॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|5
SK 304
1|4|5
वाऽऽमि
SK 304
सूत्रच्छेद:
वा - अव्ययम् , आमि - सप्तम्येकवचनम्
अनुवृत्ति:
इयङ्-उवङ्-स्थानौ अस्त्री 1/1 यू [1|4|3] नदी 1/1 [1|4|3] स्त्र्याख्यौ [1|4|3]  [1|4|4] (लुप्तप्रथमान्तनिर्देश:) - प्रथमाद्विवचनम्
अधिकार:
आकडारात् एका संज्ञा  [1|4|1]
सम्पूर्णसूत्रम्
इयङ्-उवङ्-स्थानौ यू स्त्र्याख्यौ आमि नदी वा, अस्त्री
सूत्रार्थ:
"स्त्री" शब्दं वर्जयित्वा अन्ये ईकारान्ताः / ऊकारान्ताः इयङ्-स्थानिनः / उवङ्स्थानिनः नित्यस्त्रीलिङ्गशब्दाः आम्-प्रत्यये परे विकल्पेन नदीसंज्ञकाः भवन्ति ।
नित्यस्त्रीलिङ्गवाचिनाम् ईकारान्त/उकारान्तानाम् इयङ्-उवङ्-स्थानीनाम् शब्दानाम् नेयङुवङ्स्थानावस्त्री 1|4|4 इत्यनेन नदीसंज्ञायाः निषेधे प्राप्ते वर्तमानसूत्रेण षष्ठी-बहुवचनस्य आम्-प्रत्यये सः निषेधः विकल्प्यते - इत्युक्ते, नदीसंज्ञा विकल्पेन भवति । अतः श्री, धी, भ्रू एतादृशानाम् शब्दानाम् "आम्" प्रत्यये परे विकल्पेन नदीसंज्ञा भवति । अतः एतेषां शब्दानाम् "आम्" प्रत्यये परे रूपद्वयं भवितुम् अर्हति । उदाहरणम् एतत् -

[नदीसंज्ञां स्वीकृत्य -]
श्री + आम् [षष्ठीबहुवचनस्य प्रत्ययः]
→ श्री + नुट् + आम् [ह्रस्वनद्यापो नुट् 7|1|54 इति नुट्-आगमः]
→ श्रीणाम् [अट्कुप्वाङ्नुम्व्यवायेऽपि 8|4|2 इति णत्वम्]

[नदीसंज्ञायाः अभावे -]
श्री + आम् [षष्ठीबहुवचनस्य प्रत्ययः]
→ श्र् + इयङ् + आम् [अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6|4|77 इति इयङ्-आदेशः ]
→ श्रियाम्

एतादृशम् श्रीशब्दस्य आम्-प्रत्यये परे द्वे रूपे भवतः - नुडागमम् कृत्वा "श्रीणाम्" तथा नुडागमं विना "श्रियाम्" । एवमेव भ्रू-शब्दस्य अपि "भ्रूणाम् / भ्रुवाम्" एते रूपे सिद्ध्यतः ।

ज्ञातव्यम् -
1. अस्मिन् सूत्रे "स्त्र्याख्यौ" इत्यस्य अनुवृत्तिः अस्ति । अतः केवलं नित्यस्त्रीलिङ्गवाचिनाम् शब्दानाम् विषये एव अस्य सूत्रस्य प्रसक्तिः अस्ति इति स्मर्तव्यम् । पुँल्लिङ्गवाचिनाम् शब्दानाम् विषये यद्यपि नेयङुवङ्स्थानावस्त्री 1|4|4 इत्यनेन नदीसंज्ञायाः निषेधः भवति, तथापि तस्य निषेधस्य आम्-प्रत्यये परे वर्तमानसूत्रेण विकल्पः न जायते । यथा - सुश्री + आम् = "सुश्रियाम्" इत्येव रूपम् सिद्ध्यति ।

