॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|48
SK 544
1|4|48
उपान्वध्याङ्वसः
SK 544
सूत्रच्छेद:
उपान्वध्याङ्वसः - षष्ठ्येकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कारके  [1|4|23]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet. It will be updated eventually, but if you would like us to update this sutra on priority, please send a message using the link at the bottom of this page. Thanks!
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
उप अनु अधि आ इत्येवं पूर्वस्य वसतेराधारो यः, तत् कारकं कर्मसंज्ञं भवति। ग्रामम् उपवसति सेना। पर्वतम् उपवसति। ग्रामम् अनुवसति। ग्रामम् अधिवसति। ग्रामम् आवसति। वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः। ग्रामे उपवसति। भोजननिवृत्तिं करोति इत्यर्थः।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
वसरेश्यर्थस्येति। अर्थशब्दो निवृत्तिवचनः, व्यधिकरणे षष्ठयौ, अश्यर्थस्य यो वाचकस्तस्येत्यर्थः। भोजननिवृत्तिवाचिन इति यावत्। यद्वा--शीङेऽर्थः श्यर्थः, न श्यर्थस्तस्य, अस्थानार्थस्येत्यर्थः। स्थानेऽपि हि शीङ् वर्तते-जलाशयमिति। तेन ग्रामे तिष्ठतीत्यत्रार्थे ग्राममुपवसतीति भवति। अस्थानार्थत्वे ग्राम उपवसतीति, स तर्हि प्रतिषेधो वक्तव्यः? न वक्तव्यः, कथम्? नात्रोपपूर्वस्य वसेः ग्रामोऽधिकरणम्, किं तर्हि? अनुपसर्गस्य--ग्रामे वसन् त्रिरात्रमुपवसति। एतदुक्तं भवति--विशिष्टाधारावस्थितत्वेन निश्चिते देवदते भोजननिवृत्तिविशिष्टकालं प्रतिपादयितुमिदं प्रयुज्यते--ग्राम उपवसतीति, तत्रान्तरङ्गत्वात् प्रतीयमानवसिक्रियापेक्षो ग्रामस्याधिकरणभावः। उपवसनं तु स्वरूपेणैव कालमपेक्षत इति कालेनैवान्तरङ्गः सम्बन्धः, ग्रामादिना तु बहिरङ्ग इत्यप्रयुक्तमपि त्रिरात्रादिकं कर्म भवति॥
सिद्धान्तकौमुदी
उपादिपूर्वस्य वसतेराधारः कर्म स्यात् । उपवसति अनुवसति अधिवसति आवसति वा वैकुण्ठं हरि ॥अभुक्त्यर्थस्य न (वार्तिकम्) ॥ वने उपवसति ॥ ।उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते (वार्तिकम्) ॥उभयतः कृष्णं गोपाः । सर्वतः कृष्णम् । धिक् कृष्णाभक्तम् । उपर्युपरि लोकं हरिः । अध्यधि लोकम् । अधोऽधो लोकम् ॥अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि (वार्तिकम्) ॥ अभितः कृष्णम् । परितः कृष्णम् । ग्रामं समया । निकषा लङ्काम् । हा कृष्णाभक्तम् । तस्य शोच्यते इत्यर्थः । बुभुक्षितं न प्रतिभाति किञ्चित् ॥
उपान्वध्याङ्वसः। उप अनु अधि अङ् इत्येतेषां द्वन्द्वः। उपान्वध्याङ्पूर्वो वसिति विग्रहे शाकपार्थिवादित्वात्समासः। तदाह--उपादिपूर्वस्येति। उपवसतीत्यादि। वैकुण्ठे वसतीत्यर्थः। उपसर्गा आधारत्वद्योतकाः। अत्र `वसेरश्यर्थस्य प्रतिषेधः` इति वार्तिकम्। तत्राऽर्थशब्दो निवृत्तिवचनः। `अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु` इत्यमरः। भोजनस्याऽर्थो निवृत्तियस्मात्प्रतीयते सोऽश्यर्थः। भोजननिवृत्तिवाचकस्य अशेराधारस्य कर्मत्वप्रतिषेध इति यावत्।
उपान्व। `लुग्विकरणादलुग्विकरणं बलीय`इति `वस निवासे`इति भौवादिक एव गृह्यते, न तु `वस आच्छादने`इत्यादादिक इत्यभिप्रेत्य शपा निर्देशमाह---उपादिपूर्वस्य वसतेरिति। `वसेरशश्यर्थस्य प्रतिषेधः`इति वार्तिकमर्थतो व्याचष्टे
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
उपान्वध्याङ्वसः वसेरश्यर्थस्य प्रतिषेधः ।। 1 ।। वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः । ग्रामे उपवसतीति ।। स तर्हि वक्तव्यः ? न वक्तव्यः । नाऽत्रोपपूर्वस्य वसेर्ग्रामोऽधिकरणम् । कस्य तर्हि ? अनुपसर्गस्य । ग्रामेऽसौ वसंस्त्रिरात्रमुपवसतीति ।। 48 ।।