॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|4
SK 303
1|4|4
नेयङुवङ्स्थानावस्त्री
SK 303
सूत्रच्छेद:
न - अव्ययम् , इयङ्-उवङ्-स्थानौ - प्रथमाद्विवचनम् , अस्त्री - प्रथमैकवचनम्
अनुवृत्ति:
यू  [1|4|3] (लुप्तप्रथमान्तनिर्देश:) - प्रथमैकवचनम् , नदी  [1|4|3] - प्रथमैकवचनम्
अधिकार:
आकडारात् एका संज्ञा  [1|4|1]
सम्पूर्णसूत्रम्
इयङ्-उवङस्थानौ यू नदी न , अस्त्री |
सूत्रार्थ:
"स्त्री" शब्दं वर्जयित्वा अन्ये ईकारान्ताः / ऊकारान्ताः इयङ्-स्थानिनः / उवङ्स्थानिनः शब्दाः नदीसंज्ञकाः न भवन्ति ।
इयङ्-स्थानिनाम् उवङ्स्थानिनाम् च ईकारान्त/ऊकारान्तशब्दानाम् यू स्त्र्याख्यौ नदी 1|4|3 इत्यनेन नदीसंज्ञायां प्राप्तायाम् अनेन सूत्रेण सा निषिध्यते ।

किम् नाम इयङ्-स्थानी शब्दः ? यस्य शब्दस्य केनचित् कारणेन (कुत्रापि) इयङ्-आदेशः भवितुम् अर्हति, सः शब्दः इयङ्-स्थानी अस्ति, इत्युच्यते । तथैव, यस्य शब्दस्य केनचित् कारणेन (कुत्रापि) उवङ्-आदेशः भवितुम् अर्हति, सः शब्दः उवङ्-स्थानी अस्ति, इत्युच्यते ।

यथा - "श्री" अयम् दीर्घ-ईकारान्तः नित्यस्त्रीलिङ्गः शब्दः । अतः यू स्त्र्याख्यौ नदी 1|4|3 इत्यनेन अस्य नदीसंज्ञा विधीयते । परन्तु अयं शब्दः धातुजः अस्ति (श्रि-धातुनिर्मितः अस्ति) येन अचिश्नुधातुभ्रुवाम् य्वोः इयङुवङौ 6|4|77 इत्यनेन अजादिप्रत्यये परे अस्य इयङ्-आदेशः भवति । अतः अयम् शब्दः इयङ्-स्थानी अस्ति इत्युच्यते । अतः वर्तमानसूत्रेण अस्य शब्दस्य नदीसंज्ञा न भवति ।

तथैव, "भ्रू" अयम् अयम् दीर्घ-ऊकारान्तः नित्यस्त्रीलिङ्गः शब्दः । अतः यू स्त्र्याख्यौ नदी 1|4|3 इत्यनेन अस्य नदीसंज्ञा विधीयते । परन्तु अस्य शब्दस्य अचिश्नुधातुभ्रुवाम् य्वोः इयङुवङौ 6|4|77 इत्यनेन अजादिप्रत्यये परे अस्य उयङ्-आदेशः भवति । अतः अयम् शब्दः उवङ्-स्थानी अस्ति इत्युच्यते । अतः वर्तमानसूत्रेण अस्य शब्दस्य नदीसंज्ञा न भवति ।

एतादृशम् ये शब्दाः इयङ्-स्थानिनः उवङ्-स्थानिनः वा सन्ति, तेषाम् अनेन सूत्रेण नदीसंज्ञा निषिध्यते ।

परन्तु अस्य एकः अपवादः अपि अस्ति, यः अस्मिन्नेव सूत्रे उक्तः अस्ति - "अ-स्त्री" । इत्युक्ते "स्त्री" शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । स्त्रीशब्दः इयङ्-स्थानी अस्ति, तथापि वर्तमानसूत्रेण अस्य नदीसंज्ञा न निषिध्यते, अतः यू स्त्र्याख्यौ नदी 1|4|3 इत्यनेन स्त्रीशब्दस्य नदीसंज्ञा भवत्येव, इत्यर्थः ।