2. स्त्री-शब्दस्य यू स्त्र्याख्यौ नदी 1|4|3 इत्यनेन नदीसंज्ञा भवति, तथा नेयङुवङ्स्थानावस्त्री 1|4|4 इत्यनेन तस्य निषेधः अपि न भवति । वर्तमानसूत्रे अपि "अ-स्त्री" इत्यस्य अपि अनुवृत्तिः क्रियते, अतः वर्तमानसूत्रेण अपि आम्-प्रत्यये परे स्त्री-शब्दस्य नदीसंज्ञा न विकल्प्यते । अतः आम्-प्रत्यये परे अपि स्त्री-शब्दस्य नदीसंज्ञा नित्या एव वर्तते इत्यर्थः । अतः "स्त्री + आम् → स्त्रीणाम्" इत्येव रूपं सिद्ध्यति ।
One-line meaning in English
Except for the word "स्त्री", any other word which is eligible for getting an इयङ्-आदेश or an उवङ्-आदेश optionally gets the term नदी in presence of the आम् प्रत्यय of षष्ठी बहुवचन.
काशिकावृत्तिः
पूर्वेण नित्ये प्रतिषेधे प्राप्ते आमि विकल्पः क्रिय्ते। इयङुवङ्स्थानौ यू आमि परतो वा नदीसंज्ञौ न भवतः। श्रियाम्, श्रीणाम्। भ्रुवाम्, भ्रूणाम्। अस्त्री इत्येव, स्त्रिणाम्।
संहितासाम्येऽपि षष्ठीबहुवचनस्यामो ग्रहणम्, न तु द्वितीयैकवचनस्य; तत्र नदीसंज्ञाकार्याभावात्। नापि सप्तम्यादेशस्यामो ग्रहणम्; तस्य नदीसंज्ञोत्तरकालं `ङेराम्नद्याम्नीभ्यः` 7|3|116 इत्याम्विधानात्। `श्रीणात्र` इति। नदीसंज्ञापक्षे `ह्यस्वनद्यापो नुट्` 7|1|54 इति नुट्। इह स्त्र्याख्यादिति वत्र्तते, विभक्तिसम्बन्धेन चेयं नदीसंज्ञा विधीयत इति विभक्तिसम्बन्धिन एव शब्दरूपस्य स्त्र्याख्यस्य नदीसंज्ञा युक्ता, तेन यत्रावयवस्त्र्याख्यः, तत्र नदीसंज्ञा न भवति-- अतिश्रियां ब्राआहृणानाम्, अतिभ्रुवां ब्राआहृणानामिति॥
संहितासाम्येऽपि षष्ठीबहुवचनस्य ग्रहणम्, न तु द्वितीयैकवचनस्य, नदीकार्याभावात्। नापि सप्तम्येकवचनस्य; तस्य नदीसंज्ञोतरकालम्ठ्णेóराम्नद्याम्नीभ्यःऽ इति विधानात्। न च ठामि इति विषयसप्तमी युज्यते;ठ्तस्मिन्निपिनिर्दिष्टेऽ इति वचनात्, तदाह-आमि परतो वा नदीसंज्ञौ न भवत इति। श्रीणामिति । नदीसञ्ज्ञापक्षे ठ्ह्रस्वनद्यापो नुट्ऽ॥
सिद्धान्तकौमुदी
इयङुवङ्स्थानौ स्त्रयाख्यौ यू आमि वा नदीसंज्ञौ स्तो नतु स्त्री । श्रीणाम् । श्रियाम् । श्रियाम् । श्रियि । श्रियाम् ॥ प्रधीशब्दस्य तु वृत्तिकारादीनां मते लक्ष्मीवद्रूपम् । पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति स्वीकारात् । लिङ्गान्तरानभिधायकत्वं तदिति कैयटमते तु पुंवद्रूपम् । प्रकृष्टा धीरिति विग्रहे तु लक्ष्मीवत् । अमि शसि च प्रध्यं प्रध्य इति विशेषः । सुष्ठु धीर्यस्याः सुष्ठु ध्यायति वेति विग्रहे तु वृत्तिमते सुधीः श्रीवत् । मतान्तरे तु पुंवत् । सुष्ठु धीरिति विग्रहे तु श्रीवदेव । ग्रामणीः पुवत् । ग्रामनयनस्योत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियामप्रवृत्तेः । एवं खलपवनादेरपि पुंधर्मत्वमौत्सर्गिकं बोध्यम् । धेनुर्मतिवत् ॥
वाऽऽमि। `यूस्त्र्याख्यौ नदी`त्यनुवर्तते। `नेयङुवङ्स्थानावस्त्री`ति नञ्वर्जनमनुवर्तते। वा आमीति च्छेदः। अमि नदीकार्याऽभावात्। तदाह--इयङुवङ्स्थानावित्यादिना। श्रीणामिति। नदीत्वपक्षे `ह्रस्वनद्यापः` इति नुट्। श्रियामिति। नदीत्वाऽभावे तु इयङेव। श्रियोः श्रीषु। प्रधीशब्दस्य त्विति। प्रध्यायतीत्यर्थे `ध्यायतेः संप्रसारणं चे`ति क्विपि यकारस्य संप्रसारणे इकारे `संप्रसारणाच्चे`ति पूर्वरूपे `हलः` इति दीर्घे निष्पन्नस्य प्रधीशब्दस्य वृत्तिकारहरदत्तादिमते लक्ष्मीवद्रूपाणि। तत्र `एरनेकाचः` इति यणा इयङो बाधितत्वेन