Page loading... Please wait.
1|4|45 - आधारोऽधिकरणम्
॥ तस्मै पाणिनये नम: ॥
1|4|45
SK 632
आधारोऽधिकरणम्  
सूत्रच्छेद:
आधारः - प्रथमैकवचनम् , अधिकरणम् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कारके  [1|4|23]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
आघ्रियन्ते ऽस्मिन् क्रियाः इत्याधारः। कर्तृकर्मणोः क्रियाश्रयभूतयोः धारणक्रियां प्रति य आधारह्, तत् कारकम् अधिकरणसंज्ञं भवति। कटे आस्ते। कटे शेते। स्थाल्यां पचति। अधिकरनप्रदेशाः सप्तम्यधिकरणे च 2|3|36 इत्येवम् आदयः।
`आध्रियन्ते क्रियागुणा अस्मिन्नित्याधारः` इति। `अध्यायन्यायोद्यावट 3|3|122 इत्यादिनाऽ‌ऽधारशब्दोऽधिकरणे घञन्तो व्यत्पादित-। क्रियापेक्षत्वत् कारकस्येति क्रियाग्रहणम्। यद्याध्रियन्ति क्रिया यस्मिन् स आधारः इति, एवं हि सति कर्तृकर्मणोरेवाधिकरणसंज्ञा प्रसज्येत, तयोरेव हि क्रिया आध्रियन्ते। तथा हि- कत्र्तस्था व #आ क्रिया भवति, कर्मस्था वा, अनवकाशत्वात् कर्त्तृकर्मणोः संज्ञा न भविष्यत्येष दोष प्रसङग् इति, एतच्चानुत्तरम्; सत्यपि ह्रनवकाशत्वे तयोः पर्यायः स्यात्। एकदाधिकरणसंज्ञा भवितव्यं तं दर्शयति। प्रतिराभिमुख्ये। `क्रियां प्रति य आधारः` इति॥ क्रियाया अभिमुखो य आधार इत्यर्थः। यश्च क्रियां धारयति स क्रियाया अभिमुखो भवति। क्रियायास्तु धारणं साक्षात्, व्यवधानेन वा; कर्त्तृकर्मणोः क्रियाश्रययोर्धारणात्। अत्र पूर्वस्य व्यवच्छेदार्थं `कर्त्तृर्मणोः` इत्युक्तम्।तदेतदुक्तं भवति-- कर्त्तृकर्मणोः क्रियाधारभूतयोर्धारणात् क्रियाया अभिमुखो य आधारस्तस्याधिकरणसंज्ञा भवतीति। तदेवं क्रियाधारभूतकर्त्तृकर्मधारणद्वारेण क्रियाया अभिमुखो य आधारस्तस्याधिकरणसंज्ञा; यतोऽनेन विधीयते ततो न भवति पूर्वस्य दोषप्रसङ्गः। न हि कर्त्तृकर्मणोरनेन प्रकारेण क्रियां प्रत्याधारत्वम्; अपि तु साक्षादेव क्रियाधारणात्। नन्वेवमपि कर्त्तृकर्मणोर्मुख्यं क्रियाधारत्वम्, साक्षादेव क्रियाधारणात्, कर्त्तृकर्माधारस्य तु कटादेर्गौणत्वं क्रियाश्रयभूतकर्त्तृकर्मधारणद्वारेण क्रियाधारणात्। तत्र मुख्य आधारे सति गौणस्याधिकरणसंज्ञा न प्राप्नोतीति स दोषसत्दवस्थ एव? नैतदस्ति; तमब्ग्रहणेन ज्ञापितमेतत्-- गौणस्याप्याधारस्याधिकरणसंज्ञा भवतीति। भवतु गौणस्याधिकरणसंज्ञा, मुख्यस्यापि कर्त्तृ कर्मणश्च कस्मान्न भवतीति चेत्, न; परत्वादनवकाशत्वाच्च कर्त्तृकर्मसंज्ञाभ्यां बाध्यमानत्वात्। अधिकरणसंज्ञा हि पूर्वो गौण आधारे सावकाशा, तद्विपरीते तु कर्त्तृकर्मसंज्ञे इति ताभ्यां बाध्यमाना नोत्सहते तयोर्विषयमवगाहितुम्।`कटे आस्ते` इति। कर्त्तृस्था क्रिया यत्र पूर्वेण प्रकारेणाध्रियते तस्योदाहरणम्;; विक्लेदनक्रियायाः कर्मस्थत्वात्। `स्थाल्यां पचति` इति। कर्मस्था क्रिया यत्राध्रियते तस्योदाहरणम्; विक्लेदनक्रियाया कर्मस्थत्वात्।