॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|49
SK 535
1|4|49
कर्तुरीप्सिततमं कर्म
SK 535
सूत्रच्छेद:
कर्तुः - षष्ठ्येकवचनम् , ईप्सिततमम् - प्रथमैकवचनम् , कर्म - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कारके  [1|4|23]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet. It will be updated eventually, but if you would like us to update this sutra on priority, please send a message using the link at the bottom of this page. Thanks!
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
कर्तुः क्रियया यदाप्तुम् इष्टतमं तत् कारकं कर्मसंज्ञं भवति। कटं करोति। ग्रामं गच्छति। कर्तुः इति किम्? माषेष्वश्वं बध्नाति। कर्मण ईप्सिता माषाः, न कर्तुः। तम् अब्ग्रहणं किम्? पयसा ओदनं भुङ्क्ते। कर्म इत्यनुवर्तमाने पुनः कर्मग्रहणम् आधारनिवृत्त्यर्थम्। इतरथा आधारस्य एव हि स्यात् गेहं प्रविशति इति। ओदनं पचति, सक्तून् पिबति इत्यादिषु न स्यात्। पुनः कर्मग्रहणात् सर्वत्र सिद्ध भवति। कर्मप्रदेशाः कर्मणि द्वितीया 2|3|2 इत्येवम् आदयः।
`कर्त्तुः क्रियया` इति। एतेन कर्त्तुरिति नेप्सिततमापेक्षया `क्तस्य च वर्तमाने` 2|3|67 इत्यनेनेयं षष्ठी, अपि तु क्रियापेक्षया शेषलक्षणैवेति दर्शयति। ननु च नेह क्रियोपात्ता, तत्कथं तदपेक्षया षष्ठी प्रयुज्यते? यद्यपि नोपात्ता, तथापि कर्त्तुः क्रियापेक्षत्वात् कर्त्तृशब्दोऽयं सम्बन्धिशब्द इति कर्त्तृसम्बन्धिनीं क्रियामुपस्थापयतीत्यदोषः। ईप्सितशब्दो ह्रस्ति रूढिशब्दः-- ईप्सितोऽभिप्रेत इति, अस्ति च क्रियाशब्दः-आप्तमिष्ट ईप्सित इति ; तत्रह क्रियाशब्दो गृह्रते, नेतरः; न हि रूढिशब्दस्य क्रियया कर्त्तृसाध्यया सम्बन्ध उपपद्यते। `ईप्सित` इति। `आप्लृ व्याप्तौ` (धातुपाठः-1260) सन्, द्विर्वनचम्, `आप्ज्ञप्यृधामीत्` 7|4|55 इतीत्त्वम्। `अत्र लोपोऽभ्यासस्य` 7|4|58 इत्यभ्यासलोपः। ईप्स इति स्थिते, क्तप्रत्यये कृते, इटि च `अतो लोपः` 6|4|48 इत्यकारलोपे चेप्सितशब्दः सम्पद्यते। तेनार्थद्वयमिहोपात्तम्-- प्रकृत्यर्थः, प्रत्ययार्थश्च। तत्राप्तुमित्यनेन प्रकृत्यर्थं दर्शयति,इष्टतममित्यनेन प्रत्ययार्थम्।`कर्मणः` इत। अआस्य। अत्र बन्धक्रियया आप्तमिष्टतमत्वात् कर्मत्वम्। स हि भक्षणक्रियया माषानाप्तुमिच्छति। `पयसौदनं भङ्क्ते` इति। असति हि तमब्ग्रहणे पयसोऽपि स्यात्। तदपि कर्त्तृर्भुजिक्रियया व्याप्तुमिष्टं भवति। तमब्ग्रहणे तु सति न भवत्यतिप्रसङ्गः; प्राधान्यादौदनस्यैवेप्सिततमत्वात्। प्राधान्यं त्वोदनस्य संस्कार्यत्वात्, पयसस्त्वप्राधान्यं संस्कारकत्वात्। `कर्मेत्यनुवत्र्तमाने` इति। `अधिशीङस्थासां कर्म` 1|4|46 