॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|42
SK 560
1|4|42
साधकतमं करणम्
SK 560
सूत्रच्छेद:
साधकतमम् - प्रथमैकवचनम् , करणम् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कारके  [1|4|23]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Menwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
क्रियासिद्धौ यत् प्रकृष्टोपकारकं विवक्षितम् तत् साधकतमं कारकम् करणसंज्ञं भवति। दात्रेण लुनाति। परशुना छिनत्ति। तमब्ग्रहनम् किम्? गङ्गायां घोषः। कूपे गर्गकुलम्। करणप्रदेशाः कर्तृकरणयोस् तृतीया 2|3|18 इत्येवम् आदयः।
ननु च सामग्र्यधीना हि क्रियासिद्धरेकस्याप्यभावेन न भवति। तत् कस्यात्र प्रकर्षो यत्परिग्रहाय साधकतमशब्दस्य ग्रहममित यश्चोदयेत्, तं प्रत्याह-- `क्रियासिद्धौ` इत्यादि। प्रकृष्टम् = अत्यन्तमुपकारकम्। अथ वा -- प्रकर्षः प्रकृष्टम् `नुपंसके भावे क्तः` 3|3|114 । प्रकृष्टेन प्रकर्षेणोपकारकं प्रकृष्टोपकारकं यत् क्रियायसिद्धिविषये प्रकर्षेणोपकारकं विवक्षितं तत् साधकतमम्। विवक्षितग्रहणं यदा प्रकृष्टोपकारकत्वेन विवक्ष्यते, तदा साधकतमव्यवहारो विज्ञायते, नान्येदित ज्ञापनार्थम्। तथाहि-- विवक्षावशाद् यदेव कदाचित् करणम्भवति-- धनुषा विध्यतीति, तदेव कदाचित् स्वातन्त्र्यविवक्षायां कर्त्तृत्वमनुभवति-- टधनुर्विध्यतीति। `लुनाति` इति। `प्वादीनां ह्यस्वः` 7|3|80 ।`तमब्ग्रहणं किम्? गङ्गायां घोषः` इति। यदि तमब्ग्रहणं न क्रियेत, ततोऽत्राधिकरणसंज्ञा न स्यात्। इह हि द्विवध आधारः- गौणः,मुख्यश्च। तत्र मुख्यो य आधेयेन व्याप्यते, यथा-- तिलेषु तैलमस्ति;अत्र तैलेनाधेयेनाधारभूतास्तिला व्याप्ताः। अव्याप्तो गौणो यथा-- गङ्गायां घोष इति। अत्र हि सामीप्याद् गङ्गायां आधारत्वमुपचरितम्, न मुख्यम्; व्याप्त्यभावात्। तत्रासति तमब्ग्रहणे `गौणमुख्ययोर्मुख्ये कार्यसंम्प्रत्ययः` (व्या।प।4) इति मुख्यस्यैवाधिकरणसंज्ञा स्यात्, नेतरस्य; तमब्ग्रहणात् तस्यापि भवति; तथपीह तमब्ग्रहणं न कत्र्तव्यम्,कथम्? विनापि तेन प्रकर्षावगतेः। यथैव ह्रनभिरूपाय कन्यादानस्य प्रवृत्तिर्नास्तीत्यभिरूपाय कन्या देयेत्युक्ते विनापि प्रकर्षप्रत्ययेनाभिरूपतमायेति गम्यते; तथेहापि कारकाधिकारादसाधके संज्ञायाः प्रवृत्तिर्नस्तीति `साधकं करणम्` इत्युक्तेऽन्तरेणापि तमब्ग्रहणं साधकतममिति गम्यते, तत्क तमब्ग्रहणेन? तदेतत् तमब्ग्रहणं ज्ञापनार्थं कृतम्। एतदनेन ज्ञाप्यते-- `इह कारकाधिकारे इतः सूत्रादन्यत्र विना तमब्ग्रहणेन प्रकर्षो नाश्रीयते` इति। तेन `आधारोऽधिकरणम्` 1|4|45 इत्यनेन `गङ्गायां घोषः` इत्यादावमुख्यस्यापि गङ्गादेराधारस्याधिकरणसंज्ञा सिद्धा भवति॥