तत्पुनरधिकरणं त्रिप्रकारम्-- औपश्लेषिकम्,वैषयिकम्, अभिव्यापकञ्च। तत्राद्ये -- कटे आस्ते,स्थाल्यां पचतीति कटादेर्पयाधारस्य ह्राधेयेन सहोपश्लेषः संयोगलक्षणोऽस्तीत्यौपश्लेषिकं तद्भवति। वैषयिकम्-- गुरौ वसति, गङ्गायां घोष इति। प्रतिवसतीति विषयो ह्रनन्यत्रभावः, यथा-- चक्षुष्वप्रभृतीनां रूपादिभ्योऽनन्यत्रभावाच्चक्षुरादीनां रूपादयो विषया इत्युच्यन्ते, एवं शिष्यादीनां गुर्वादिभ्योऽनन्यत्रभावादेषां ते विषया इति। ननु च `आधारोऽधिकरणम्` 1|4|45 इत्युक्तम्, आधारश्च को भवति? य आश्रयः; संयोगतः समवायो वा भवति, न च शिष्यादीनां गुरुप्रभृतिभिः सह संयोगः समवायो वाऽस्ति, तदयुक्तं तेषामधिकरणत्वम्? नैतदस्ति; यदायत्ता हि यस्य स्थितिः स विनापि संयोगसमवायाभ्यां तस्याश्रयो भवति, यथा-- राजायत्तस्थितित्वात् पुरुषस्य राजेति; न च राज्ञा सह पुरुषस्य संयोगसमवायौ स्त-। तथा हि-- तदधीनस्थितित्वात् राजाश्रयः पुरुष इति लोके व्यपदिश्यते, तथा शिष्यादीनां गुर्वाद्यायत्ता स्थितिरिति युक्तस्तान् प्रति गुरुप्रभृतीनामाश्रयभावः। अभिव्यापकं यथा-- तिलेषु तैलम्, दघ्नि सर्पिरिति। तिलादिकं तैलदिकमाधेयं व्याप्यावतिष्ठत इति तिलादिकमभिव्यापकमधिकरणम्। यद्यप्यत्र तिलादीनां तैलादिभिः सह संयोगोऽस्ति, तथापि देशविभागाभावादत्र संश्लेषव्यवहारो नास्तीत्यौपश्लेषिकात् तत्पृथगेवोपस्थाप्यते॥
आध्रियन्तेऽस्मिन् क्रिया इत्याधार इति ठध्यायन्यायोद्यावऽ इत्यादिनाऽधिकरणे घञ्। क्रियापेक्षत्वात् कारकभावस्य क्रियाग्रहणम्। यदि क्रियाधारस्याधिकरणसंज्ञा, कर्तृकर्मणोरेव स्यात्। कर्तृस्था हि क्रिया भवति कर्मस्था वा। कर्तृसंज्ञायाः कोऽवकाशः? ये कर्मस्थक्रियाः- पचत्योदनं देवदत इति। नन्वत्राप्यधिश्रयणादेराधारः कर्तेति स्यादेव प्रसङ्गः? अयं तर्ह्यवकाशः- देवदताय रोचते मोदक इत्युक्तम्, अत्र देवदतस्थस्याभिलाषस्य मोदकः कर्तेति। अथाप्यनवकाशा कर्तृसंज्ञा? एवमपि पर्यायः स्यात्। अथ कर्मसंज्ञायाः कोऽवकाशः? ये कर्तृस्थक्रियाः-आदित्यं पश्यतीति। अतः कर्तृकर्मणोरेवाधिकरणसंज्ञाप्रसङ्ग इत्यत आह--कर्तृ कर्मणोरित्यादि। कथं पुनः साक्षात्क्रियाधारे सम्भवति क्रियाधारभूतकर्तृ कर्मव्यवधानेन क्रियाधारस्य गौणस्य ग्रहणं शक्यं विज्ञातुम्? करणसंज्ञायां तमब्ग्रहणेन ज्ञापितमेतद्-यथाकथञ्चित्क्रियाधारस्यापि करणसंज्ञा भवतीति। मुख्यस्यापि तु कस्मान्न स्याद्? आस्त इति कर्तृस्थायाः क्रियाया उदाहरणम्। पचतीति कर्मस्थायाः। त्रिविधं च तदधिकरणम्--औपश्लेषिकम्, वैषयिकम्, अभिव्यापकं चेति। कटे आस्ते,गुरौ आवसति, तिलेषु तैलमिति॥
सिद्धान्तकौमुदी
कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणसंज्ञः स्यात् ॥
आधारोऽधिकरणम् - आधारोऽधिकरणं । "कारके" इत्यधिकृतं प्रथमान्ततया विपरिणम्यते, तच्च आधारस्य विशेषणम्, आधारः कारकमधिकरणमिति लभ्यते । क्रियान्वयि कारकम् । एवञ्च कस्याधार इत्याकाङ्क्षायाम् उपस्थितत्वात्क्रियाया इति लभ्यते । क्रिया च कर्तृकर्मगता विवक्षिता । तदाधारत्वं च न साक्षात्, किंतु कर्तृकर्मद्वारैव, व्याख्यानात् । तदाह — कर्तृकर्मद्वारेति । तन्निष्ठेति । कर्तृकर्मनिष्ठेत्यर्थः ।
