष्यते तु गौणे। तथा च भारविः---`येनापविद्धिसलिलस्फुटनागसद्मा देवासुरैरमृतमम्बुनिधर्ममन्थे`इति। अत्राऽमृतं मुख्यम्--उद्देश्यत्वात्, अम्बुनिधिस्तु गौणः। बलिं याचत इति। अत्र प्रार्थनार्थस्य याचेर्वसुधा मुख्यं कर्म, तेन युक्तो बलिर्वस्तुतोऽवधिरपि तदविवक्षायामनेन कर्म भवति। अविनीतमिति। अनुनयार्थस्य याचेरविनीतो मुख्यं कर्म, अविनीतं विनयायाऽनुनयतीत्यर्थः। विनयस्य तादथ्र्याविवक्षायाम् `अकथितञ्चे`ति कर्मसञ्ज्ञा। तण्डुलानिति। निर्वर्तनार्थस्य पचेरोदनो मुख्यं कर्म, ओदनं निर्वर्तयतीत्यर्थः। तण्डुलास्तु करणत्वाऽविवक्षायामकथितं कर्म। अन्ये त्वाहुः---`द्यर्थः पचिः`इति भाष्यापर्यालोचनया `तण्डुनोदनं पचती`त्यस्य तण्डुलान्विक्लेदयन्नोदनं निर्वर्तयतीत्यर्थः। दुह्यादिषु पचेः परिगणनमप्रामाणिकं, भाष्यकैयटयोरनुक्तत्वादिति। गर्गानिति। ग्रहणार्थस्य दण्डेः शतं कर्म, गर्गास्त्वपादानत्वाऽविवक्षायामकथितं कर्म। व्रजमिति। अत्र गौर्मुख्यं कर्म, व्रजं त्वधिकरणत्वाऽविवक्षायाम् `अकथितञ्च`इति कर्म भवति। एवमग्रेऽप्यूह्यम्। अर्थनिबन्धनेति। न तु स्वरूपाश्रया, `अहमपीदमचोद्यं चोद्ये`इति `तद्राज`सूत्रभाष्ये पृ?च्छिपर्यायस्य चुदेरपि द्विकर्मकत्वदर्शमादिति भावः। अएतएव `स्थातुं रणे स्मेरमुखो जगाद मारीचमुच्चैर्वचनं महार्थ`मिति भट्टिः प्रायुङ्क्ता। एवच्च नाथत्यादयो बहवो द्विकर्मका ज्ञेयाः। स्यादेतत्----यद्यर्थनिबन्धनेयं सञ्ज्ञा तर्हि नीवहियोरन्यतरो न पठनीयः, उभयोरप्येकार्थत्वादिति चेत्सत्यम्। भारं वहति, भारं नयतीत्यत्र यदि विलक्षणोऽर्थोऽनुभूयते, तदा द्वयमपि पठनीयमेव, यदि तु नानुभूयते तह्य्रन्यतरो न पठनीयः, उभयथापि लक्ष्यस्य निर्बाधत्वात्। अत्र वदन्ति---`जग्राह द्युतरु शक्रम्`इत्युदाहरणमप्ययुक्तमिति मनोरमोक्तं चिन्त्यमेव। सञ्ज्ञाया अर्थनिबन्धनत्वाद्दण्डेग्र्रहणार्थत्वाच्चेति। बलिं भिक्षत इति। `भिक्ष मिक्षायामलाभे लाभे च`। भिक्षते याचत इत्यर्थः।
लघुसिद्धान्तकौमुदी
अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात्। दुह्राच्पच्दण्ड् रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम्। कर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्वहाम्॥ 1॥गां दोग्धि पयः। बलिं याचते वसुधाम्। तण्डुलानोदनं पचति। गर्गान् शतं दण्डयति। व्रजमवरुणद्धि गाम्। माणवकं पन्थानं पृच्छति। वृक्षमवचिनोति फलानि। माणवकं धर्मं ब्रूते शास्ति वा। शतं जयति देवदत्तम्। सुधां क्षीरनिधिं मथ्नाति। देवदत्तं शतं मुष्णाति। ग्राममजां नयति हरति कर्षति वहति वा। अर्थनिबन्धनेयं संज्ञा। बलिं भिक्षते वसुधाम्। माणवकं धर्मं भाषते अभिवत्ते वक्तीत्यादि॥ इति द्वितीया।