ठ्षिधू संराद्धौऽ इत्यस्य हेतुमण्ण्यन्तस्य ठ्सिद्ध्यतेरपारलौकिकेऽ इत्यात्वे ठ्राध साध संसिद्धौऽ इत्यस्य वा ण्यन्तस्य साधकशब्दः। क्रियात्मकश्चार्थः। प्रयोज्यः कर्ता, सिध्यतः साध्यवतो वा क्रियात्मनोऽर्थस्य प्रयोजकतमं साधकतमम्। ननु सामग्«अधीना क्रियासिद्धिर्नो खलु कर्त्रादीनामन्य तमापायेऽपि क्रिया निष्यद्यते, तत्किमपेक्षः कारकाणां मध्ये एकस्यातिशययोगः स्यात्? उच्यते; छेद्यद्रव्यानुप्रवेशो व्यापारः, काष्ठादे पाके प्रज्वलन जनितोष्णस्पर्शानुप्रवेशः, तदनन्तरमेव क्रियासिद्धिः नैवं कारकान्तरेष्वनुप्रवेशः तद्व्यापारानन्तरं वा क्रियानिष्पतिः समस्ति, अतः- क्रियायाः परिनिष्पतिर्यद्व्यापारादनन्तरम्। विवक्ष्यते यदा तत्र करणं ततदा स्मृतम्॥ ठ्विवक्ष्यतेऽ इत्यनेनैतद् दर्शयति-देशकालावस्थादिवशेन यस्य क्रिया प्रत्युपयोगातिशयेन व्यापारः प्रत्यासीदन् विवक्ष्ये, तदा तस्य करणत्वं भवतीति। यथा स्थाल्यधिकरणत्वेन प्रसिद्धा, तस्या अपि तनुतरकपालतया प्रकर्षविवक्षायां करणत्वं भवति-स्थाल्या पच्यत इति। उक्तं च-- वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम्। स्थाल्या पच्यत इत्येषा विवक्षा द्दश्यते यतः॥ इति। न चैवं कर्तुरपि करणत्वविवक्षाप्रसङ्गः; भिन्नजातीयत्वात्। सकलसाधनविनियोगकारी खल्वसौ, न च शतधनो निष्कधनेन सह स्पर्द्धते!कथं तर्ह्यश्वेन दीपिकया रथेन सञ्चरते इति बहूनां करणत्वम्, यावता तेष्वपि यदासन्नोपकारकं तदेव करणं युक्तम्? उच्यते; कारकान्तरापेक्षः करणस्यातिशयः, न स्वकक्षायाम्; तेन सर्वेषां क्रियानिष्पतौ संनिपत्योपकारकत्वात् सिद्धं करणत्वम्। तमब्ग्रहणं किमिति। कारकाधिकारात् सिद्धे साधकत्वे पुनः साधकश्रुतिः प्रकर्षार्था भविष्यतीति प्रश्नः। गङ्गायां घोष इति। असति तमब्ग्रहणे आधारो नाम यत्राधारात्मा व्याप्तो भवत्याधेयेन, तेनेहैव स्यात्- तिलेषु तैलम्, पयसि सर्पिरिति; गङ्गायां घोष इत्यत्र न स्यात्। तमब्ग्रहणं तु ज्ञापयति-इह प्रकरणे सामर्थ्यगम्यः प्रकर्षो नाश्रीयते, तेनेहापि भवति। यदा च देशधर्मो घोषं प्रत्याधारभावः स्त्रोतस्युपचर्यते, तदेवं तमब्ग्रहणस्य प्रयोजनम्; यदा तु गङ्गाशब्दस्तीरे वर्तते तदा न प्रयोजनम्। आधेयेन व्याप्तिसम्भवान्मुख्य एवाधारभाव इति॥
सिद्धान्तकौमुदी
क्रियासिद्धौ प्रकृष्टोपकारकं करणसञ्ज्ञं स्यात् । तमप् ग्रहणं किम् ? गङ्गायां घोषः ॥