इत्यतः। `पुनः`इत्यादि। पूर्व कर्मग्रहणमाधारेण सम्बद्धम्; अतस्तदनुवृत्तौ तस्यानुवृत्तिः स्यादत आधारनिवृत्त्यर्थं पुनः कर्मग्रहणं क्रियते। यदि पुनराधारोऽनुवत्र्तते, ततः किं स्यादित्यत्राह-- `आधारस्यैव हि स्यात्` इति। `हि` शब्दो यस्मादर्थे। यस्मास्यादित्याह-- `गेहम्` इत्यादि। आधारानुवृत्तौ तु यत्र न भवति तद्दर्शनयितुमाह-- `ओदनं पचति` इत्यादि। आदिशब्देनौदनं भङ्क्तं इत्येवमादेग्र्रहणम्। अथ नदी कूलं कर्षतीत्यादौ कथं कर्मसंज्ञा? कथञ्च न स्यात्? नद्यादेरचेतनत्वात्, अचेतनानामीप्साया असम्भवात्, नैतदस्ति; अत्र नदीति पदान्तरसम्बन्दादीप्साया अभावोऽचेतनस्यापि भावः प्रतीयते। न च पदसंस्कारे पदानतरसम्बन्धगम्योऽर्थ उपयुज्यते, तेन कूलं कर्षतीत्यादाविच्छामात्रमाश्रिता व्याप्तिः, कर्म च संस्क्रियते। यद्यपि पश्चान्नद्या सह सम्बन्धादचेतनत्वमिच्छाया अभावश्च प्रतीयते, तथापि च तद्बहिरङ्गत्वादन्तरङ्गसंज्ञाकार्य न शक्नोति निवर्तयितुम्। अनेनैव न्यायेन यत्र व्याप्तिर्नास्ति,इच्छामात्रं च केवलम्, तत्रापि कर्मसंज्ञा भवति, यथा- ग्रामं गनतुमिच्छामि न च मे गमनशक्तिरस्तीति। तच्च कर्म त्रिविधम्-- निर्वत्र्यम्, विकार्यम्, प्राप्यञ्च। तत्र निर्वर्त्त्यं यदसकदेवोत्पाद्यते, यस्य जन्म क्रियते, तन्निर्वर्त्त्यम् , यथा-- कटं करोति, कटो ह्रसन्नेव क्रियते। विकार्यं यल्लब्धसत्ताकमवस्थान्तरमापाद्यते केवलं भस्माख्यामवस्थामापाद्यन्ते। प्राप्यं यत्र व्याप्तिव्यितरेकेण क्रियाकृता विशेषा न विभाव्यन्ते, यथा-- आदित्यं पश्यतीति। न हि दृशिक्रियया व्याप्यमानस्य सवितुः क्रियाकृतविशेष उपलभ्यत इति प्राप्यमेतत् कर्म॥
कर्तुः क्रिययेत्यादि। कर्तुर्यदाप्तुमिष्टतममित्यन्वयः, कर्तुरिति चेप्सितापेक्षाया ठ्क्तस्य च वर्तमानेऽ इति कर्तरि षष्ठी। ईप्सित इति ठ्मतिबुद्धिऽ इत्यादिना वर्तमाने क्तः। क्रिययेति करणे तृतीया, कर्ता हि नाम यः क्रियामनुतिष्ठति तेन कर्तुर्यदिष्टतममित्युक्ते तत्क्रियावेशादसौ कर्ता भवति तया करणभूतयेति गम्यते, कर्त्रा यदाप्तुमिष्यते आत्मीयया क्रिययेत्यर्थः। ईप्सितशब्दोऽयमस्त्यभिप्रेते रूढः-ईप्सितोऽभिप्रेत इति; अस्ति क्रियाशब्दः- ठाप्लृव्याप्तौऽ सन्, ठाप्ज्ञपृधामीत्ऽ, आप्तुमिष्टमीप्सितमिति; तत्र क्रियाशब्दस्येह ग्रहणमिति दर्शितम्--आप्तुमिष्टतममिति। कर्मण इति। अश्वस्य। स हि भक्षणक्रियया माषानाप्तुमिच्छति। यद्येवम्, यथाश्वस्य वस्तुतो भक्षणे कर्तृत्वे सत्यपि सम्प्रति बन्धनं प्रति कर्मत्वेन विवक्षितत्वादकर्तृत्वाद् माषाणां कर्मसंज्ञया न भवति, तथा सार्थाद्धीयत इत्यत्रापि हीयमानं सार्थो जहातीति वस्तुवृतेन त्यागेन कर्तुरपि सार्थस्य संप्रत्यपादानरूपेण