महाभाष्यम्
अकथितं च केनाऽकथितम् ? अपादानादिभिर्विशेषकथाभिः ।। किमुदाहरणम् ? दुहियाचिरुधिप्रच्छिभिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ । ब्रुविशासिगुणेन च यत्सचते तदकीर्तिमाचरितं कविना ।। दुहि ‐ गां दोग्धि पयः ।। नैतदस्ति । कथिताऽत्र पूर्वाऽपादानसंज्ञा। । दुहि ।। याचि ‐ इदं तर्हि -पौरवं गां याचत इति ।। नैतदस्ति । कथितात्र पूर्वाऽपादानसंज्ञा। ।। न याचनादेवाऽपायो भवति ।। याचितोऽसौ यदि ददाति ततोऽपायेन युज्यते । याचि ।। रुधि ‐ अन्ववरुणाद्धि गां व्रजम् ।। नैतदस्ति । कथिताऽत्र पूर्वाधिकरणसंज्ञा। रुधि । प्रच्छि ‐ माणवकं पन्थानं पृच्छति ।। नैतदस्ति । कथिताऽत्र पूर्वाऽपादानसंज्ञा। ।। न प्रश्नादेवाऽपायो भवति । पृष्टोऽसौ यद्याचष्टे ततोऽपायेन युज्यते । प्रच्छि ।। भिक्षि-पौरवं गां भिक्षते ।। नैतदस्ति । कथिताऽत्र पूर्वाऽपादानसंज्ञा। ।। न भिक्षणादेवाऽपायो भवति । भिक्षितोऽसौ यदि ददाति ततोऽपायेन युज्यते । भिक्षि ।। चिञ्ञ् ‐ वृक्षमवचिनोति फलानि ।। नैतदस्ति । कथिताऽत्र पूर्वाऽपादानसंज्ञा। ।। ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना।। ब्रुविशासिगुणेन यत्सचते तच्चोदाहरणम् । किं पुनस्तत् ? पुत्रं ब्रूते धर्मम्, पुत्रमनुशास्ति धर्ममिति ।। नैतदस्ति । कथिताऽत्र पूर्वा संप्रदानसंज्ञा ।। तस्मात् त्रीण्येवोदाहरणानि । पौरवं गां याचते, माणवकं पन्थानं पृच्छति, पौरवं गां भिक्षते इति । अथ ये धातूनां द्विकर्मकास्तेषां किं कथिते लादयो भवन्त्याहोस्विदकथिते ? कथिते लादयः ।। कथिते लादिभिरभिहिते गुणकर्मणि का कर्तव्या ? कथिते लादयश्चेत्स्युः षष्ठीं कुर्यात्तदा गुणे । कथिते लादयश्चेत्स्युः षष्ठी गुणकर्मणि तदा कर्तव्या । दुह्यते गोः पयः याच्यते पौरवस्य कम्बल इति ।। कथम् ? अकारकं ह्यकथितात् अकारकं ह्येतद्भवति । किं कारणम् ? अकथितत्वात् । कारकं चेत्तु नाऽकथा ।। अथ कारकं नाऽकथितम् ।। अथ कारके सति का कर्तव्या ? कारकं चेद्विजानीयाद्यां यां मन्येत सा भवेत् ।। कारकं चेद्विजानीयाद्या या प्राप्नोति सा सा कर्तव्या । दुह्यते गोः पयः । याच्यते पौरवात्कम्बल इति । कथितेऽभिहिते त्वविधिस्त्वमतिर्गुणकर्मणि लादिविधिः सपरे । कथिते लादिभिरभिहिते त्वविधिरेष भवति । किमिदं त्वविधिरिति ? तव विधिस्त्वविधिः । त्वमतिः । किमिदं त्वमतिरिति ? तव मतिस्त्वमतिरिति । नैवमन्ये मन्यन्ते ।। कथं तर्ह्यन्ये मन्यन्ते ? गुणकर्मणि लादिविधिःसपरे। गुणकर्मणिलादिविधयो