साधकतमं करणं। क्रियासिद्धाविति। क्रियोत्पत्तावित्यर्थः। कारकाधिकारलभ्यमिदम्। प्रकृष्टोपकारकमिति। कर्त्रा क्रियायां जनयितव्यायां यत्सहायभूतं तदुपकारकमित्युच्यते। `साधकतम`मित्यस्य व्याख्यानमेतत्। साधकशब्दादतिशायने तमबिति तमप्। अतिशयितं साधकं साधकतममिति भावः। यद्व्यापारानन्तरं क्रियानिष्पत्तिस्तत् प्रकृष्टम्। कर्तृव्यापाराधीनयद्व्यापाराऽव्यवहिता क्रियानिष्पत्तिस्तत्तस्यां करणमिति यावत्। तमब्ग्रहणं किमिति। साधकमित्येवोच्यताम्, कारकाधिकारादेव सिद्धे पुनः साधकग्रहणादेव प्रकृष्टं साधकमिति विज्ञायत इति प्रश्नः। गङ्गायां घोष इति। अयमाशयः, --कारकप्रकरणे गौणमुख्यान्याय एतत्सूत्रादन्यत्र न प्रवर्तते इति ज्ञापनार्थं तमब्ग्रहणम्। अन्यथा `आधारोऽधिकरण`मित्यत्र अन्वर्थमहासंज्ञाबलादेवाधारलाभे पुनस्तद्ग्रहणसामर्थ्यात्रुआआववयवव्याप्त्या य आधारः सोऽधिकरणमित्यर्थः स्यात्। एवं च `तिलेषु तैलं`, `दध्नि सर्पि`रित्यादावेव स्यात्। `गङ्गायां घोषः`, कूपे गर्गकुल`मित्यादौ न स्यात्। अतस्तमब्ग्रहणमिति भाष्ये स्पष्टम्। अत्र यद्वक्तव्यं तत् `आधारोऽधिकरणं` `सप्तम्यधिकरणे च` इत्यत्र वक्ष्यते।
साधकतमं करणम्। प्रकृष्टेति। यद्द्यापारानन्तरं फलनिष्पत्तिस्तत्पर्रकृष्टम्। उक्तञ्च----`क्रियायाः फलनिष्पत्तिर्यद्द्यापारादनन्तरम्। विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम्`इति। `विवक्ष्यते`इत्यनेन स्थाल्यादीनामपि करणत्वमस्तीति सूचितम्। आह च--`वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम्। स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः`इति। अयं भावः--कारकत्वं तद्द्यप्यकर्तृत्वादिषट्कं च वस्तुविशेषे विशेषणविशेष्यभाववन्न नियतं, किन्तु वैवक्षिकम्। न हि `गौः सर्वं प्रति गौरवे, न तु कञ्चित्प्रत्यगौः` इति वद्विशेषणं सर्वं प्रति विशेषणमेवेति वक्तुं शक्यम्। तथाच कया धातुव्यक्त्या उपस्थापितेऽर्थे किं कत्र्रादिकमिति प्रश्ने `प्रकृतधातुव्यक्त्युपात्तव्यापाराश्रयतया विवक्षितः कर्ता, व्यापारव्यधिकरणफलाश्रयः कर्म, कर्तृकर्मद्वारकसम्बन्धेन व्यापारस्य फलस्य वा आश्रयोऽधिकरण`मिति स्थितम्। पच्यर्थो व्यापार श्चाऽनेकधा। एवञ्च पचेरधिश्रयणतण्डुलावपनैधोपकर्षणादितात्पर्यकत्वे तदाश्रयो देवदत्तः कर्ता, ज्वलनातात्पर्यकत्वे एधाः कत्र्तारः, तण्डुलधारणादिपरत्वे स्थाली कत्रीं, अवयवविभागादिपरत्वे तण्डुलाः कर्तारः। `स्थाल्या पचती`त्यत्र तृतीयोपात्तव्यापाराश्रयाऽपि स्थाली