आधारोऽधिकरणम् - आधारः । आध्रियतेऽस्मिन्नित्याधारः ।अध्यायन्याय — -॑इति सूत्रेअवहाराधारे॑ त्युपसङ्ख्यानादधिकरणे घञ् । स चाधारः कस्येत्याकङ्क्षायां कारकाधिकारात्क्रियाया इति लभ्यते । इयं च संज्ञा साक्षात्क्रियाधारयोर्न सम्भवति, पराभ्यां कर्तृकर्मसंज्ञाभ्यां बाधितत्वात् । अतो व्याचष्टे — कतृकमद्वारेति । एवं चभूतले घट॑इत्यादौ अस्तीति क्रियाध्याहारो बोध्यः । त्रिधेति । एतच्चसंहितायाम् इति सूत्रे भाष्ये स्पष्टम् । नद्यमास्त इत्याद्यर्थं सामीपिकमधिकरणं चतुर्थमपि केचिदिच्छन्ति । कटे आस्ते इति । कर्तृद्वारा क्रियाधारस्योदाहरणमिदम् । कर्मद्वारा क्रियाधारस्य तु — -स्थाल्यां पचतीति । वैषयिकाधारमुदाहरति — -मोक्षे इच्छाऽस्तीति । अभिव्यापकस्य तु — -सर्वस्मिन्निति । तिलेषु तैलमित्याद्यप्यभिव्यापकस्योदाहरणमाहुः । चतरुआ इति । प्रातिपदिकार्थमात्र इत्यर्थः । दूरान्तिकार्थेभ्य इत्यस्येहाऽनुवर्तनादधिकरणेऽप्येते बोध्याः । क्तस्येन्विषस्य कर्मण्युपसङ्ख्यानम् । क्तस्येन्विषयस्येति । इन्िन्नन्तः शब्दो, विषयो=वर्तभूतमिर्यस्य क्तान्तस्य तस्येत्यर्थः । अन्ये त्वाहुः — इनो विषय इति षष्ठीसमासः । विषयशब्देनेह प्रकृतिरुच्यते । क्तान्तस्येनः प्रकृतित्वादिति । अधीति व्याकरणे इति । भावे क्तप्रतक्यये ततइष्टादिभ्यश्च॑ इति कर्तरीनौ कृते पश्चाद्गुणभूतक्रियया सम्बध्यमानं व्याकरणमनभिहितं कर्मेति कृतपूर्वी कटमितिवव्द्दितीयाऽत्र प्राप्ता ।मासमधीति व्याकरणे॑ इत्यादौ त्वकर्मकैर्धातुभिरियोगनिमित्तस्य कालकर्मणो बहिरङ्गत्वादिहाऽग्रहणमिति सप्यम्यभावः । न चैवं तत्र द्वितीयापि न स्यादिति वाच्यम् । लक्ष्यानुरोधेन द्वितीयाविधाने व्यक्तिपक्षाश्रयणात् । एतच्च कोस्तुभे स्थितम् ।साध्वसाधुप्रयोगे च । साध्वसाधुप्रयोगे च । यत्राऽर्चा न विवक्षिता, किं तु तत्त्वकथनमात्रं, तत्रापि सप्तम्यर्तं वार्तिकेऽस्मिन् साधुग्रहणं, साधुर्भृत्यो राज्ञीत्यादि यथा ।साधुनिपुणाभ्याम्इति सूत्रे साधुग्रहणं त्वर्चायां ववक्षितायां प्रतियोगे सप्तमीनिवृत्त्यर्थमिति विवेकः ।निमित्तात्कर्मयोगे । निमित्तमिह फलमिति । यदि तुकारणमित्युच्येत तर्हिजाङ्येन बद्ध॑ इत्यादावतिप्रसङ्गः स्यादिति भावः । चर्मणीति । चर्मणीति । चर्मद्वीप्यादीनां समवायः सम्बन्धः । हेतुतृतीयेति । तादर्भ्ये चतुर्थीत्यपि बोध्यम् । सीमाऽन्ण्डकोश इति । तथा च मेदिनीकारः — ॒सीमा घाटस्थितिक्षेत्रेष्वण्डकोशु च स्त्रियाम् इति ।अथ पुष्कलको गन्धमृगे क्षपणकीलयोः॑ इति च । हरदत्तस्तु — -॒पुष्कलकः शङ्कुः, सीम्नि=सीमज्ञानार्थं हतो=निहतः निखात॑ इत्याह । अस्मस्तु पक्षे सीमपुष्कलयोः संयोगसम्बन्धः ।
लघुसिद्धान्तकौमुदी
कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणं स्यात्॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!