विवक्षितत्वाद् अकर्तृत्वात्कर्मणि यगात्मनेपदे न स्याताम्। अत्राहुः- कर्मकर्तर्यत्र यगात्मनेपदे, कथम्? जहातिरयं गमनायां वर्ततेदेवदतं सार्थो जहाति, अपगमयतीत्यर्थः, एषैव च सार्थस्यापगमना यदुत क्षुदुपघातादिना देवदतस्यापगमे तत्समर्थाचरणम्। यदा तु क्षुधादिना स्वयमेवापगच्छति, तदा कर्मकर्तृ त्वम्, तदायं प्रयोगः। ततश्च हीयत इति सार्थः स्वयमेवापगच्छतीति, पुनः कुतो हीयते? इत्यपेक्षायां सारर्थेन सम्बन्ध इति। तमब्ग्रहणं किमिति। ईप्सिततमस्यापीप्सितत्वसम्भवाद् उदाहणसिद्धिं मन्यते। पयसौदनं भुङ्क्त इति। करणसंज्ञा तु दात्रेण लुनातीत्यादौ सावकाशा, न हि दात्रं लवनेप्सितम्। ठ्तथा युक्तम्ऽ इत्यनेनापि न भवति, द्वेष्योदासीनप्राप्ययोस्तत्र गहणात्। सत्यप्यत्र पयसो भुजिक्रियायां प्रकृष्टोपकारकत्वे ईप्सायाः प्रकर्षाभावः। यत्र तर्हि पय एवेप्सिततमम्, तत्र प्राप्नोति, तद्यथा कश्चित् कञ्चिदाह-सिद्धं भुज्यतामिति, स आह-प्रभूतं भुक्तमस्माभिरिति, इतर आह-पयो भविष्यतीति, अपरस्त्वरमाण आह-पयसा खलु भुञ्जीयेति, अत्र प्राप्ताप्राप्तविवेकेन पयस एवेप्सिततमत्वं न त्वोदनस्य, अत्राप्योदनमेवेप्सिततमम्; पयसस्तु संस्कारकत्वात्करणत्वम्। न त्वस्य केवले गुणे आदरः, किं तर्हि? तत्संस्कृते ओदने, न ह्यसौ केवलस्य पयसः पानेन संतुष्यतीति। यदि तमब्ग्रहणं क्रियते, पयसौदनं भुङ्क्त इत्यत्रैव स्यात्, पचत्योदनमित्यादौ न स्यात्, न हीप्सिततमं युक्तम्, असति प्रतियोगिनि वस्तु यतुल्यजातीयं तदेव प्रतियोगितां भजते। कारकं चात्र न किञ्चिदिष्टमीप्सितं पयसस्त्वीप्स्यमानात्वाद् युज्यते प्रतियोगिता,नैष दोषः; अत्रापि क्रियापेक्षः प्रकर्षः, आदौ हि कर्ता फलार्थ क्रियामभीप्सति, अतः फलार्थमिष्यमाणत्वादीप्सिता क्रिया। फलं तु स्वरूपेणेष्यमाणमीप्सिततमं क्रियाया अपि कर्मत्वं संदर्शनादिविशेषान्तरस्पर्धया। यत्र तर्हि फलाभावस्तत्र न स्यात्, क्व च फलाभावः ? विकार्ये-काष्ठनि भस्मीकरोतीति, न हि काष्ठानि फलरूपाणि। मा भूवन् तानि स्वरूपेण फलानि, भस्मात्मना तु फलानि? प्राप्ये तर्हि न स्यात्--आदित्यं पश्यति, हिमवन्तं श्रृणोतीति, न ह्यत्र क्रियया कश्चिदतिशयो जन्यते। अत्राप्यतिशयो जन्यते--प्राकट।ल्ं नाम? यो हि यं पश्यति शृणोति वा तस्यासौ प्रकटो भवति, प्रतिपत्राद्यतिरिक्तपुरुषापेक्षया तु विशेषोनास्तीत्युच्यते। यद्वा--तमब्ग्रहणेन यत्रापकृष्टेच्छा तदेव व्यावर्त्यते, तेन पश्यतीत्यादावादित्यादीनामपि प्रतियोगिनोऽसत्वेनापकर्षाभावाद् भविष्यति, अत्र च लिङ्गम् ठ्ललाटकुक्कुट्यौ पश्यतिऽ इति। कर्मेत्यनुवर्तमान इति। अधिशीङ्स्थासामित्यतः। आधारनिवृत्यर्थमिति। प्राच्यं कर्मग्रहणामाधारेण संबद्धमिति तदनुवृतौ तस्याप्यनुवृत्तिः स्यादिति