करणमेव, नतु कत्र्री, देवदत्तादिव्यापारास्यैव तद्धातीपात्तत्वात्, तथा आदिखादिभ्यामुपात्तेऽर्थे प्रयोज्यः कर्ता, तस्मिन्नेवार्थे भक्षयतिनोपात्ते प्रयोज्यः कर्म। अधिपूर्वैः शीहादिभिरुपात्तेऽर्थे आधारः कर्म, केवलैरुपात्ते अधिकरणामित्यादि ज्ञेयम्। एतेन ज्ञानस्य स्वप्रकाशत्वे कर्तृकर्मविरोध इति केषाञ्चिदुक्तिः परास्ता। यद्धातूपात्तक्रियायां यदा यस्त स्वातन्त्र्यं विवक्ष्यते तदा तत्क्रियायां स कर्ता, यदुपात्तया कर्तुऋ क्रियाया यदा आप्तुमिष्टतमत्वेन यद्विवक्ष्यते तदा तत्कारकं तत्क्रियायां कर्मेत्येव शब्दविशेषपाधिकस्य कर्तृत्वादेः प्रत्यक्षे उक्तिसम्भवाऽभावात्। यत्तुत केचित्परसमवेतक्रियाजन्यफलशालित्वं कर्मत्वं चेत् `वृक्षात्पर्णं पतती`त्यादौ स्वसमवेतक्रियाजन्यविभागादिफलशालिनि कर्तर्यतिव्याप्त्यभावेऽप्यापादानेऽतिव्याप्तिः स्यादेव। अतश्च धात्वर्थताव्च्छेदकफलशालित्वं कर्मत्वमित्येवाभ्युपगन्तव्यम्। एवञ्च सति `ग्रामं गच्छती`त्यादिसकर्मकेषु गमनजन्यसंयोगादाविष्टाऽनुरोधेने धात्वर्थतावच्छदकत्वेऽभ्युपगतेऽपि, `वृक्षात्पतती`त्याद्यकर्मकेषु पतनाद#इजन्यविभागादौ तदवच्छेदकत्वाऽकल्पनान्नापादानेऽतिव्याप्तिः, नवा` ग्रामं गच्छती`त्यादौ कर्तर्यतिव्याप्तिः,संयोगादिफलजनकीभूतधात्वर्थस्य परसमवेतत्वविशेषणात्कर्मत्वेनाभिमतं यत्तद्भिन्नस्य परशब्देनाऽत्र विवक्षितत्वादित्याहुः। तदप्येतेन प्रत्युक्तम्। `ग्रामं गमयति देवदत्त`मित्यादौ गन्तर्यव्याप्तेः। णिजर्थप्रेरणाजन्यप्रयोज्यव्यापारे गमनादौ धात्वर्थतावच्छेदकत्वाऽभावात्। तत्त्वाभ्युपगमे तु `देवदत्तेन पाचयती`त्यादौ प्रयोज्यकर्तर्यतिव्याप्तेः। `गतिबुद्धी`त्यादिशास्त्राभ्युपगमं विना क्वचित्प्रयोज्यकर्तरि क्रमत्वं, क्वचित्तु कर्तृत्वमिति निर्धारयितुमशक्यत्वात्। `ह्मक्रोरन्यतरस्या`मिति शास्त्रमन्तरेण `हारयति कारयति वा कटं भृत्येन भृत्य`मित्यत्र वैकल्पिककर्मत्वस्य दुरुपपादत्वाच्च। एतादृशेषि वैयाकरणोक्त्यैव निर्वाह इति चेत्, तर्हि `आकडारादेका सञ्ज्ञा, या पराऽनवकाशा चे`त्यक्त्वान्निरवकाशया अपादानसंज्ञया सावकाशायाः कर्मसञ्ज्ञाया बाधान्नोक्तातिव्याप्तिरिति किमनेन `धात्वर्थतावच्छेदके`त्यादि परिश्रमेण?। स्यादेतत्--`आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मने`त्यादिप्रयोगः कथं सङ्गच्छते, एकस्यैव वस्तुनो युगपदेकक्रियानिरूपितकर्तृत्वकर्मत्वादेरसम्भवात्, परया कर्तृसञ्ज्ञया कर्मकरणादिसञ्ज्ञाया बाधात्। नैष दोषः। अहङ्काराद्युपधिभेदेनात्मनोऽपि