ज्ञातव्यम् - केचन पुँल्लिङ्गशब्दाः अपि प्रथमलिङ्गग्रहणं च अनेन वार्त्तिकेन नदीसंज्ञां प्राप्तुम् अर्हन्ति । तेषु ये इयङ्-उवङ्-स्थानिनः सन्ति, तेषाम् अपि अनेन सूत्रेण निषेधः भवेत्, अतः अस्मिन् सूत्रे "स्त्र्याख्यौ" अस्य अनुवृत्तिः नास्ति । यथा, "सुश्री" अस्य ईकारान्तपुँल्लिङ्गशब्दस्य प्रथमलिङ्गग्रहणं च अनेन वार्त्तिकेन नदीसंज्ञायां प्राप्तायाम् वर्तमानसूत्रेण सा निषिध्यते ।
One-line meaning in English
Except for the word "स्त्री", any other word which is eligible for getting an इयङ्-आदेश or an उवङ्-आदेश is not referred as नदी.
काशिकावृत्तिः
पूर्वणातिप्रसक्ता नदीसंज्ञा प्रतिषिध्यते। स्थितिः स्थानम्। इयङुवङोः इति इयङुवङ्स्थानौ, तौ यू नदीसंज्ञौ न भवतः, स्त्रीशब्दम् वर्जयित्वा। हे श्रीः। हे भ्रूः। अस्त्री इति किम्? हे स्त्रि।
`इयङुवङस्थानौ यौ यू तौ नदीसंज्ञकौ न भवतः` इति। यूद्वारेण य्वन्तस्यायं प्रतिषेधो विज्ञायते, न केवलयोः; प्राप्त्यभावात्। न हि यू केवलावियङुस्तानौ स्त्र्याख्यौ विद्येते। `हि श्रीः, हे भ्रूः` इति। अत्र नदीसंज्ञाया अभावात् तन्निबन्धनः `अ म्बार्थनद्योह्र्यस्वः` 7|3|107 इति ह्यस्वो न भवति। `श्रिञ् सेवायाम्` (धातुपाठः-897) `क्विब्वचिप्रच्छिश्रिरुआउद्रुप्रुज्वां दीर्घौऽसम्प्रासारणञ्च`(वा। 288) इति क्विपि दीर्घत्वे कृते श्रीरिति भवति। `भ्रमु अनवस्थाने` (धातुपाठः-1205) इत्यस्मात् `भ्रमेर्डूः` (द।उ।1।177) इति डूप्रत्यये टिलोपे भ्रुरिति भवति। उभयोः `अचि श्नुधातु` 6|4|77 इत्यादिनेयडुवङोर्विधानादियङुवङस्थानौ यू भवतः।`हे स्त्रि` इति। `ष्टऐ स्त्यै शब्दसंधातयोः` (धातुपाठः-911,910)। `आदेच उपदेशेऽशितित 6|1|44 इत्यात्त्वम्; स्त्यायतेर्ड्रट, `टेः` 6|4|155 इति टिभागलोपः; `लोपो व्योर्वलि` 6|1|64 इति वाकरस्य लोपः, `टिट्ढा` 4|1|15 इत्यादिना ङीप्। अत्र नदीसंज्ञायाः प्रतिषेधाभावात् ह्यस्वत्वं भवत्येव। स्त्रीशब्दस्य `स्त्रियाः` 6|4|79 इतीयङविधानादियङस्थान ईकारः।अथ स्थानग्रहणं किमर्थम्? इयङुवङस्थानयोः प्रतिषेधो यथा स्यादिति चेत्? न; यद्येतत् प्रयोजनमभिमतं स्यात् `इयङुवङोः` इत्येवं वाच्यम्। एवमप्ययमेवार्थः--- ईयङुवङोः सम्बन्धौ यौ यू तयोर्नदीसंज्ञा न भवतीति। कौ च तयोः सम्बन्धिनौ यू? यौ तयोः प्रकृतिभुतावियङुवङरस्थानाविति, अन्तरेणापि स्थानग्रहणमियङुवङस्थानयोः प्रतिषेधो विज्ञास्यते। इदं तर्हि स्थानग्रहणस्य प्रयोजनम्-- यत्रेयङ्वङोः स्थितिरभिनिवृत्तिस्तत्र प्रतिषेधो यथा स्यात्। यत्र त्वपवादेन तयोर्बाधस्तत्र मा भूदिति-- आध्यै, वर्षाभ्वै इति। `ध्यै चिन्तायाम्` (धातुपाठः-908) `अन्यभ्योऽपि दृश्यते` 3|2|178 इति क्विप्; सम्प्रसारणञ्च। सम्प्रसारणन्तु दृशिग्रहणाल्लभ्यते। तथा हि तत्रैव दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम्। क्वचिद्दीर्घः, क्वचिद्द्विर्वचनमित्युक्त्वा `ध्यायतेः सम्प्रसारणञ्च` (वा।292) इति वक्ष्यति। कृतसम्प्रसारणस्यैव चतुर्थ्येकवचने `एरनेकाचः` 6|4|82 इत्यादिना यणादेशः। वर्षाभूशब्दस्यापि `वर्षाभ्वश्च` 6|4|84 इति।