इयङ्स्थानत्वाऽभावान्नेयङुवङ्स्थानौ` इति नदीत्वनिषेधाऽभावा `द्यू स्त्र्याख्यौ` इति नित्यनदीत्वे सति `अम्बार्थे`त्यादिनदीकार्यप्रवृत्तेरिति भावः। तत्र अमि शसि च पूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वा यणेवेति विशेषः। ननु प्रध्यायतेः क्विपि निष्पन्नस्य प्रधीशब्दस्य प्रकर्षेण ध्यातृत्वप्रवृत्तिनिमित्तकस्य लिङ्गत्रयसाधारणत्वान्नित्यस्त्रीलिङ्गत्वाऽभावान्नदीत्वाऽभावात्कथं नदीकार्याणीत्यत आह--पदान्तरं विनापीति। पदान्तरसमभिव्याहाराऽभावेऽपि यः शब्दः स्त्रीरूपार्थबोधकः सः नित्यस्त्रीलिङ्ग इति विवक्षितः। अत एव ब्राआहृण्यामाधीशब्दस्य आध्यै इति रूपमास्थितं भाष्ये `स्त्रियामेव यो वर्तते स एव नित्यस्त्रीलिङ्ग` इत्यभ्युपगमे तु तदसङ्गतिः स्पष्टैव, आधीशब्दस्य क्रियाशब्दतया त्रिलिङ्गत्वात्। अतः पदान्तरं विनापि स्त्रियां वर्तमानत्वमेव नित्यस्त्रीत्वम्। इदं तु प्रधीशब्दस्य आध्यै इति रूपमास्थितं भाष्ये। `स्त्रियामेव यो वर्तते स एव नित्यस्त्रीलिङ्गः` इत्यभ्युपगमे तु तदसङ्गतिः स्पष्टैव, आधीशब्दस्य क्रियाशब्दतया त्रिलिङ्गत्वात्। अतः पदान्तरं विनापि स्त्रियां वर्तमानत्वमेव नित्यस्त्रीत्वम्। इदं तु प्रधीशब्दस्य संभवत्येव, प्रकर्षेण ध्यातृत्वं निमित्तीकृत्य स्त्रियां वृत्तिसम्भवात्। परन्तु प्रधीरित्युक्ते पुंसः स्त्रियाश्च प्रतीतिप्रसक्तावन्यतरव्यवच्छेदाय `ब्राआहृणः` `ब्राआहृणी`त्यादिपदान्तरसमभिव्याहारापेक्षा। नैतावतास्य पदान्तरसमभिव्याहाराऽभावे स्त्रियां वृत्तिरपैति। अतः प्रधीशब्दस्य नित्यस्त्रीलिङ्गत्वान्नदीकार्यं निर्बाधमिति भावः। लिङ्गान्तरेति। `स्त्रीलिङ्गान्यलिङ्गानभिधायकत्वमेव नित्यस्त्रीत्व`मिति कैयटमतम्। `स्त्रीविषायावेव यौ यू तयोरेव नदीसंज्ञे`ति `यू स्त्र्याख्यौ` इत्यत्र भाष्यादिति तदाशयः।
वामि। `यू स्त्र्याख्यौ नदी` `नेयहुवङ्स्थानावस्त्री`त्यनुवर्तनादाह---इयङुवङ्स्थानावित्यादिना। यद्यपि `ने ति प्रकृतो निषेधोऽनेन विकल्प्यते तथापि निषेधविकल्पे विधिविकल्प एव फलतीति स एव सूत्रार्थ उचित इत्याशयेनाह---वा नदीसंज्ञौ स्त इति। `ङिति ह्रस्वश्चे`ति सूत्रेऽप्येवमेव। प्रधीशब्दस्य त्विति। `एरनेकाच`इचि यणा इयङो बाधनात् `नेयङुवङ्स्थाना`विति निषेधोऽत्र न प्रवर्तते। यत्र त्वपवादेनेयङुवङौ बाध्यते तत्र न निषेध इत्याशयेन व्याचष्टे---लक्ष्मीवद्रूपमिति। `अमि शसि च विशेषं `इत्यनुपदमेव वक्ष्यति। पुंवद्रूपमिति। अयं च मतभेदः `प्रकृष्टा धीर्यस्याः``प्रकर्षेण ध्यायती`ति वा विग्रहे बोध्यः। लक्ष्मीवदिति। `मतद्वयेऽपी`ति शेषः। सुष्ठु धीर्यस्या इति। नन्वस्मिन्विग्रहे कैयटमते सुधीशब्दस्य नित्यस्त्रीत्वाऽभावेऽपि धीशब्दस्य नित्यस्त्रीत्वा `त्प्रथमलिङ्गग्रहणं चे`ति सुधीशब्दः श्रीवदेव भवति, नतु पुंवदिति चेदत्राहुः----`नेयङुवङ्स्थानावस्त्री`ति धीशब्दे नदीसंज्ञानिषेधात्सुधीशब्दे `प्रथमलिङ्गग्रहणं चे`त्यस्याऽप्रवृत्तिः, तथा `वृत्तिमते`इति ग्रन्थः स्वरसत सङ्गच्छते इति। मतान्तर इति। `लिङ्गान्तरानभिधायकत्वं त`दिति कैयटमते इत्यर्थः। श्रीवदेवेति। बुद्धिवाचकधीशब्दस्य नित्यस्त्रीत्वान्मतद्वयेऽपि श्रीवदेवेत्यर्थः। (264) स्त्रियां च।7.1.96।
लघुसिद्धान्तकौमुदी
इयङुवङ्स्थानौ स्त्र्याख्यौ यू आमि वा नदीसंज्ञौ स्तो न तु स्त्री। श्रीणाम्, श्रियाम्। श्रियि, श्रियाम्॥ धेनुर्मतिवत्॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!