॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|43
SK 562
1|4|43
दिवः कर्म च
SK 562
सूत्रच्छेद:
दिवः - षष्ठ्येकवचनम् , कर्म - प्रथमैकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कारके  [1|4|23]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet. It will be updated eventually, but if you would like us to update this sutra on priority, please send a message using the link at the bottom of this page. Thanks!
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
पूर्वेण करणसंज्ञायां करनसंज्ञायां प्राप्तायाम् कर्मसंज्ञा विधीयते। दिवः साधकतमं यत् कारकम् तत् कर्मसंज्ञम् भवति, चकारात् करणसंज्ञम् च। अक्षान् दीव्यति, अक्षैर् दीव्यति।
`दीव्यति` इति। `हलि च` 8|2|77 इति दीर्घः॥
ननु चाक्षान् दीव्यतीत्यत्र पातयतीत्यर्थस्तत्र कर्मत्वं सिद्धम्; अक्षैर्दीव्यतीति, क्रिडतीत्यर्थः, तत्र करणत्वं सिद्धम्, किमर्थमिदमित्याशाङ्क्याह--पूर्वेण करणसंज्ञायामिति। अक्षैः क्रीडतीत्यस्यामेव विवक्षायामक्षान् दीव्यतीतीष्यते, अत्र च करणसंज्ञैव प्राप्नोति, अक्षान्पातयतीत्यत्र चार्थेऽक्षैर्दीव्यतीति नेष्यते, अतः साधकतमस्यैव करणसंज्ञायां प्राप्तायामयमारम्भ इत्यर्थः। अथ किमर्थश्चकारः? करणसंज्ञापि यथा स्यात् नैतदस्ति प्रयोजनम्; वक्ष्यमाणमन्यतरस्यांग्रहणमिहैव करिष्यामि, तत्राह--चकारात्करणसंज्ञं चेति। युगपत्संज्ञाद्वयं यथा स्यादिति भावः। अन्यतरस्यांग्रहणे तु पर्यायः स्यात्--यदा कर्म न तदा करणम्, यदा करणं न तदा कर्म; चकारातु युगपदेव संज्ञाद्वयं भवतीत्यर्थः। यौगपद्यप्रयोजनं मनसा दीव्यतीति कर्मत्वादण् प्रत्ययः, करणत्वाच्च तृतीयाठ्मनसः संज्ञायाम्ऽ इत्यलुक्-मनसा देवः। इह चाक्षैर्देअवयते देवदतो यज्ञदतेनेति, अक्षैरिति तृतीयाप्रयोगेऽपि धातोः सकर्मकत्वाद् ठ्गतिबुद्धिऽ इत्यादिनाऽण्यन्तावस्थायां कर्तुर्यज्ञदतस्य कर्मसंज्ञा न भवति, ठणावकर्मकात्ऽ इति परस्मैपदं च। यदि तर्हि समावेशः- अक्षान् दीव्यतीति परत्वात् तृतीया प्राप्नोति; पर्याये तु नायं दोषः, कर्मसंज्ञापक्षे करणसंज्ञाया अभावात्। समावेशे तु करणसंज्ञाया अवकाशः-विदेवना अक्षाः, ठ्करणाधिकरणयोश्चऽ इति ल्युट्; कर्मसंज्ञाया अवकाशः-दीव्यन्ते भवताक्षाः, ठ्भावकर्मणोःऽ इति यगात्मनेपदे; अक्षानित्यत्र भयसंज्ञाकार्यप्रसङ्गे परत्वातृतीया स्यात्, नैष दोषः; कार्यकालं हि संज्ञापरिभाषम्, ततश्च ठ्कर्मणि द्वितीयाऽ इत्यत्र यदस्योपस्थानं तदनवकाशमिति द्वितीया भविष्यति। अयं तर्हि समावेशे दोषः- दीव्यन्तेऽक्षा इति कर्मण्यभिहितेऽपि करणस्यानभिहितत्वातृतीया स्यात्, देवना अक्षा इति ल्युटा करणस्याभिधानेऽपि कर्मणोऽनभिधानेन द्वितीया स्यात्? नैष दोषः; एकैव कारकशक्तिः संज्ञाद्वययोगिनी। ततश्यैकस्मिन् कारकेऽभिहिते कारकान्तरमप्यभिहितमेव भवति; शक्तेरेकत्वात्॥
सिद्धान्तकौमुदी
दिवः साधकतमं कारकं कर्मसंज्ञं स्याच्चात्करणसंज्ञम् । अक्षैरक्षान्वा दीव्यति ॥
दिवः कर्म च। साधकतममित्यनुवर्तते। तदाह--दिवः साधकतममिति। दिवुधात्वर्थं प्रति साधकतममित्यर्थः। चादिति। चकारात्करणसंज्ञकमित्यपि लभ्यत इत्यर्थः।
द्विद्रोणेनेति। द्वयोर्द्रोणयोः समाहारो द्विद्रेणम्। पात्रादित्वात्स्त्रित्वाऽभावः। द्रोणद्वयसम्बन्धि धान्यमित्यर्थः। इह षष्ठी प्राप्ता। द्विद्रोणपरिमितधान्यार्थे मूल्ये द्विद्रोणशब्दः, तस्य च क्रयं प्रति करणत्वमितीहापि तृतीया सिद्धेति दिक्। चादिति। करणशब्दानुवृत्त्या, `परिक्रयणे संप्रदानमन्यतरस्या`मित्युत्तरसूत्रस्थाऽन्यतरस्याङ्ग्रहणापकर्षणेन वा संज्ञयोः पर्यायत्वे लब्धे चग्रहणं समुच्चयार्थम्। तेन `मनसा दीव्यती`ति `मनसदिव`इत्यत्र कर्मण्यण्, करणे तृतीया चोभयं युगपत्सिध्यति। `मनसः संज्ञायाम्`इत्यलुक्। किञ्च `अक्षैर्देवयते देवदत्तो यज्ञदत्तेने`त्यत्र सकर्मकत्वादणि कर्तुर्णौ `गतिबुद्धी`त्यनेन कर्मत्वं न, `अणावकर्मका`दिति परस्मैपदमपि न भवति। ननु कर्मकरणसंज्ञासमावेशस्य `मानसादेव`इत्यत्र क-तार्थत्वादक्षान्दीव्यतीत्यत्र परत्वातृतीयैव स्यान्न तु द्वितीयेति चेत्?, अत्राहुः--कार्यकालपक्षे `कर्मणि द्वितीये`त्यत्र यदस्योपस्थानं तस्यानवकाशत्वाद्द्वितीयेति। स्यादेतत्--`दीव्यन्तेऽक्षा`इत्यत्राभिहितेऽपि कर्मणि करणत्वस्याऽनभिधानातृतीयं स्यात्। तथा `देवना अक्षा`इत्यत्र ल्युटा करणत्वस्याभिधानेऽप#इ कर्मणोऽनभिधानद्द्वितीया स्यात्। मैवम्। एकाव ह्यत्र शक्तिः संज्ञाद्वययोगिनी, तथा चैकस्यां शक्तावभिहितायामन्यस्या अप्यभिधानादुभयत्राप्यभिधानमेव, न त्वन भिहितत्वम्।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!