भावः। आधारानुवृतौ को दोषस्तत्राह--आधारस्यैव हि स्यादिति। क्वेत्याह--गेहमित्यादि। यत्र तु न स्यातदाह--ओदनं पचतीत्यादि। एतच्चेप्सिततमं कर्म त्रिविधम्--निर्वर्त्यम्, विकार्यम्, प्राप्यमिति। तथायुक्तमपि द्विविधम्--द्वेष्यम्, इतरच्च। ठकथितं चऽ इत्यपरम्। संज्ञान्तरप्रसङ्गे चान्यत्--ठ्दिवः कर्म चऽ इत्यादि। तदेवं सप्तविधं कर्म। उक्तं च-- निर्वर्त्य च विकार्यं च प्राप्यं चेति त्रिधा मतम्। तच्चेप्सिततमं कर्म चतुर्धाऽन्यतु कल्पितम्॥ औदासीन्येन यत्प्राप्यं यच्च कर्तुरनीप्सितम्। संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम्॥ इति। तथा-- यदसत्, जायते सद्वा जन्मना यत् प्रकाश्यते। तन्निर्वर्त्यं विकार्यं तु कर्म द्वेधा व्यवस्थितम्॥ प्रकृत्युच्छेदसम्भूतं किञ्चित्काष्ठादि भस्मवत्। किञ्चिद् गुणान्तरोत्पत्या सुवर्णादिविकारवत्॥ क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते। दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ॥ इति। तत्र निर्वर्त्यम्--घट्ंअ करोतीति, व्यक्त्यभिप्रायोण जन्मसामान्याभिप्रायेण प्रकाशनम्। ननु च यदि घटः? न कर्तव्यः; अथ कर्तव्यः? न घटः ; इत्यनुपपन्न घट करोतीति? नैष दोषः; तथाविधं वस्तु करोति यस्य निष्पन्नस्य घट इति संज्ञेति--अयमत्रार्थः। एवमोदनं पयतीत्यादावपि। विकार्यम्--काष्ठानि भस्म करोति, सुवर्णं कुण्डलं करोतीति। प्राप्यम्--आदित्यं पश्यतीति। न ह्यत्र प्रत्यक्षेण अनुमानेन वा क्रियाजन्यः कश्चिदतिशयो गम्यते, यथा--निर्वर्त्यविकार्ययोः रज्जुं सृजति, काष्ठ्ंअ दहति, देवदतं रोषयतीति। कारकत्वं तु प्राप्यस्याभासोपगमादिभिः, आदित्यो ह्यभासमुपगच्छति, यतो द्दश्यते अभिव्यक्तिमुपयाति, यतो व्यक्तमुपलभ्यते सहते च दर्शनम्, यतः शक्यते द्रष्टुंअ तदेवाभासोपगम; व्यक्तिः, सोढत्वमिति कर्मणो विशेषाः प्राप्यमाणस्य क्रियासिद्धौ विवक्षिताः॥
सिद्धान्तकौमुदी
कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात् । कर्तुः किम् ? माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषाः न तु कर्तुः । तमब्ग्रहणं किम् ? पयसा ओदनं भुङ्क्ते । कर्मेत्यनुवृत्तौ पुनः कर्मग्रहणमाधारनिवृत्त्यर्थम् । अन्यथा गेहं प्रविशतीत्यत्रैव स्यात् ॥
कारके इत्यधिकृत्येति। `संज्ञा वक्ष्यन्ते` इति शेषः। `क्रियाजनकं कारकं, करोति क्रियां निर्वर्तयती`ति भाष्ये व्युत्पत्तिदर्शनात्। `ब्राआहृणस्य पुत्रं पश्यती`त्यत्र ब्राआहृणस्याऽन्यथासिद्धत्वान्न कारकत्वम्। कर्तुरीप्सित। `कारके` इत्यनुवृत्तं प्रथमया विपरिणम्यते। आप्तुमिष्यमाणम्-ईप्सितम्। `आप्लृ व्याप्तौ`, अस्मात्सन्नन्ता`न्मतिबुद्धिपूजार्थेभ्यश्चे`ति वर्तमाने क्तः। मतिरिच्छा, बुद्धेः