बेदमाश्रित्य `आत्मानमात्मना हन्ति`इत्यादिप्रयोगस्याकरे समर्थितत्वात्। ननु `साधकं करण`मित्येवास्तु, कारकाधिकारादिह कारकमिति वर्तते, साधकं कारकं हि पर्यायः, तथा चोभयोपादानेन प्रकर्षो लभ्यत इत्याशयेन पृच्छति---तमब्ग्रहणं किमिति। इतरस्तु कारकप्रकरणे गौणमुक्यन्याय एतत्सूत्रादन्यत्र न प्रवर्तत इति ज्ञापनाय तमब्ग्रहणमित्याशयेन ज्ञापनफलमुदाहरति---गङ्गायां घोष इति। उक्तज्ञापनाऽनङ्गीकारे त्विहाधिकरणसञ्ज्ञा न स्यात्। तिलेषु तैलं, दधनि सर्पिरित्यादौ मुख्याधारे तस्याश्चरितार्थत्वादिति भावः। अत्र व्याचख्युः--यदा च तीरधर्म आधारत्वं सामीप्यात्प्रवाहे उपचर्यते तदेदं प्रयोजनम्, यदा तु गङ्गाशब्द एव तीरे वर्तते तदा तु न प्रयोजनम्, तीरस्य मुख्याधारत्वात्। तत्रा द्यपक्षे विभक्तिर्लाक्षणिकी,द्वितीये तु प्रकृतिर्लाक्षणिकीत्यादि।
लघुसिद्धान्तकौमुदी
क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात्॥
महाभाष्यम्
साधकतमं करणम् तमग्रहणं किमर्थं न साधकं करणमित्येवोच्येत ? साधकं करणमितीयत्युच्यमाने सर्वेषामेव कारकाणां करणसंज्ञा प्रसज्येत । सर्वाणि हि कारकाणि साधकानि । तमग्रहणे पुनः क्रियमाणे न दोषो भवति । नैतदस्ति प्रयोजनम् । पूर्वास्तावत्संज्ञा अपवादत्वाद्बाधिका भविष्यन्ति। पराः परत्वादनवकाशत्वाच्च । इह तर्हि धनुषा विध्यति अपाययुक्तत्वाच्चाऽपादानसंज्ञा , साधकत्वाच्च करणसंज्ञा प्राप्नोति । तमग्रहणे पुनः क्रियमाणे न दोषो भवति । एवं तर्हि लोकत एतत्सिद्धम् । तद्यथा, ‐ लोके अभिरूपायोदकमानेयम् अभिरूपाय कन्या देयेति, न चानभिरूपे प्रवृत्तिरस्ति, तत्र अभिरूपतमायेति गम्यते । एवमिहाऽपि साधकं करणमित्युच्यते, सर्वाणि च कारकाणि साधकानि, न चाऽसाधके प्रवृत्तिरिति, तत्र साधकतममिति विज्ञास्यते । एवं तर्हि सिद्धे सति यत्तमग्रहणं करोति तज्ज्ञापयत्याचार्यः ‐ कारकसंज्ञायां तरतमयोगो न भवतीति । किमेतस्य ज्ञापने प्रयोजनम् ? अपादानमाचार्यः किं न्याय्यं मन्यते, यत्र संप्राप्य निवृत्तिः । तेनेहैव स्यात् ‐ ग्रामादागच्छति, नगरादागच्छतीति । साङ्काश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इत्यत्र न स्यात् । कारकसंज्ञायां तरतमयोगो न भवतीत्यत्रापि सिद्धं भवति । तथाऽऽधारमाचार्यः किं न्याय्यं मन्यते, यत्र कृत्स्न आधारात्मा व्याप्तो भवति । तेनेहैव स्यात् ‐ तिलेषु तैलम् दध्नि सर्पिरिति । गङ्गायां गावः, कूपे गर्गकुलमित्यत्र न स्यात् । कारकसंज्ञायां तरतमयोगो न भवतीत्यत्रापि सिद्धं भवति ।। 42 ।।