भवन्ति सह परेण योगेन ‐ गतिबुद्धिप्रत्यवासानार्थशब्दकर्माऽकर्मकाणामणि कर्ता स णौ 1|4|52 इति । ध्रुवचेष्टितयुक्तिषु चाऽप्यगुणे तदनल्पमतेर्वचनं स्मरत ।। ध्रुवयुक्तिषु चैष्टितयुक्तिषु चाऽप्यगुणे कर्मणि लादयो भवन्ति, एतदनल्पमतेराचार्यस्य वचनं स्मर्यताम् ।। अपर आह ‐ - प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् । प्रधानकर्मण्यभिधेये द्विकर्मणां धातूना कर्मणि लादयो भवन्तीति वक्तव्यम् । अजां नयति ग्रामम् । अजा नीयते ग्रामम् । अजा नीता ग्राममिति । अप्रधाने दुहादीनाम् अप्रधाने दुहादीनां कर्मणि लादयो भवन्तीति वक्तव्यम् । दुह्यते गौः पयः । ण्यन्ते कर्तुश्च कर्मणः ।। ण्यन्ते कर्तुश्च कर्मणो लादयो भवन्तीति वक्तव्यम् । गम्यते, यज्ञदत्तो ग्रामं देवदत्तेन । के पुनर्धातूनां द्विकर्मकाः ? नीवह्योर्हरतेश्चापि गत्यर्थानां तथैव च । द्विकर्मकेषु ग्रहणं द्रष्टव्यमिति निश्चयः ।। अजां नयति ग्रामम् । भारं वहति ग्रामम् । भारं हरति ग्रामम् । गत्यर्थानाम् ‐ गमयति देवदत्तं ग्रामम् । यापयति देवदत्तं ग्रामम् । सिद्धं वाऽप्यन्यकर्मणः । सिद्धं वा पुनरेतद्भवति । कुतः ? अन्यकर्मणः । अन्यस्याऽत्राऽजा कर्मान्यस्य ग्रामः । अजामसौ गृहीत्वा ग्रामं नयति । अन्यकर्मेति चेद्ब्रूयाल्लादीनामविधिर्भवेत् ।। अन्यकर्मेति चेद्ब्रूयाल्लादीनामविधिरयं भवेत् । अजा नीयते ग्राममिति । परसाधन उत्पद्यमानेन लेनाऽजाया अभिधानं न प्राप्नोति । कालभावाऽध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम् । कालभावाध्वगन्तव्या अकर्मकाणां धातूनां कर्मसंज्ञा भवन्तीति वक्तव्यम् । काल-मासमास्ते । मासं स्वपिति ।। भाव ‐ गोदोहमास्ते । गोदोहं स्वपिति ।। अध्वगन्तव्य-क्रोशमास्ते । क्रोशं स्वपिति । (देशश्च।।ट देशश्चाऽकर्मकाणां कर्मसंज्ञो भवतीति वक्तव्यम् । कुरून्स्वपिति पञ्ञ्चालान्स्वपिति । विपरीतं तु यत्कर्म तत्कल्म कवयो विदुः ।। किमिदं कल्मेति ? अपरिसमाप्तं कर्म कल्म । न वा अस्मिन्सर्वाणि कर्मकार्याणि क्रियन्ते । किं तर्हि ? द्वितीयैव । यस्मिंस्तु कर्मण्युपजायतेऽन्यद्धात्वर्थयोगाऽपि च यत्र षष्ठी । तत्कर्म कल्मेति च। कल्म नोक्तं धातोर्हि वृत्तिर्न रलत्वतोऽस्ति ।। एतेन कर्मसंज्ञा सर्वा सिद्धा भवत्यकथितेन । तत्रेप्सितस्य किं स्यात्प्रयोजनं कर्मसंज्ञायाः ।। यत्तु कथितं पुरस्तादीप्सितयुक्तं च तस्य सिद्ध्यर्थम् । इर्प्सितमेव तु यत्स्यात्तस्य भविष्यत्यकथितेन ।। अथेह कथं भवितव्यम्-नेताऽश्वस्य स्रुघ्नमिति, आहोस्विन्नेताऽश्वस्य स्रुघ्नस्येति ? उभयथा गोणिकापुत्रः ।। 51 ।।