पृथग्ग्रहणात्। `क्तस्य च वर्तमाने` इति कर्तरि षष्ठी। अतिशयेनेप्सितमीप्सिततमम्। धातूपात्तव्याव्यापाराश्रयः कर्ता। केनाऽऽप्तुमित्याकाङ्क्षायां कर्तृविशेषणीभूतव्यापारेणेत्यर्थाल्लभ्यते। तत्फलितमाह--कर्तुः क्रिययेत्यादिना। क्तप्रत्ययोपात्तं वर्तमानत्वं तु न विवक्षितम्। तेन कटं करोति कृतवान् इत्यादौ नाव्याप्तिः। आप्तिः=संबन्धः। एवं च कर्त्रा स्वनिष्ठव्यापारप्योज्यफलेन संबन्द्धुमिष्यमाणमित्यर्थः। यता `तण्डुलान्पचती`त्यत्र विक्लित्त्यनुकूलव्यापारः पचेरर्थः। तप्तोदकप्रस्वेदनकृतप्रशिथिलावयवकत्वात्मकं मृदुविशदत्वं विक्लित्तिः, तदनुकूलव्यापारोऽधिश्रयणोदकासेचनैधोऽपकर्षणप्रज्वलनादिरूप इति `कारके` इत्यादिसूत्रभाष्ये स्पष्टम्। अत एव `फलव्यापारयोर्धातु`रिति सिद्धान्तः। तथाच तण्डुलानधिश्रयणादिव्यापारेण विक्लेदयतीत्यर्थः। अधिश्रयणादिरूपकर्तृव्यापारप्रयोज्य विक्लित्तिरूपफलाश्रयत्वात्तण्डुलानां कर्मत्वम्। ननु कर्तृग्रहणं व्यर्थम्। नच व्यापारलाभाय तदिति वाच्यं, केना प्तुमित्याकाङ्क्षायां कारकाधिकारादेव तल्लाभादिति पृच्छति--कर्त्तुः किमिति। माषेष्व�आं वध्नातीति। माषेषु भक्षणाय प्रवृत्त्युन्मुखमुदरव्यथाभयात्तद्भक्षणान्निवर्तयितुमन्यत्र बध्नातीत्यर्थः। अत्र माषाणां कर्मत्वनिवृत्त्यर्थं कर्तृग्रहणमिति भावः। कर्तृ ग्रहणे कृते तुनोक्तदोष इत्याह--कर्मण #इति। बन्धनकर्मीभूतस्या�आस्यैवात्र माषा ईप्सिता नतु बन्धनकर्तुः, अ�आरक्षणस्यैव तदपेक्षि तत्वादित्यर्थः। तमब्ग्रहणं किमिति। तमबन्धमीप्सिततममित्येतत्किमर्थं कर्तृरिद्देश्यं कर्मे`त्येवास्त्विति प्रश्नः। पयसा ओदनं भुङ्क्ते इति। पयसा मिश्रमित्यर्थः। यद्यप्यत्र भोक्तुरोदन एव पयसा मिश्र उद्देश्यो, नतु केवलं पयो, नापि केवल ओदनः, नह्यसौ केवलपयःपानेन तुष्यति, नापि केवलौदनेन। तथापि यदा भुक्तवानेन पयोलिप्सया पुनरोदनभोजने प्रवर्तते तदेदं प्रत्युदाहरणम्। तत्र यद्यपि पय एव उद्देश्यं भुजिक्रियां प्रति, तथापि भुजिक्रियाकर्मीभूतमोदनं प्रति मिश्रमसाधनतया गुमत्वेनैव तदुद्देश्यं, नतु भोज्यत्वेन। अतस्तत्र पयसो गुणत्वेन ओदनस्य तत्संस्कार्यतया उद्देश्यत्वादोदनस्यैव ईप्सिततमत्वम्, नतु पयसोऽपि। तस्याप्योदन एव ईप्सिततमः, गुणेष्वस्य नानुरोध इति भावः। नच तमब्ग्रहणं किमर्थम्, `कर्तुरीप्सितं कर्म` इत्येबास्त्विति वाच्यम्, `अग्नेर्माणवकं वारयती`त्यत्र मामवकस्य `वारणार्थानामीप्सितः` इत्यपादानत्वनिवृत्त्यर्थत्वादिति प्रकृतसूत्रभाष्ये स्थितम्। तदेतद्वारणार्थानामिति सूत्रव्याख्यावसरे स्फुटीभविष्यति। प्रचीनैस्तु कैश्चित्,--`तमब्ग्रहणं किम्, पयसा ओदनं भुङ्क्ते` इति ग्रन्थः केवलतमब्ग्रहणप्रयोजनपरतया व्याख्यातः। ते भाष्यविरुद्धत्वादुपेक्ष्याः। ननु `अधिशीङ्?