इयणुवङे स्थानमनयोरिति। वैयधिकरण्येऽपि गमकत्वाद्वहुव्रीहिः। अन्ये त्वधिकरणे ल्युट्ंअ विधाय कर्तरि षष्ठयाः समासं कुर्वन्ति। अथ कथम् ठ्विमानना सुभ्रु कुतः पितुर्गृहेऽ इति? प्रमाद एवायम्। अन्येत्वाहुः-अनित्योऽयं प्रतिषेधः, सकृद्वद्धत्वात् । तथा च परिभाषा-ठ्सकृद्वद्धमनित्यं द्विर्बद्धञ्च सुबद्धम्ऽ इति। अत्र ज्ञापकं तदो दावचनमित्याहुः॥
सिद्धान्तकौमुदी
इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो नतु स्त्री । हे श्रीः । श्रिये । श्रियै । श्रियाः । श्रियः ॥
नेयङुवङ्स्थानावित्यतोऽस्त्रीत्यस्यानुवृत्तिर्वक्तव्या। ततश्च इयङुवङ्स्थानाविति यत्रान्वेति तत्रैव तत्संबद्धस्याऽस्त्रीत्यस्यानुवृत्तिरुचिता। एवं च ह्रस्वादिवाक्ये इयङुवङ्स्थानावित्यस्याऽनुवृत्त्यभावादस्त्रीत्यस्यापि तत्र नानुवृत्तिरिति भावः। अतिस्त्रियै इति। नदीत्वपक्षे आट् वृद्धिः। अतिस्त्रये इति। नदीत्वाऽभावे घित्वात् `घेर्ङिती`ति गुणेऽयादेशः। अतिस्त्रियाः अतिस्त्रेरिति। नदीत्वे आट्। तदभावे गुणः। `ङसिङसोश्चे`ति पूर्वरूपम्। अतिस्त्रियामिति। नदीत्वपक्षे ङेराम्, आट्। अतिस्त्राविति। नदीत्वाऽभावपक्षे `अच्च घेः`। श्रीरिति। श्रयन्त्येतामिति श्रीः। `क्विब्बचिप्रच्छिश्रिस्नुद्रुप्रुज्वां दीर्घोऽसंप्रसारणं चे`ति क्विप्, प्रकृतेदीर्घश्च। श्री शब्दात्सुः। अङ्यन्तत्वान्न सुलोपः। श्रियौ श्रिय इति। `दीर्घाज्जसि चे`ति पूर्वसवर्णदीर्घनिषेधौ `इको यणची`ति यणि प्राप्ते धात्वयवेवर्णान्तत्वादचि श्नुधात्वितीयङ्। एकाच्त्वात्संयोगपूर्वकत्वाच्च यण् न। `यू स्त्र्याख्यौ` इति नदीत्वात् `अम्बार्थे`ति ह्रस्वेप्राप्ते--नेयङुवङ्। `यू स्त्र्याख्यौ नदी` इत्यतो `यू` `नदी`त्यनुवर्तते। `स्थान` शब्दो भावे ल्युङन्तः। इयङुवङोः स्थानं स्थितिर्ययोरिति बहुव्रीहिः। इयङुवङ्योग्याविति यावत्। तदाह--इयङुवङोरित्यादिना। हे श्रीरिति। अजादाबियङ्योग्यत्वान्नदीत्वनिषेधादम्बार्थनद्यौ`रिति ह्रस्वो नेति भावः। श्रियमिति। अमि पूर्वरूपं बाधित्वा इयङ्। श्रियौ श्रिय इति। औट्शसोः पूर्ववत्। टा-श्रिया। श्रियै इति। `ङिति ह्रस्वश्चे`ति ङिति नदीत्वपक्षे आट्, वृद्धिः। श्रिये इति। नदीत्वाऽभावे इयङ्। श्रिया इति। ङसिङसोर्नदीत्वे आट्, वृद्धिः। श्रिय इति। नदीत्वाऽभावपक्षे इयङेव। ङित्त्वाऽभावादामि `ङिति ह्रस्वश्चे`ति अप्राप्ते।
नेयङ्वङ्स्तानावस्त्री। तिष्ठतो ययोरिति `स्थानौ`। अधिकरणे ल्युट्। इयङुवङोः स्थानाविति षष्ठीसमासः। तथाच फलितार्थमाह---इयङुवङोः स्थितिर्ययोरिति। स्थानग्रहणं किम्? प्रकृष्टा धीः--प्रधीः। हे प्रधि!। अत्र `एरनेकाच` इति यणा इयङो बादानान्नेयङुवङ्स्थानाविति निषेधो न प्रवर्तते। `यत्रेयडुवङौ निष्पद्येते तत्रैव नदीसंज्ञाया निषेधः। यत्र त्वपवादेन बाध्यते तत्र न निषेध`इत्येतदर्थं हि `स्थान`ग्रहणं कृतम्। अन्यथा `नेयङुवङा`रित्येव ब्राऊयात्। `इवङुवङोनिमित्तभूतौ यू नदीसंज्ञकौ ने `त्यर्थलाभात्। अस्त्रीति किम्? हे स्त्री।
लघुसिद्धान्तकौमुदी
इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो न तु स्त्री। हे श्रीः। श्रियै, श्रिये। श्रियाः, श्रियः॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!