स्थासां कर्मे`त्यतोऽनुवृत्तेरिह कर्मग्रहणं व्यर्थमित्यत आह--कर्मग्रहणमाधारेति। अधिशीङित्यत्र हि आधार इत्यनुवर्तते। इहापि तदनुवृत्तिर्माभूदिति कर्मग्रहणमित्यर्थः। ननु `हरिं भजती`त्यादावसंभवादेव तदनुवृत्तिर्न भविष्यतीत्यत आह--अन्यथेत्यादि। हरिं भजतीत्यादौ न स्यादित्येवकारार्थः।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात्॥
महाभाष्यम्
कर्तुरीप्सिततमं कर्म तमग्रहणं किमर्थम् ? कर्तुरीप्सितं कर्मेतीयत्युच्यमाने इहाऽग्नेर्माणवकं वारयतीति माणवकेऽपादानसंज्ञा प्रसज्येत। नैष दोषः । कर्मसंज्ञाऽत्र बाधिका भविष्यति । अग्रावपि तहि बाधिका स्यात् । इह पुनस्तमग्रहणे क्रियमाणे तदुपपन्नं भवति यदुक्तं वारणार्थेषु कर्मग्रहणानर्थक्यं कर्तुरीप्सिततमं कर्मेति वचनादिति । इहोच्यते ‐ ओदनं पचतीति, यद्योदनः पच्येत द्रव्यान्तरमभिनिर्वर्तेत । नैष दोषः । तार्दथ्यात्ताच्छब्द्यं भविष्यति ‐ ओदनार्थास्तण्डुला ओदन इति । अथेह कथं भवितव्यम् ‐ तण्डुलानोदनं पचतीति, आहोस्वित् ‐ तण्डुलानामोदनं पचतीति ? उभयथाऽपि भवितव्यम् । कथम् ? इह हि तण्डुलानोदनं पचतीति द्व्यर्थः पचिः, तण्डुलान्पचन्नोदनं निर्वर्तयतीति । इहेदानीं तण्डुलानामोदनं पचतीति द्व्यर्थश्चैव पचिर्विकारयोगे च षष्ठी,तण्डुलविकारमोदनं निर्वर्तयतीति । इह कश्चित्कंचिदामन्त्रयते ‐ सिद्धं भुज्यतामिति । स आमन्त्र्यमाण आह ‐ प्रभूतं भुक्तमस्माभिरिति । आमन्त्रयमाण आह ‐ दधि खलु भविष्यति, पयः खलु भविष्यति । आमन्त्र्यमाण आह ‐ दध्ना खलु भुञ्ञ्जीय, पयसा खलु भुञ्ञ्जीयेति । अत्र कर्मसंज्ञा प्राप्नोति । तद्धि तस्येप्सिततमं भवति । तस्याप्योदन एवेप्सिततमः। न तु गुणेष्वस्याऽनुरोधः । तद्यथा, ‐ भुञ्ञ्जीयाहमोदनं यदि मृदुविशदः स्यादिति । एवमिहापि दधिगुणमोदनं भुञ्ञ्जीय, पयोगुणमोदनं भुञ्ञ्जीयेति । इर्प्सितस्य कर्मसंज्ञायां निर्वृत्तस्य कारकत्वे कर्मसंज्ञाप्रसङ्गः क्रियेप्सितत्वात् ।। 1 ।। इर्प्सितस्य कर्मसंज्ञायां निर्वृत्तस्य कारकत्वे कर्मसंज्ञा न प्राप्नोति । गुडं भक्षयतीति । किं कारणम् ? क्रियेप्सितत्वात् । क्रिया तस्येप्सिता । न वोभयेप्सितत्वात् ।। 2 ।। न वैष दोषः । किं कारणम् ? उभयेप्सितत्वात् । उभयं हि तस्येप्सितम् । आतश्चोभयं यस्य हि गुडभक्षणे बुद्धिः प्रसक्ता भवति नासौ लोष्टं भक्षयित्वा कृती भवति ।। यद्यपि तावदत्रैतच्छक्यते वक्तुम्, ये त्वेते राजकर्मिणो मनुष्यास्तेषां कश्चित्कंचिदाह ‐ कटं कुर्विति । स आह ‐ नाहं कटं करिष्यामि, घटो मयाऽऽहृतःथ्द्य;ति । तस्य क्रियामात्रभीप्सितम् ।। यद्यपि तस्य क्रियामात्रमीप्सितं, यस्त्वसौ प्रेषयति तस्योभयमीप्सितमिति ।। 49 ।।